फलकम्:मुख्यपृष्ठं -आधुनिकलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगिनी निवेदिता
भगिनी निवेदिता

भगिनी निवेदिता इति स्वामिविवेकानन्देन प्रदत्तं नाम। तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत्। भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते। मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री। एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत्। मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम्। स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महत्योगदानं वर्तते। (अधिकवाचनाय »)