भूपेन्द्र पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भूपेन्द्र पटेल
"दादा" इति लालितकनाम
संस्कृतपुस्तकस्य विमोचनं कुर्वन् श्रीभूपेन्द्रः
गुजरातस्य सप्तदशः मुख्यमन्त्री
Assumed office
13 September 2021
Governor आचार्यः देवव्रतः
Preceded by विजय रूपाणी
Constituency घाटलोडिया
Assumed office
२०१७
Preceded by आनंदीबेन पटेल
Constituency घाटलोडिया
व्यैय्यक्तिकसूचना
Born (१९६२-२-२) १५ १९६२ (आयुः ६१)
Nationality भारतीयः
Political party भारतीयजनतापक्षः
Other political
affiliations
राष्ट्रीय-जनतांत्रिक-गठबंधनम् (एनडीए)
Spouse(s) हेतल पटेल
Residence शीलज, कर्णावती, भारतम्
Occupation राजनेता

भूपेन्द्रभाई रजनीकान्त पटेल भारतीयः राजनेता, गुजरातराज्यस्य च सप्तदशः मुख्यमन्त्री। सः भारतीयजनतापक्षस्य नेता घाटलोडियामतविस्तारस्य प्रतिनिधित्वं गुजरातविधानसभायां करोति। पक्षद्वारा सः १२ सप्टेम्बर २०२१ दिनाङ्के गुजरातराज्यस्य सप्तममुख्यमन्त्रिरूपेण नियुक्तः जातः।

प्रारम्भिकं जीवनम्[सम्पादयतु]

श्रीभूपेन्द्रस्य जन्म १५ जुलाई १९६२ दिनाङ्के गुजरातराज्यस्य कर्णावती-महानगरे कडवा पटेल इति पाटीदार-परिवारे जातः आसीत्। [१] सः एप्रिल १९८२ मध्ये कर्णावत्याः सर्वकारीय-पोलिटेकनिक-संस्थायाः सिविल एन्जिनियरिंग इत्यस्मयां पदविकां प्राप्तवान्।[२][३] सः किशोरावस्थातः राष्ट्रियस्वयंसेवकसङ्घेन सह युक्तः अस्ति।

सः सरदार-धाम-विश्व-पाटीदार-केन्द्रस्य न्यासी, विश्व-उमिया-फाउन्डेशन-संस्थायाः स्थायिसमितेः अध्यक्षः अपि वर्तते।[४] तेओ व्यवसाये बिल्डर छे।[१] गुजरातविधानसभायाः अधिकृतजालस्य अनुसारं सः क्रिकेट-क्रीडायां, बेडमिन्टन-क्रीडायां च रुचिं धरते।[१][५] सः दादा भगवान-महोदयेन स्थापितस्य अक्रम-विज्ञान-आन्दोलनस्य अनुयायी अस्ति।[६]

राजकीयजीवनम्[सम्पादयतु]

म्युनिसिपल काउन्सिलर[सम्पादयतु]

सः १९९५-९६, १९९९-२००० मध्ये २००४-०६ मध्ये च मेमनगर-नगरपालिकायाः सभ्यः आसीत्। १९९९-२० मध्ये मेमनगर-नगरपालिकायाः प्रमुखः आसीत्।[१][४] सः २००८ तः २०१० पर्यन्तं अमदावाद म्युनिसिपल कोर्पोरेशन (एएमसी)-निकायस्य शालामण्डलस्य उपाध्यक्षः आसीत्। २०१० तः २०१५ यावत् सः थलतेज-विस्तारस्य परिषद्यः (काउन्सिलर) पदे आसीनः आसीत्।[१][४] सः २०१५ तः २०१७ पर्यन्तम् अमदावाद शहेरी विकास सत्ता मंडळ (औडा) इत्यस्याः संस्थायाः अध्यक्षः आसीत्।[७][१] सः अमदावाद म्युनिसिपल कोर्पोरेशन-निकायस्य स्थायिसमितेः अध्यक्षः आसीत्।[२]

गुजरातविधानसभायाः सभ्यः[सम्पादयतु]

श्रीभूपेन्द्रः २०१७ वर्षस्य गुजरातविधानसभायाः निर्वाचने भारतीयराष्ट्रियकोंग्रेस-पक्षस्य शशीकांत पटेल-महोदयस्य विरुद्धं विजयं प्राप्य घाटलोडिया-मतविस्तारस्य प्रतिनिधित्वे गुजरातविधानसभायाः सभ्यः अभवत्।[८][९] सः १,१७,००० मतैः विक्रमाग्रतया सह विजयं प्राप्तवान् आसीत्।[१०] स्वस्य मतदानक्षेत्रे सः "दादा" इति लालितकनाम्ना प्रसिद्धः वर्तते।

गुजरातस्य मुख्यमन्त्री[सम्पादयतु]

११ सप्टेम्बर २०२१ दिनाङ्के विजय रूपाणी-महोदयः गुजरातस्य मुख्यमन्त्रिपदात् त्यागपत्रम् अयच्छत्।[११] केन्द्रिय-निरीक्षकाः नरेन्द्र सिंह तोमर, प्रहलाद जोशी इत्येतयोः अध्यक्षतायां गान्धीनगरे पक्षस्य विधानसभागोष्ठ्यां १२ सप्टेम्बर, २०२१ दिनाङ्के पटेलः सर्वानुमते भाजपस्य विधानसभानेता, मुख्यमन्त्री च चितः आसीत्।[४]

पटेलस्य व्यक्तिगतजीवनम्[सम्पादयतु]

सम्पत्तिः[सम्पादयतु]

2017 वर्षस्य विधानसभा-निर्वाचनात् पूर्वं निर्वाचनपञ्चस्य सम्मुखं प्रदत्त-विज्ञप्तिपत्रस्य अनुसारं श्रीभूपेन्द्रस्य पार्श्वे 5.20 कोटिरूप्यकाणां सम्पतिः वर्तते। औडा (AUDA)-संस्थायाः अध्यक्षपदविभूषितः श्रीभूपेन्द्रः आई-20 कार-यानस्य, एक्टिवा-द्विचक्रि-यन्त्रवाहनस्य च स्वामी वर्तते।

व्यवसायः[सम्पादयतु]

मुख्यप्रधानः कन्सल्टींग एन्जीनीयरींग, विहान एसोशिएटस (Vihan Associates) इत्येतयोः नाम्ना व्यवसायं धरते। ततोऽधिकं तस्य पत्न्याः नाम्नि अंबा टाउनशीप, अमदावाद मध्ये कृषि-अयोग्या भूमिः अपि वर्तते। तस्याः भूमेः वर्तमान-विपण-मूल्यं 30 लक्षरूप्यकाणि वर्तते।

योगक्षेमे (वीमा), पोस्ट-सेवायां च निवेशः[सम्पादयतु]

नेशनल सेविंग्स स्कीम पोस्टल सोविंग्स, योगक्षेमसंस्थासु च आहत्य 1,23,00,000 रूप्यकाणां निवेशः आसीत्। एवञ्च तस्य पत्न्याः नाम्नि 16,00,000 रूप्यकाणां निवेशः वर्तते।

आभूषाणादिकसम्पत्तिः[सम्पादयतु]

घाटलोडिया-धारासभ्यपदविभूषितः मुख्यप्रधानः भूपेन्द्रः 16,75000 रूप्यकाणां सुवर्णाभूषणानि धरते।

ऋणम्[सम्पादयतु]

श्रीभूपेन्द्रस्य आहत्य देयकं 54,60,707 रूप्यकाणाम् अस्ति। एवञ्च सः व्यक्तिगत-ऋषणत्वेन 14,20,000(HUF) अपि धरते।

सन्दर्भः[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ १.५ "भूपेन्द्र पटेल-महोदयस्य गुजरातस्य मुख्यमन्त्रिरूपेण नियुक्तेः कारणानि". BBC News गुजराती (in Gujarati).  Unknown parameter |access-date= ignored (help)[नष्टसम्पर्कः]
  2. २.० २.१ "Who Is Bhupendra Patelॽ 5 Points On New Gujarat Chief Minister". NDTV।com.  Unknown parameter |access-date= ignored (help)[नष्टसम्पर्कः]
  3. "MyNeta।info". MyNeta.  Unknown parameter |url-status= ignored (help)[नष्टसम्पर्कः]
  4. ४.० ४.१ ४.२ ४.३ "BJP MLA Bhupendra Patel named new Gujarat chief minister". The Times of India (in English). 2021-09-12.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)[नष्टसम्पर्कः]
  5. "Gujarat Legislative Assembly". National eVidhan Application.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)[नष्टसम्पर्कः]
  6. Arnimesh, Shanker (2021-09-13). "New Gujarat CM Bhupendra Patel is engineer, builder, Dada Bhagwan devotee who 'has no enemies'". ThePrint (in en-US).  Unknown parameter |access-date= ignored (help)[नष्टसम्पर्कः]
  7. "Bhupendra Patel is new chief minister of Gujarat; to take oath on Monday". The Economic Times. 12 September 2021. आह्रियत 12 September 2021. [नष्टसम्पर्कः]
  8. "Gujarat Elections: BJP's Bhupendra Patel to contest from Ghatlodiya". The New Indian Express. [नष्टसम्पर्कः]
  9. "Gujarat Assembly Elections 2017: BJP's Patel Rajnikant wins from Ghatlodia constituency". Times Now. [नष्टसम्पर्कः]
  10. Edwin, Tina. "Himachal and Gujarat: How the BJP and Congress fared". The Hindu: Business Line. [नष्टसम्पर्कः]
  11. "After Vijay Rupani Stunner, BJP In a Huddle; New Guj CM to Take Oath Mondayॽ". News18 (in English). 2021-09-11.  Unknown parameter |access-date= ignored (help)[नष्टसम्पर्कः]
"https://sa.wikipedia.org/w/index.php?title=भूपेन्द्र_पटेल&oldid=483020" इत्यस्माद् प्रतिप्राप्तम्