रक्तम्
शरीरे जीवकणानां वाहकम् अस्ति इदं रक्तम् एव । रक्तम् एव सर्वेषां जीविनां पोषकशक्तिः । इदं रक्तं किञ्चित् अमूल्यं जीवद्रवम् अस्ति । रक्तम् आङ्ग्लभाषायां Blood इति उच्यते । रक्ते "प्लास्म" नामकः कश्चन जीवरसः भवति । रक्तं रक्तवर्णस्य रक्तकणैः, श्वेतरक्तकणैः, प्लेट्लेट् नामकैः जीवकोशैः च निर्मितं भवति । समीचीनस्य आहारस्य सेवनेन शरीरे रक्तस्य समतोलनं रक्षितुं शक्यते ।
प्लास्मजीवरसः ९१-९२ % यावत् द्रवैः, अवशिष्टः भागः घनवस्तुभिः निर्मितः अस्ति । तत्रापि ७.५ % यावत् ससारजनकः, यूरिय, आसिड्, क्रियाटिनिन्, अमोनिया, अमैनो आसिड्, ग्जान्थिन् इत्यादिभिः पदार्थैः, अवशिष्टः भागः सोडियं, पोटाषियं, क्याल्षियं, मेग्नेषियं, फास्फरस् इत्यादिभिः निरवयवपदार्थैः च निर्मितः अस्ति । रक्ते सोडियं, पोटाषियं, लवणांशाः निर्दिष्टप्रमाणेन यदि न भवन्ति तर्हि तेषाम् अनारोग्यं भवति । रक्तवर्णस्य रक्तकणेषु २० विधाः रक्तसमूहाः सन्ति । तेषु "ए", "बि", "एबि", "ओ" च अत्यन्तं प्रमुखाः । रक्ते "हिमोग्लोबिन्" अंशः यदि न्यूनं भवति तर्हि रक्तस्य पुनःपूरणं करणीयं भवति । रक्ते रक्तवर्णस्य श्वेतवर्णस्य च रक्तकणानाम् अनुपातः १:२०० प्रमाणेन भवति । तन्नाम एकस्य श्वेतरक्तकणस्य अनुपातरूपेण २०० रक्त-रक्तकणाः भवन्ति । श्वेतरक्तकणेषु अपि बहुविधाः सन्ति । ते सर्वे सदा शरीरं सैनिकाः इव रक्षन्तः भवन्ति ।