"अपाने जुह्वति प्राणं..." इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) ४.२९ अपाने जुह्वति... इत्येतद् अपाने जुह्वति प्राणं... इत्येतत् प्रति चालितम्। |
(भेदः नास्ति)
|
०५:४१, ९ डिसेम्बर् २०११ इत्यस्य संस्करणं
- अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
- प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
पदच्छेदः
अपाने, जुह्वति, प्राणं, प्राणे ,अपानं, तथा,अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
अन्वयः
प्राणायामपरायणाः अपरे प्राणापानगती रुद्ध्वा प्राणम् अपाने जुति, तथा प्राणे अपानं जुह्वति ।
पदार्थः
- प्राणायामपरायणाः = प्रणायामतत्पराः
- अपरे = इतरे
- प्राणापानगती = प्राणापानवायुगमने
- रुद्ध्वा = निरुध्य (कुम्भकः)
- प्राणम् = प्राणवायुम् (पूरकः)
- अपाने = अपानवायौ
- जुह्वति = समर्पयन्ति
- तथा = एवम्
- प्राणे = प्राणवायौ
- अपानम् = अपानवायुम्
- जुह्वति = समर्पयन्ति (रेचकः) ।
तात्पर्यम्
केचन प्राणायामपरायणाः योगिनः अपानवायौ प्राणवायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनं कुर्वन्ति ।