अपाने जुह्वति प्राणं...
श्लोकः
[सम्पादयतु]- अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
- प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंशतितमः (२९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अपाने, जुह्वति, प्राणं, प्राणे ,अपानं, तथा,अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
अन्वयः
[सम्पादयतु]प्राणायामपरायणाः अपरे प्राणापानगती रुद्ध्वा प्राणम् अपाने जुह्वति, तथा प्राणे अपानं जुह्वति ।
शब्दार्थः
[सम्पादयतु]- प्राणायामपरायणाः = प्रणायामतत्पराः
- अपरे = इतरे
- प्राणापानगती = प्राणापानवायुगमने
- रुद्ध्वा = निरुध्य (कुम्भकः)
- प्राणम् = प्राणवायुम् (पूरकः)
- अपाने = अपानवायौ
- जुह्वति = समर्पयन्ति
- तथा = एवम्
- प्राणे = प्राणवायौ
- अपानम् = अपानवायुम्
- जुह्वति = समर्पयन्ति (रेचकः) ।
अर्थः
[सम्पादयतु]केचन प्राणायामपरायणाः योगिनः अपानवायौ प्राणवायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनं कुर्वन्ति ।
शाङ्करभाष्यम्
[सम्पादयतु]किंच-अपान इति। अपानेऽपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्। पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः। प्राणेऽपानं तथापरे जुह्वति रेचकाख्यं च प्राणायामं कुर्वन्तीत्यतत्, प्राणापानगती मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतस्तद्विपर्ययेणाधोगमनमपानस्य ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः।प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः।।29।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये अपाने जुह्वति प्राणं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च