एवं बहुविधा यज्ञा...
श्लोकः[सम्पादयतु]
- एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
- कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
एवं बहुविधाः यज्ञा वितताः ब्रह्मणः मुखे कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
अन्वयः[सम्पादयतु]
एवं बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः । तान् सर्वान् कर्मजान् विद्धि । एवं ज्ञात्वा विमोक्ष्यसे ।
शब्दार्थः[सम्पादयतु]
- एवम् = इत्थम्
- बहुविधाः = नैकप्रकाराः
- यज्ञाः = यागाः
- ब्रह्मणः = वेदस्य
- मुखे = आदौ
- वितताः = विवृताः
- तान् सर्वान् = तान् सकलान्
- कर्मजान् = कर्मोवान्
- विद्धि = जानीहि
- एवम् = इत्थम्
- ज्ञात्वा = बुद्ध्वा
- विमोक्ष्यसे = मोक्षं प्राप्यसि ।
अर्थः[सम्पादयतु]
एवम् अनेकप्रकारकाः यज्ञाः वेदस्य आदिमे भागे कर्मकाण्डे विवृताः सन्ति । तान् सर्वान् कर्मणः एव उत्पन्नान् अवगच्छ । अनेन प्रकारेण यथार्थं जानासि तर्हि निष्कामकर्मयोगद्वारा संसारबन्धनात् मुक्तः भवसि ।
शाङ्करभाष्यम्[सम्पादयतु]
एवमिति। एवं यथोक्ता बहुविधाबहुप्रकारा यज्ञां वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे, वेदद्वारेणावगम्यमाना ब्रद्मणो मुखे वितता उच्यन्ते, तद्यथा 'वाचिहि प्राणं जुहुमः' इत्यादयः। कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि तान्सर्वाननात्मजान्। निर्व्यापारो ह्यात्मा। अत एवं ज्ञात्वा विमोक्ष्यसेऽशुभात्, नमह्यापारा इमे निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वास्मात्सम्यग्दर्शनान्मोक्ष्यसे संसारबन्धनादित्यर्थः ।।32।।
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये एवं बहुविधा यज्ञा... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च