सामग्री पर जाएँ

द्रव्ययज्ञास्तपोयज्ञा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः

[सम्पादयतु]


गीतोपदेशः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च यतयः संशितव्रताः ॥ २८ ॥

अन्वयः

[सम्पादयतु]

केचित् द्रव्ययज्ञाः अन्ये तपोयज्ञाः अन्ये योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः भवन्ति ।

शब्दार्थः

[सम्पादयतु]
(केचित्) द्रव्ययज्ञाः = द्रव्यविनियोगरूपो यज्ञः येषां तादृशाः
(अन्ये) तपोयज्ञाः = तपोरूपः यज्ञः येषां तादृशाः
(अन्ये) योगयज्ञाः = योगरूपो यज्ञः येषां तादृशाः
तथा = एवम्
अपरे = अन्ये
स्वाध्यायज्ञानयज्ञाः च = वेदाध्ययनमेव यज्ञः एव येषां तादृशाः च
संशितव्रताः = तीक्ष्णव्रताः
यतयः = नियमशीलाः । (भवन्ति)

केचन भगवदर्पणबुद्ध्या लोकोद्धाराय द्रव्याणि उपयुञ्जते । अन्ये स्वधर्मपालनरूपं तपोयज्ञं कुर्वन्ति । केचन चित्तवृत्तिनिरोधार्थं प्राणायामादिस्वरूपं यज्ञम् आचरन्ति । अन्ये कठिनव्रताः भगवत्साक्षात्कारविषययुक्तं वेदाध्ययनशास्त्रज्ञानरूपयज्ञं निर्वहन्ति ।

शाङ्करभाष्यम्

[सम्पादयतु]

द्रव्येति। द्रव्ययज्ञास्तीर्थेषु द्रव्यविनियोगं यज्ञबुद्धया कुर्वन्ति ये ते द्रव्ययज्ञाः, तपोयज्ञास्तपो यज्ञो योषां तपस्विनां ते तपोयज्ञाः, योगयज्ञाः प्राणायामप्रत्यहारादिलक्षणोयोगो योषां ते योगयज्ञास्तथापरे स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायो यथाविधि ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः, ज्ञानयज्ञा ज्ञानं शास्रार्थपरिज्ञानं ।

ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

    अधिकवाचनाय

    [सम्पादयतु]