परित्राणाय साधूनां...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
- धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
अन्वयः
[सम्पादयतु]साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।
शब्दार्थः
[सम्पादयतु]- साधूनाम् = सज्जनानाम्
- परित्रणाय = संरक्षणाय
- दुष्कृताम् = दुर्जनानाम्
- विनाशाय = मारणाय
- धर्मसंस्थापनार्थाय च = धर्मप्रतिष्ठापनार्थाय च
- युगे युगे = प्रतियुगे
- सम्भवामि = अवतरामि ।
अर्थः
[सम्पादयतु]सत्पुरुषाणां संरक्षणाय, दुर्जनानां विनाशाय, धर्मस्य च संस्थापनाय प्रत्येकं युगे अवतरामि ।
शाङ्करभाष्यम्
[सम्पादयतु]किमर्थं-परित्राणायेति। परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां, विनाशाय च दुष्कृतां पापकारिणाम्। किंच धर्मसंस्थापन्र्थाय धर्मस्य सम्यक्स्थापनं तदर्थेसंभवामि युगे युगे प्रतियुगम् ।।8।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये परित्राणाय साधूनां... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च