तस्मादज्ञानसम्भूतं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिस्क्ठोत्तिष्ठ भारत ॥ ४२ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिना अत्मनः छित्त्वा एनं संशयं योगम् आतिष्ठः उत्तिष्ठ भारत ॥ ४२ ॥

अन्वयः[सम्पादयतु]

भारत ! तस्मात् अज्ञानसम्भूतम् आत्मनः हृत्स्थम् एनं संशयं ज्ञानासिना छित्त्वा उत्तिष्ठ । योगम् आतिष्ठ ।

शब्दार्थः[सम्पादयतु]

भारत = अर्जुन !
तस्मात् = ततः हेतोः
अज्ञानसम्भूतम् = अविवेकजनितम्
आत्मनः = स्वस्य
हृत्स्थम् = बुद्धिस्थितम्
एनम् = अमुम्
संशयम् = सन्देहम्
ज्ञानासिना = ज्ञानरूपेण खड्गेन
छित्त्वा = विदार्य
उत्तिष्ठ = उत्थितः भव
योगम् = कर्मयोगम्
आतिष्ठ = आचर ।।

अर्थः[सम्पादयतु]

हे भारत ! अतः अज्ञानेन समुत्पन्नं बुद्धिस्थितं संशयं ज्ञानरूपेण खड्गेन छित्त्वा निष्कामकर्म आचर । युद्धार्थं च सन्नद्धो भव ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्मात् कर्मयोगानुष्ठानादशुद्धिक्षयहेतुकज्ञानसंच्छिन्नसंशयो न निबध्यते कर्मभिर्ज्ञानाग्निदग्धकर्मत्वादेव यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान्विनश्यति-तस्मादिति।तस्मात्पापिष्ठमज्ञानसंभूतमज्ञानादविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेवासिः खड्गस्तेन ज्ञानासिनात्मनःास्वस्यात्मविषयत्वात्संशयस्य। नहि परस्य संशयः परेण छेत्तव्यतां प्राप्तो येन स्वस्येति विशेष्यतेऽत आत्मविषयोऽपि स्वस्यैव भवति। छित्त्वैनं संशयं स्वविनाशहेतुभूतंंयोगं सम्यग्दर्शनोपायं कर्मानुष्ठानमातिष्ठ कुर्वित्यर्थः। उत्तिष्ठ चेदानीं युद्धाय भारतेति ।।42।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
योगसंन्यस्तकर्माणं...
तस्मादज्ञानसम्भूतं... अग्रिमः
संन्यासं कर्मणां कृष्ण...
Orange animated right arrow.gif
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तस्मादज्ञानसम्भूतं...&oldid=408331" इत्यस्माद् प्रतिप्राप्तम्