स एवायं मया तेऽद्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

स एव अयं मया ते अद्य योगः प्रोक्तः पुरातनः भक्तः असि मे सखा च इति रहस्यं हि एतत् उत्तमम् ॥ ३॥

अन्वयः[सम्पादयतु]

पुरातनः सः एव अयं योगः अद्य मया ते प्रोक्तः । भक्तोऽसि इति सखा च इति एतत् उत्तमं रहस्यं (त्वम्) प्रोक्तः ।

शब्दार्थः[सम्पादयतु]

पुरातनः = प्राचीनः
सः एव = पूर्वोक्तः एव
अयम् = असौ
योगः = ज्ञानयोगः
अद्य = इदानीम्
मया = भगवता
ते = तुभ्यम्
प्रोक्तः = कथितः
हि = यस्मात्
भक्तः असि = आराधकः असि इति
मे सखा च = मम मित्रं च इति
एतत् = इदम्
उत्तमम् = उत्कृष्टम्
रहस्यम् = गोप्यम् । (प्रोक्तम्)

अर्थः[सम्पादयतु]

तमेव प्राचीनम् अत्युत्कृष्टं रहस्यं इमं योगम् अधुना भवते अकथयम्, यतः भवान् मक्तः मित्रं च वर्तते ।

शाङ्करभाष्यम्[सम्पादयतु]

दुर्बलानजितेनद्रियान्प्राप्य नष्टं योगमिममुपलभ्य लोकं चापुरुषार्थसंबन्धिनं-स एवायमिति। स एवायं मया ते तुभ्यमद्येदानीं योगः प्रोक्तः पुरातनः, भक्तोऽसिमे सखा चासीति। रहस्यं हि यस्मादेतदुत्तमं योगो ज्ञानमित्यर्थः।।3।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
एवं परम्पराप्राप्तम्...
स एवायं मया तेऽद्य... अग्रिमः
अपरं भवतो जन्म...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स_एवायं_मया_तेऽद्य...&oldid=408577" इत्यस्माद् प्रतिप्राप्तम्