यज्ञशिष्टामृतभुजो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकत्रिंशत्तमः (३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यज्ञशिष्टामृतभुजः यान्ति ब्रह्म सनातनम् न अयं लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम ॥ ३१ ॥

अन्वयः[सम्पादयतु]

कुरुसत्तम । यज्ञशिष्टामृतभुजः सनातनं ब्रह्म यान्ति । अयज्ञस्य अयं लोकः नास्ति । अन्यः कुतः ।

शब्दार्थः[सम्पादयतु]

कुरुसत्तम = कुरुश्रे !
यज्ञशिष्टामृतभुजः = यज्ञे सुधातुल्यं शिष्टं भुञ्जानाः
सनातनम् = शाश्वतम्
ब्रह्म = परमात्मानम्
यान्ति = प्राप्नुवन्ति
अयज्ञस्य = यज्ञहीनस्य
अयं लोकः = एषः भूलोकः
नास्ति = न विद्यते
अन्यः = परलोकः
कुतः = कथम् ? (भवति)

अर्थः[सम्पादयतु]

अर्जुन ! यज्ञस्य अमृततुल्यं शिष्टं सेवमानाः योगिनः सनातनं परं ब्रह्म प्राप्नुवन्ति । तथा ये न यजन्ते तेषाम् अत्रैव लोके सुखं नास्ति । किं पुनः परलोके ?

शाङ्करभाष्यम्[सम्पादयतु]

एवं यथोक्तान्यज्ञान्निर्वर्त्य यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तदमृतं च यज्ञशिष्टामृतं तद्भुञ्जत इति यज्ञशिष्टामृतभुजो यथोक्तान्यज्ञान्कृत्वातच्छिष्टेन कालेन यथाविधि कालेन यथाविधि चोदितमन्नममृताख्यं भुञ्जत इति यज्ञशिष्टामृतभुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरंतनं, मुमुक्षवश्चेत्कालातिक्रमापेक्षयेतिसामर्थ्याद्गम्यते। नायं लोकः सर्वप्राणिसाधनसाध्यः कुरुसत्तम।।31।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अपरे नियताहाराः...
यज्ञशिष्टामृतभुजो... अग्रिमः
एवं बहुविधा यज्ञा...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यज्ञशिष्टामृतभुजो...&oldid=408478" इत्यस्माद् प्रतिप्राप्तम्