अजोऽपि सन्नव्ययात्मा...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
- प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षष्टः(६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अजः अपि सन् अव्ययात्मा भूतानाम् ईश्वरः अपि सन् प्रकृतिं स्वाम् अधिष्ठष्ठाय सम्भवामि आत्ममायया ॥ ६ ॥
अन्वयः
[सम्पादयतु]अजः अपि अव्ययात्मा सन् भूतानाम् ईश्वरः सन् स्वां प्रकृतिम् अधिष्ठाय आत्ममायया सम्भवामि ।
शब्दार्थः
[सम्पादयतु]- अजः = जन्मरहितः
- अव्ययात्मा = अविनाशी
- सन् अपि = भवन् अपि
- भूतानाम् = प्राणिनाम्
- ईश्वरः = प्रभुः
- सन् अपि = भवन् अपि
- स्वाम् = स्वकीयाम्
- प्रकृतिम् = शक्तिम्
- अधिष्ठाय =अवलम्ब्य
- आत्ममायया = स्वमायया
- सम्भवामि = उद्भवामि ।
अर्थः
[सम्पादयतु]अहम् अविनाशी, जन्मरहितः, समस्तप्राणिनां स्वामी च सन् अपि स्वकीयां शक्तिम् अवलम्ब्य योगमायया आत्मानं सृजामि ।
शाङ्करभाष्यम्
[सम्पादयतु]कथं तर्हि तव न्त्येश्वरस्य धर्माधर्माभावेऽपि जन्मेत्युच्यते-अजोऽपीति। अजोऽपि जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथा भूतानांतब्रह्मादिस्तम्बपर्यन्तानामीशवर ईशनशीलोऽपि सन् प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वं जगद्वर्तते यया मोहितं ,त् स्वमात्मानं वासुदेवं
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये अजोऽपि सन्नव्ययात्मा... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च