यस्य सर्वे समारम्भाः...
श्लोकः
[सम्पादयतु]- यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ।
- ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥ १९ ॥
अन्वयः
[सम्पादयतु]यस्य सर्वे समारम्भाः कामसल्पवर्जिताः बुधाः ज्ञानाग्निदग्धकर्माणं तं पण्डितम् आहुः ।
शब्दार्थः
[सम्पादयतु]- यस्य = यस्य पुरुषस्य
- सर्वे = सकलाः
- समारम्भाः = कर्माणि
- कामसल्पवर्जिताः = फलापेक्षया तत्करणेच्छया च वर्जितानि
- ज्ञानाग्निदग्धकर्माणम् = ज्ञानानलभस्मीभूतकर्माणम्
- तम् = तं मानवम्
- बुधाः = विपश्चितः
- पण्डितम् = विद्वांसम्
- आहुः = वदन्ति ।
अर्थः
[सम्पादयतु]यस्य कर्माणि सर्वथा शास्त्रसम्मतानि फलापेक्षारहितानि च सन्ति तस्य पुरुषस्य कर्माणि ज्ञानरूपेण वह्निः भस्मसात् भवन्ति । तादृशं पुरुषं ज्ञानिनः पण्डितं प्रवदन्ति ।
शाङ्करभाष्यम्
[सम्पादयतु]तदेतत्कर्मण्यकर्मादि यथोक्तदर्शित्वं स्तूयते-यस्येति। यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्माणि कर्माणि समारभ्यन्त इति समारम्भाः कामसंकल्पवर्जिताःतकामैस्तत्कारणैश्च संकल्पैर्वर्जिताः मुधैव चेष्टामात्रा अनुष्ठायन्ते प्रवृत्तेन चेल्लोकसंग्रहार्थं निवृत्तेन चेज्जीवनमात्रार्थं तं ज्ञानाग्निदग्धकर्माणंिकर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन ज्ञानाग्निनादग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तमाहुः परमार्थतः पण्डितं वुधा ब्रह्मविदः।।19।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये यस्य सर्वे समारम्भाः... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च