यथैधांसि समिद्धोऽग्निः...
दिखावट
श्लोकः
[सम्पादयतु]- यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
- ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तत्रिंशत्तमः (३७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ३७ ॥
अन्वयः
[सम्पादयतु]अर्जुन ! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ।
शब्दार्थः
[सम्पादयतु]- अर्जुन = अर्जुन !
- यथा = येन प्रकारेण
- समिद्धः = सन्दीप्तः
- अग्निः = वह्निः
- एधांसि = कानि
- भस्मसात् = भस्ममयानि
- कुरुते = करोति
- तथा = तेन प्रकारेण
- ज्ञानाग्निः = ज्ञानरूपः अग्निः
- सर्वकर्माणि = निखिलकर्माणि
- भस्मसात् = भस्ममयानि
- कुरुते = विदधाति ।
अर्थः
[सम्पादयतु]अर्जुन ! यथा प्रज्वलन् अग्निः काष्ठानि भस्मसात् करोति तथा ज्ञानाग्निः सर्वाण्यपि कर्माणि भस्मीकरोति ।
शाङ्करभाष्यम्
[सम्पादयतु]ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते-यथेति। यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निर्भस्मसाद्भस्मीभावं कुरुतेऽर्जुन एवं ज्ञानमेवाग्निर्ज्ञानाग्निः ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये यथैधांसि समिद्धोऽग्निः... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च