किं कर्म किमकर्मेति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षोडशः (१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

किं कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १६ ॥

अन्वयः[सम्पादयतु]

किं कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

शब्दार्थः[सम्पादयतु]

कर्म = कर्मस्वरूपम्
किम् = कथंभूतम्
अकर्म = अकर्मस्वरूपम्
किम् इति अत्र = किमिति स्वरूपविषये
कवयः अपि = पण्डिताः अपि
मोहिताः = मोहं गताः
तत् = ततः
कर्म = कर्मस्वरूपम्
ते = तुभ्यम्
प्रवक्ष्यामि = कथयिष्यामि
यत् = कर्म
ज्ञात्वा = विदित्वा
अशुभात् = अश्रेयसः
मोक्ष्यसे = विमुच्यसे ।

अर्थः[सम्पादयतु]

किं कर्तव्यं किम् अकर्तव्यम् इति विषये पण्डिताः अपि भ्रान्ताः आसन् । अतः तत् गूढं रहस्यं ते कथयामि यत् ज्ञात्वा अश्रेयसः विमुक्तः भविष्यसि ।

शाङ्करभाष्यम्[सम्पादयतु]

तत्र कर्म चेत्कर्तव्यं त्वद्वचनादेव करोम्यहंकिं विशेषितेन पूर्वैः पूर्वतरं कृतमित्युच्यते यस्मान्महद्वैषम्यं कर्मणि, कथं-किं कर्मेति। किं कर्म किं चाकर्मेतिकवयो मेधाविनोऽप्यत्रास्मिन्कर्मादिविषये मोहिता मोहं गताः अतस्ते तुभ्यमहं कर्माकर्म च प्रवक्ष्यामि। यज्ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसेऽशुभात्संसारात्।।16।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
एवं ज्ञात्वा कृतं कर्म...
किं कर्म किमकर्मेति... अग्रिमः
कर्मणो ह्यपि बोद्धव्यं...
Orange animated right arrow.gif
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=किं_कर्म_किमकर्मेति...&oldid=408278" इत्यस्माद् प्रतिप्राप्तम्