गतसङ्गस्य मुक्तस्य...
श्लोकः
[सम्पादयतु]- गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
- यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाया आचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
अन्वयः
[सम्पादयतु]गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ।
शब्दार्थः
[सम्पादयतु]- गतसङ्गस्य = निष्कामस्य
- मुक्तस्य = रागादिविमुक्तस्य
- ज्ञानावस्थितचेतसः = ज्ञानार्थं यतमानस्य
- यज्ञाय आचरतः = यागाय एव आचरतः जनस्य
- कर्म = कर्म
- समग्रम् = समस्तम्
- प्रविलीयते = विनश्यति ।
अर्थः
[सम्पादयतु]यः आसक्तिरहितः देहाभिमानविहीनः ममताशून्यः सततं परमात्मज्ञाने स्थिरमानसः च अस्ति यश्च ब्रह्मार्थं कर्म आचरति तस्य समग्रमपि कर्म विनश्यति ।
शाङ्करभाष्यम्
[सम्पादयतु]त्यकत्वा कर्मफलासङ्गमित्यनेन शेलोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात्तदा तस्यात्मनः कर्तृककर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागेप्राप्ते कुतश्चिन्निमित्तदसंभवे सति पूर्ववत्तस्मिन्कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स इति च कर्माभावः प्रदर्शितः, यस्यैवं कर्माभावो दर्शितस्तस्यैवगतसङ्गस्य सर्वतोऽनिवृत्तासक्तेर्मुक्तस्य निवृत्तधर्माधर्मादिबन्धस्य ज्ञानावस्थितचेतसो ज्ञाने एवावस्थितं चेतो यस्य सोऽयं ज्ञानावस्थितचेतास्तस्य यज्ञाययज्ञनिर्वृत्त्यर्थमाचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण कर्मफलेन वर्तत इति समग्रं कर्म तत्समग्रं प्रविलीयते विनश्यतीत्यर्थः।।23।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये गतसङ्गस्य मुक्तस्य... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च