ये यथा मां प्रपद्यन्ते...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

श्लोकः[सम्पादयतु]

गीतोपदेशः
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकादशः (११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये यथा मां प्रपद्यन्ते तान् तथैव भजामि अहम् मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

अन्वयः[सम्पादयतु]

पार्थ ! ये मां यथा प्रपद्यन्ते तथा एव तान् अहं भजामि । मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ।

शाङ्करभाष्यम्[सम्पादयतु]

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
ये = ये मानवाः
माम् = माम्
यथा = येन प्रकारेण
प्रपद्यन्ते = सेवन्ते
तथा एव = तेन एव प्रकारेण
तान् = तान् मानवान्
अहम् = अहम्
भजामि = अनुगृह्णामि
मनुष्याः = मनुजाः
सर्वशः = सर्वथा
मम = मे
वर्त्म = मार्गम्
अनुवर्तन्ते = अनुसरन्ति ।

अर्थः[सम्पादयतु]

पार्थ ! ये मां यथा भजन्ति तान् अहं तथा एव अनुगृह्णामि । एतत् रहस्यं ज्ञात्वा बुद्धिमान् मनुष्यसमूहः सर्वप्रकारेण मम मार्गमनुसृत्य चलति ।

शाङ्करभाष्यम्[सम्पादयतु]

तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चिदेवात्मभावं प्रयच्छसि न सर्वेभ्य इत्युच्यते-ये यथेति। ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्तेतास्तथैव तत्फलादानेन भजाम्यनुगृह्णाम्यहमित्येतत्। तेषां मोक्षं प्रत्यनर्थित्वाद्। नह्येकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत्संभवति। अतो ये फलार्थिनस्तान्फलप्रदानेन,ये यथोक्तकारिणस्त्वफलार्थिनो मुमुक्षवश्च तान्ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनो मुमुक्षवश्च तान्मोक्षप्रदानेन, तथार्तानार्तिहरणेनेत्येवं यथआ प्रपद्यन्तेये तांस्तथैव भजामात्यर्थः। न पुना रागद्वेषनिमित्तं मोहनिमित्तं वा कंचिद्भजामि। सर्वथापि सर्वावस्थस्य ममेश्वरस्य वर्त्म मार्गमनुवर्तन्ते मनुष्याः। यत्फसार्थितयायस्मिन्कर्मण्यधिकृता ये प्रयतन्ते ते मनुष्या उच्यन्ते। हेपार्थ, सर्वशः सर्वप्रकारैः।।11।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
वीतरागभयक्रोधा...
ये यथा मां प्रपद्यन्ते... अग्रिमः
काङ्क्षन्तः कर्मणां सिद्धिं...
Orange animated right arrow.gif
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]