न हि ज्ञानेन सदृशं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
- तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
अन्वयः
[सम्पादयतु]ज्ञानेन सदृशं पवित्रम् इह नहि विद्यते । तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति । ।
शब्दार्थः
[सम्पादयतु]- ज्ञानेन = ब्रह्मज्ञानेन
- सदृशम् = तुल्यम्
- पवित्रम् = पावनम्
- इह = अत्र
- नहि विद्यते = नास्ति
- तत् = ज्ञानम्
- स्वयम् = आत्मना एव
- योगसंसिद्धः = समाधिनिः
- कालेन = महता समयेन
- आत्मनि = स्वस्मिन्
- विन्दति = लभते ।
अर्थः
[सम्पादयतु]इह लोके ज्ञानेन समं पवित्रम् अन्यत् न किञ्चन विद्यते । तत् ज्ञानं फलापेक्षां विना कर्म कुर्वन् पुरुषः गच्छता कालेन चित्तशुद्धिम् अवाप्य स्वयमेव आत्मनि प्राप्नोति ।
शाङ्करभाष्यम्
[सम्पादयतु]यत एवमतो-नहीति। नहि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरमिह विद्यते। तज्ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतोयोग्यतामापन्नो मुमुक्षुः कालेन महता त्मनि विन्दति। लभत इत्यर्थः।।38।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न हि ज्ञानेन सदृशं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च