जन्म कर्म च मे दिव्यम्...
दिखावट
श्लोकः
[सम्पादयतु]- जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
- त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]जन्म कर्म च मे दिव्यम् एवं यः वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सः अर्जुन ॥ ९ ॥
अन्वयः
[सम्पादयतु]अर्जुन ! यः मे दिव्यं जन्म कर्म च तत्त्वतः वेत्ति सः देहं त्यक्त्वा पुनर्जन्म न एति । माम् एति ।
शब्दार्थः
[सम्पादयतु]- अर्जुन = हे अर्जुन
- यः = यः पुरुषः
- मे = मम
- दिव्यम् = अलौकिकम्
- जन्म = जननम्
- कर्म च = क्रियां च
- तत्त्वतः = यथार्थम्
- वेत्ति = जानाति
- सः = सः पुरुषः
- देहम् = शरीरम्
- त्यक्त्वा = विसृज्य
- पुनर्जन्म = पुनर्जन्म
- न एति = न प्राप्नोति
- माम् = माम्
एति = लभते ।
अर्थः
[सम्पादयतु]हे अर्जुन ! मम एतत् जन्म कर्म च अलौकिकमिति यः पुरुषः यथार्थं जानाति सः शरीरत्यागे सति पुनर्जन्म नाप्नोति प्रत्युत मामेव प्राप्नोति ।
शाङ्करभाष्यम्
[सम्पादयतु]तत्-जन्मेति। जन्म मायारूपं, कर्म च साधुपरित्राणादि, मे मम दिव्यमप्राकृतमैश्वरमेवं यथेक्तं यो वेत्ति तत्तवतस्तत्त्वेन यथावत्त्यक्त्वा देहमिमं पुनर्जन्मपुनरुत्पत्तिं नैति न प्राप्नोति मामेत्यागच्छति स मुच्यते हेऽर्जुन।।9।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये जन्म कर्म च मे दिव्यम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च