श्रद्धावॉंल्लभते ज्ञानं...
श्लोकः
[सम्पादयतु]- श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
- ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ॥ ३९ ॥
अन्वयः
[सम्पादयतु]संयतेन्द्रियः तत्परः श्रद्धावान् ज्ञानं लभते । ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति ।
शब्दार्थः
[सम्पादयतु]- संयतेन्द्रियः = जितेन्द्रियः
- तत्परः = ज्ञानपरः
- श्रद्धावान् = आस्थावान्
- ज्ञानम् = आत्मज्ञानम्
- लभते = प्राप्नोति
- ज्ञानम् = आत्मज्ञानम्
- लब्ध्वा = प्राप्य
- अचिरेण = शीघ्रम्
- पराम् = उत्कृष्टम्
- शान्तिम् = शमम्
- अधिगच्छति = प्राप्नोति ।
अर्थः
[सम्पादयतु]ज्ञानमार्गे आसक्तः श्रद्धावान् च जितेन्द्रियः आत्मज्ञानं प्राप्नोति । आत्मज्ञानं प्राप्य एव सः मुक्तिरूपां परमशान्तिम् अधिगच्छति ।
शाङ्करभाष्यम्
[सम्पादयतु]येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते-श्रद्धावानिति। श्रद्धावाञ्श्रद्धालुर्लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानोऽत आह।तत्परो गुरूपासनादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावास्तत्परोऽप्यजितेन्द्रियः स्यादित्यत आह। संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणिस संयतेन्द्रियः य एवंभुतः श्रद्धावांस्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते। प्रणिपातादिस्तु बाह्योनैकान्तिकोऽपि भवति मायावित्वादिसंभवान्नतु तथातच्छ्रद्धावत्त्वादावित्येकान्ततो ज्ञानलब्ध्यिपायः। किं पुनर्ज्ञानलाभात्स्यादित्युच्यते। ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिमुपरतिमचिरेण क्षिप्रमेवाधिगच्छति।सम्यग्दर्शनात्क्षिप्रं मोक्षो भवतीति सर्वशास्रन्यायप्रसिद्धः सुनिश्चितोऽर्थः ।।39।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये श्रद्धावॉंल्लभते ज्ञानं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च