एवं परम्पराप्राप्तम्...
दिखावट
श्लोकः
[सम्पादयतु]- एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
- स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः सः कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥
अन्वयः
[सम्पादयतु]परन्तप ! एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः । महता कालेन सः योगः इह नष्टः ।
शब्दार्थः
[सम्पादयतु]- परन्तप = शत्रुञ्जय
- एवम् = इत्थम्
- परम्पराप्राप्तम् = सम्प्रदायात् आगतम्
- इमम् = अमुम्
- राजर्षयः = राजश्रेाः
- विदुः = अजानन्
- महता = दीर्घेण
- कालेन = समयेन
- सः = एषः (पूर्वोक्तः)
- योगः = योगः
- इह = अत्र
- नष्टः = लुप्तः ।
अर्थः
[सम्पादयतु]इत्थं परम्पराप्राप्तम् अमुं योगं राजर्षयः अजानन् । ततः बहोः कालात् सः योगः अत्र नष्टप्रायः सम्पन्नः ।
शाङ्करभाष्यम्
[सम्पादयतु]एवमिति। एवं क्षत्रियपरंपराप्राप्तमिमं राजर्षयो राजानश्च त ऋषयश्च राजर्षयो विदुरिमं योगम्। स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्नसंपआदायः संवृत्तः।हे परंतप, आत्मनो विपक्षभूताः पर उच्यन्ते तान् शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः।।2।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये एवं परम्पराप्राप्तम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च