वीतरागभयक्रोधा...
श्लोकः
[सम्पादयतु]- वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
- बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य दशमः (१०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]वीतरागभयक्रोधाः मन्मया माम् उपाश्रिताः बहवः ज्ञानतपसा पूताः मद्भावमागताः ॥ १० ॥
अन्वयः
[सम्पादयतु]वीतरागभयक्रोधाः मन्मयाः माम् उपाश्रिताः ज्ञानतपसा पूताः बहवः मद्भावम् आगताः ।
शब्दार्थः
[सम्पादयतु]- वीतरागभयक्रोधाः = विनष्टरागभीतिकोपाः
- मन्मयाः = मत्स्वरूपाः
- माम् = माम्
- उपाश्रिताः = उपगताः
- ज्ञानतपसा = समाधिना
- पूताः = पवित्राः
- बहवः = असङ्ख्याकाः
- मद्भावम् = मद्रूपत्वम्
- आगताः = सम्प्राप्ताः ।
अर्थः
[सम्पादयतु]आसक्तिं भयं क्रोधं च विना अनन्यभावनया मयि विश्वस्ताः मां च शरणमागताः ज्ञानरूपेण तपसा पवित्राः असङ्ख्याकाः मम स्वरूपं प्राप्तवन्तः ।
शाङ्करभाष्यम्
[सम्पादयतु]नैष मोक्षमार्ग इदानीं प्रवृत्तः किं तर्हि पूर्वमपि-वीतरागेति। वीतरागभयक्रोधा रागश्च भयं च क्रोधश्च वीता विगता येभ्यस्ते वीतरागभयक्रोधा मन्मया ब्रह्मविदईश्वराभेददर्शिनो मामेव परमेश्वरमुपाश्रिताः। केवलज्ञाननिष्ठा इत्यर्थः। बहवोऽनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपस्तेन ज्ञानतपसा पूताः परां शुद्धिंरगताः सन्तो मद्भावमीश्वरभावं मोक्षमागताः समनुप्राप्ताः। इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गं ज्ञानतपसेति विशेषणम्।।10।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये वीतरागभयक्रोधा... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च