एवं बहुविधा यज्ञा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एवं बहुविधाः यज्ञा वितताः ब्रह्मणः मुखे कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

अन्वयः[सम्पादयतु]

एवं बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः । तान् सर्वान् कर्मजान् विद्धि । एवं ज्ञात्वा विमोक्ष्यसे ।

शब्दार्थः[सम्पादयतु]

एवम् = इत्थम्
बहुविधाः = नैकप्रकाराः
यज्ञाः = यागाः
ब्रह्मणः = वेदस्य
मुखे = आदौ
वितताः = विवृताः
तान् सर्वान् = तान् सकलान्
कर्मजान् = कर्मोवान्
विद्धि = जानीहि
एवम् = इत्थम्
ज्ञात्वा = बुद्ध्वा
विमोक्ष्यसे = मोक्षं प्राप्यसि ।

अर्थः[सम्पादयतु]

एवम् अनेकप्रकारकाः यज्ञाः वेदस्य आदिमे भागे कर्मकाण्डे विवृताः सन्ति । तान् सर्वान् कर्मणः एव उत्पन्नान् अवगच्छ । अनेन प्रकारेण यथार्थं जानासि तर्हि निष्कामकर्मयोगद्वारा संसारबन्धनात् मुक्तः भवसि ।

शाङ्करभाष्यम्[सम्पादयतु]

एवमिति। एवं यथोक्ता बहुविधाबहुप्रकारा यज्ञां वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे, वेदद्वारेणावगम्यमाना ब्रद्मणो मुखे वितता उच्यन्ते, तद्यथा 'वाचिहि प्राणं जुहुमः' इत्यादयः। कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि तान्सर्वाननात्मजान्। निर्व्यापारो ह्यात्मा। अत एवं ज्ञात्वा विमोक्ष्यसेऽशुभात्, नमह्यापारा इमे निर्व्यापारोऽहमुदासीन इत्येवं ज्ञात्वास्मात्सम्यग्दर्शनान्मोक्ष्यसे संसारबन्धनादित्यर्थः ।।32।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यज्ञशिष्टामृतभुजो...
एवं बहुविधा यज्ञा... अग्रिमः
श्रेयान्द्रव्यमयाद्यज्ञात्...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एवं_बहुविधा_यज्ञा...&oldid=408252" इत्यस्माद् प्रतिप्राप्तम्