ततः पदं तत्परि...
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
- तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ततः पदं तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः तम् एव च आद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
अन्वयः
[सम्पादयतु]अस्य रूपम् इह न उपलभ्यते तथा न अन्तः न च आदिः न च सम्प्रतिष्ठा । सुविरूढमूलम् एनम् अश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा, ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यं पुरुषं प्रपद्ये इति मत्वा यस्मिन् गताः भूयः न निवर्तन्ति तत् पदं परिमार्गितव्यम् ।
शब्दार्थः
[सम्पादयतु]- सम्प्रतिष्ठा = स्थितिः (मध्यः)
- सुविरूढमूलम् = सुदृढमूलम्
- असशस्त्रेण = वैराग्यायुधेन
- छित्त्वा = द्विधा कृत्वा
- पदम् = स्थानम्
- परिमार्गितव्यम् = अन्वेष्टव्यम्
- पुराणी = प्राचीना
- प्रवृत्तिः = संसारप्रवृत्तिः
- प्रसृता = प्रवृत्ता
- आद्यम् = प्रथमम्
- पुरुषम् = परमपुरुषम्
- प्रपद्ये = प्राप्नोमि ।
अर्थः
[सम्पादयतु]अस्य अश्वत्थवृक्षस्य ऊर्ध्वमूलत्वादिकं यत्स्वरूपं पूर्वमुक्तं तत् केनापि ज्ञातुं न शक्यते तथा अस्य आदिः मध्यः अन्तश्च ज्ञातुं न शक्यते । तादृशम् एनम् अनिष्टफलजनकम् अश्वत्थवृक्षं वैराग्यशस्त्रेण विनाश्य सर्वेऽपि पुरुषाः तं महापुरुषं ध्यायन्तः तादृशं स्थानं शोधयेयुः यत् स्थानं प्राप्ताः पुनः न संसारं प्राप्नुवन्ति, यस्मादेव च अयमनादिः संसारः सम्पन्नो वर्तते ।