फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

छान्दोग्योपनिषत् दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति छान्दोग्योपनिषत्। इयं हयग्रीवरूपिणः भगवतः मुखात् आविर्भूता पवित्रवाक्यरूपा। सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति।

हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम्।
ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम्। (छा उ भाष्यम् १-१-१) (अधिकवाचनाय »)