अमृतलता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अमृतलता
Tinospora cordifolia.jpg
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Ranunculales
कुलम् Menispermaceae
वंशः Tinospora
जातिः T. cordifolia
द्विपदनाम
Tinospora cordifolia
(Thunb.) Miers
अमृतलता

अमृतलता (Guduchi) भारते वर्धमानः लताविशेषः । अस्याः अमृतलतायाः सस्यशास्त्रीयं नाम अस्ति Tinospora cordifolia इति । अस्याः लतायाः पर्णानि हृदयाकारकाणि भवन्ति । अस्याः लतायाः पर्णं, काण्डं, मूलं च औषधत्वेन उपयुज्यते [१][२] । इयम् अमृतलता भारत-मायन्मार्-श्रीलङ्कादिषु उष्णवलयप्रदेशेषु अधिकतया वर्धते । एषा लता वृक्षम् अवलम्ब्य वर्धते । एषा "मेनिस्पर्मेसी"कुले अन्तर्भवति । लघु लघु पुष्पकुण्डेषु अपि अमृतलतां वर्धयन्ति । एषा लता तावत् शीघ्रं न म्रियते, म्लाना अपि न भवति । अतः एव अस्याः नाम "अमृतलता" इति । अस्याः त्वक् कपिलवर्णीयं भवति, पुष्पाणि च हरितवर्णीयानि [३]

इयम् अमृतलता औषधीयेषु सस्येषु प्रधाना इति वक्तुं शक्यते । 'अमृता', 'गुडूचि', 'छिन्नरुहा' इत्यादीनि नामानि अपि सन्ति अस्याः अमृतलतायाः । एषा लता सर्वासु अपि ऋतुषु सर्वेषु प्रदेशेषु च वर्धते । एषा लता इत्यस्मात् वृक्षं, छदिम् अथवा अन्यं कमपि आधारम् अवलम्ब्य एव वर्धते । काले काले जलस्य तथा प्राकृतिकस्य गोभरस्य च व्यवस्था भवति चेत् अमृतलता सम्यक् वर्धते । कनिष्ठिकायाः गात्रवत्याः लतायाः, तथा ६ अङ्गुलमितात् दीर्घात् काण्डात् नूतनायाः लतायाः वर्धनं कर्तुं शक्यते । बीजं वा मूलं वा न अपेक्ष्यते । पर्णानाम् उपयोगावसरे लक्ष्यं भवेत् । सम्यक् वर्धितानां पर्णानाम् उपयोगः एव करणीयः, न तु अवर्धितानां पर्णानाम् ।

इयं लता उष्णवलयस्य नित्यहरिद्वर्ण सस्यावरणे, ग्रीष्मकाले यत्र पर्णानि पतन्ति तादृशे पर्वतप्रदेशे, गुल्पप्रदेशे च भागशः गुल्मानाम् उपरि प्रारन्ती वर्धते[४] । ग्रीष्मकाले अस्याः पर्णानि पतन्ति । हृदयाकाराणि कान्तियुक्तानि पर्णनि काण्डे पर्यायेण भवन्ति । गोलाकाराः शलाटवः पक्वाः रक्ताः भवन्ति । एषु दिनेषु एनां गृहेषु अलङ्कारार्थं वर्धयन्ति ।

इतरभाषासु नामानि[सम्पादयतु]

अमृतलतायाः पर्णानि, काण्डं, मूलम्, अङ्कुरः चापि

इयम् अमृतलता आङ्ग्लभाषया Tinospora Corofolia इति उच्यते । हिन्दीभाषया “गिलोय्” इति, तेलुगुभाषया “తిప్పతీగ तिप्प तीग tippa tīga ” इति, तमिळ्भाषया “சீந்தில் கொடி सीन्दिल् कोडि sīndil koḍi ” इति, मलयाळभाषया “गुलवेल्”, कन्नडभाषया “अमृतबळ्ळि” इति च उच्यते ।

अस्याः अमृतलतायाः प्रयोजनानि[सम्पादयतु]

  1. अस्याः पत्रैः, काण्डेन च कषायं निर्मीयते । तस्य अमृतलताकषायस्य पानेन बहवः रोगाः अपगच्छन्ति ।
  2. "वराहज्वरः" (H1N1) इति यः ज्वरः अस्ति तस्य रामबाणम् एषा अमृतलता ।
  3. अमृतलता त्रिदोषापहारिणी (वातः, कफः, पित्तम्) ।
  4. सर्वविधानां ज्वराणां निमित्तम् अपि अमृतलता उत्तमम् औषधम् ।
  5. अस्याः लतायाः काण्डस्य रसः मधुना सह प्रतिदिनं त्रिवारं सेवनीयम् इति वदति आयुर्वेदशास्त्रम्
  6. अस्याः द्वित्राणि पत्राणि अपि एवमेव प्रतिदिनं खादितुं शक्यन्ते ।
  7. अस्याः अमृतलतायाः काण्डेन ताक्रम् अपि निर्मीयते ।
  8. अमृतलता रोगनिरोधकशक्तिं वर्धयति ।

अमृतलताकषायम्[सम्पादयतु]

मुख्यलेखः: अमृतलताकषायम्

अमृतलताकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । अमृतलतायाः पत्राणि काण्डं वा प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित्प्रमाणेन पातुं शक्यते ।

आयुर्वेदस्य अनुसारम् अमृतलतायाः प्रयोजनानि[सम्पादयतु]

आयुर्वेदानुसारम् अमृतलतायाः प्रयोजनानि बहुनि सन्ति [५] ।नाम्नः अनुगुणं गुणेषु एषा अमृतम् एव। अस्याः प्रयोजनानि अपि अनन्तानि। अस्याः रुचिः तिक्तः तथा कषायः च।

  1. अस्याः अमृतलतायाः सेवनेन शरीरस्य बलं वर्धते।
  2. एषा ज्वरं, रक्तहीनतां च निवारयति।
  3. अमृतलता चर्मणः समस्याः अपि दूरीकरोति।
  4. अमृतलता कामलरोगस्य परमौषधम्।
  5. एषा मलावरोधम् (मलबद्धताम्) अपि निवारयति।
  6. अस्याः अमृतलतायाः काण्डस्य चमसद्वयमितेन रसेन सह तावता एव प्रमाणेन मधु योजयित्वा प्रतिदिनं प्रातः सायं च आहारस्य सेवनात् पूर्वं सेवनीयम्। एवं द्वित्रान् मासान् यावत् करणेन शरीरस्य रोगनिरोधकशक्तिः वर्धते।
  7. ४ चमसपरिमितेन अमृतलतायाः काण्डस्य रसेन सह तावता एव प्रमाणेन मधु योजयित्वा दिने त्रिवारं सेवनीयम्। तथा करणेन पीनसः, ज्वरः, कासः इत्यादयः द्वित्रेषु दिनेषु एव निवार्यन्ते। बालेभ्यः उपर्युक्तस्य प्रमाणस्य अर्धभागः वा पदभागः वा दातव्यः।
  8. मधुमेहरोगेण पीडिताः प्रतिदिनं प्रातः सायं च अस्याः अमृतलतायाः काण्डस्य चर्वणं कृत्वा रसं गिलेयुः। ये चर्वणं कर्तुम् अशक्ताः ते ३ चमसमितं रसं पिबेयुः। अनेन शर्कारांशः महता प्रमाणेन न्यूनः भवति। श्रान्तता, हस्तपादादीनां ज्वलनं चापि न्यूनं भवति।
  9. मूलव्याधिना पीडिताः चषकमिते तक्रे ३ चमसमितम् अमृतलतायाः काण्डस्य रसं योजयित्वा दिने द्वित्रवारं पिबेयुः। तथा करणेन रक्तस्रावः स्थगितः भवति। मलबद्धता अपि अपगच्छति।
  10. कामलरोगेण पीडिताः अस्याः अमृतलतायाः काण्डस्य ४ चमसमितं रसं तावतः एव प्रमाणस्य मधुना सह योजयित्वा प्रातः आहारस्य सेवनात् पूर्वं सेवेरन्। तदनन्तरं द्रवाहारः वा अकटुः आहारः वा सेवनीयः। अपेक्षितेन प्रमाणेन विश्रान्तिः अपि स्वीकरणीया। एवं करणेन ५ – ७ दिनेषु रोगः अपगच्छति।

टिप्पणी[सम्पादयतु]

  1. विन्स्टोन्, डेविड् & मैमेस्, स्टीवेन् (२००७). आडेप्टोजेन्स् : हार्ब्स् फर् स्ट्रेन्थ, स्ट्यामिना, एण्ड् रीलिफ्. हीलिङ्ग् आर्ट्स् प्रेस्. 
  2. एस्.एस्. सिङ्ग्, एस्.सी. पाण्डेय्, एस्. श्रीवत्स, वि.एस्. गुप्ता, बि. पात्रो, ए.सी. घोष (२००३). "अमृतलतायाः औषधीयगुणावली". इन्डियन् जर्नल् अफ् फार्माकोलाजी ३५: ८३-९१. http://medind.nic.in/ibi/t03/i2/ibit03i2p83.pdf. 
  3. वारियर्, पी. के.; वि. पी. के. नाम्बियर्, सी. रमणकुट्टी, आर्. वासुदेवन् नायर् (१९९६). इन्डियन् मेडिकल् प्लान्ट्स् : ए कम्पेन्डियम् अफ् ५०० स्पैसेस्, वल्युम् ५. अरियन्ट् ब्ल्याक् स्वान्. pp. २८३. ISBN 9788125007630. http://books.google.com/books?id=y3_vZIUVVj8C&pg=PA283. 
  4. वेग्नार्, हिल्डेबर्ट् (१९९९). वृक्षस्य प्रतिरक्षाकारिणः. Birkhäuser. pp. २९४. ISBN 978-3-7643-5848-8. http://books.google.com/books?id=ReY_8gfGL7wC&pg=PA294. 
  5. राष्ट्रिय आर्&डि सौकर्यं रासायननिमित्तम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अमृतलता&oldid=269154" इत्यस्माद् पुनः प्राप्तिः