अमृतलता
| एक्स्प्रेशन गलती: अनपेक्षित < ओपरेटर | ||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| वैज्ञानिक वर्गीकरण | ||||||||||||||
|
||||||||||||||
| द्विपद नाम | ||||||||||||||
| Tinospora cordifolia (Thunb.) Miers |
||||||||||||||
एषा अमृतलता अपि भारते वर्धमानः लताविशेषः । एषा अमृतलता आङ्ग्लभाषायां Guduchi इति उच्यते । अस्याः अमृतलतायाः सस्यशास्त्रीयं नाम अस्ति Tinospora cordifolia इति । अस्याः लतायाः पर्णानि हृदयाकारकाणि भवन्ति । अस्याः लतायाः पर्णं, काण्डं, मूलं च औषधत्वेन उपयुज्यते । इयम् अमृतलता भारतं, मयन्मार्, श्रीलङ्कादिषु उष्णवलयप्रदेशेषु अधिकतया वर्धते । एषा लता वृक्षम् अवलम्ब्य वर्धते । एषा "मेनिस्पर्मेसी" कुले अन्तर्भवति । एताम् अमृतलतां सर्वत्र वर्धयन्ति । लघु लघु पुष्पकुण्डेषु अपि वर्धयन्ति । एषा लता तावत् शीघ्रं न म्रियते, म्लाना अपि न भवति । अतः एव अस्याः नाम "अमृतलता" इति । अस्याः त्वक् कपिलवर्णस्य भवति, पुष्पाणि च हरितवर्णीयानि ।
इयम् अमृतलता औषधीयेषु सस्येषु प्रधाना इति वक्तुं शक्यते । “अमृता”, “गुडूचि”, “छिन्नरुहा” इत्यादीनि नामानि अपि सन्ति अस्याः अमृतलतायाः । एषा लता सर्वासु अपि ऋतुषु वर्धते । सर्वेषु प्रदेशेषु अपि वर्धते । नगरप्रदेशेषु कुण्डेषु अपि वर्धयितुं श्क्या इयम् अमृतलता । एषा लता इत्यस्मात् वृक्षं, छदिम् अथवा अन्यं कमपि आधारम् अवलम्ब्य एव वर्धते । काले काले जलस्य तथा प्राकृतिकस्य गोभरस्य च व्यवस्था भवति चेत् अमृतलता सम्यक् वर्धते । कनिष्ठिकायाः गात्रवत्याः लतायाः, तथा ६ अङ्गुलमितात् दीर्घात् काण्डात् नूतनायाः लतायाः वर्धनं कर्तुं शक्यते । बीजं वा मूलं वा न अपेक्ष्यते । कनिष्ठिकायाः गात्रस्य काण्डस्य उपयोगः एव वरम् । पर्णानाम् उपयोगावसरे लक्ष्यं भवेत् । सम्यक् वर्धितानां पर्णानाम् उपयोगः एव करणीयः, न तु अवर्धितानां पर्णानाम् ।
[सम्पादयतु] इतरभाषासु अस्याः अमृतलतायाः नामानि
इयम् अमृतलता आङ्ग्लभाषया Tinospora Corofolia इति उच्यते । हिन्दीभाषया “गिलोय्” इति, तेलुगुभाषया “टेप्पतीगे” इति, तमिळ्भाषया “शिण्डेलेकोडि” इति, मलयाळभाषया “गुलवेल्”, कन्नडभाषया “अमृतबळ्ळि” इति च उच्यते ।
[सम्पादयतु] आयुर्वेदस्य अनुसारम् अस्याः अमृतलतायाः प्रयोजनानि
नाम्नः अनुगुणं गुणेषु एषा अमृतम् एव । अस्याः प्रयोजनानि अपि अनन्तानि । अस्याः रुचिः तिकतः तथा कषायः च । १. अस्याः अमृतलतायाः सेवनेन शरीरस्य बलं वर्धते । २. एषा ज्वरं, रक्तहीनतां च निवारयति । ३. अमृतलता चर्मणः समस्याः अपि दूरीकरोति । ४. एषा अमृतलता कामलरोगस्य परमौषधम् । ५. एषा मलावरोधम् (मलबद्धताम्) अपि निवारयति । ६. अस्याः अमृतलतायाः काण्डस्य चमसद्वयमितेन रसेन सह तावता एव प्रमाणेन मधु योजयित्वा प्रतिदिनं प्रातः सायं च आहारस्य सेवनात् पूर्वं सेवनीयम् । एवं द्वित्रान् मासान् यावत् करणेन शरीरस्य रोगनिरोधकशक्तिः वर्धते । ७. ४ चमसपरिमितेन अमृतलतायाः काण्डस्य रसेन सह तावता एव प्रमाणेन मधु योजयित्वा दिने त्रिवारं सेवनीयम् । तथा करणेन पीनसः, ज्वरः, कासः इत्यादयः द्वित्रेषु दिनेषु एव निवार्यन्ते । बालेभ्यः उपर्युक्तस्य प्रमाणस्य अर्धभागः वा पदभागः वा दातव्यः । ८. मधुमेहरोगेण पीडिताः प्रतिदिनं प्रातः सायं च अस्याः अमृतलतायाः काण्डस्य चर्वणं कृत्वा रसं गिलेयुः । ये चर्वणं कर्तुम् अशक्ताः ते ३ चमसमितं रसं पिबेयुः । अनेन शर्कारांशः महता प्रमाणेन न्यूनः भवति । श्रान्तता, हस्त – पादादीनां ज्वलनं चापि न्यूनं भवति । ९. मूलव्याधिना पीडिताः चषकमिते तक्रे ३ चमसमितम् अमृतलतायाः काण्डस्य रसं योजयित्वा दिने द्वित्रवारं पिबेयुः । तथा करणेन रक्तस्रावः स्थगितः भवति । मलबद्धता अपि अपगच्छति । १०. कामलरोगेण पीडिताः अस्याः अमृतलतायाः काण्डस्य ४ चमसमितं रसं तावतः एव प्रमाणस्य मधुना सह योजयित्वा प्रातः आहारस्य सेवनात् पूर्वं सेवेरन् । तदनन्तरं द्रवाहारः वा अकटुः आहारः वा सेवनीयः । अपेक्षितेन प्रमाणेन विश्रान्तिः अपि स्वीकरणीया । एवं करणेन ५ – ७ दिनेषु रोगः अपगच्छति
[सम्पादयतु] अस्याः अमृतलतायाः प्रयोजनानि
- १ एषा अमृतलता अत्यन्तम् औषधीयगुणयुक्ता ।
- २ अस्याः पत्रैः, काण्डेन च कषायं निर्मीयते । तस्य अमृतलताकषायस्य पानेन बहवः रोगाः अपगच्छन्ति ।
- ३ "वराहज्वरः" (H1N1) इति यः ज्वरः अस्ति तस्य रामबाणम् एषा अमृतलता ।
- ४ एषा अमृतलता त्रिदोषापहारिणी (वातः, कफः, पित्तम्) ।
- ५ सर्वविधानां ज्वराणां निमित्तम् अपि अमृतलता उत्तमम् औषधम् ।
- ६ अस्याः लतायाः काण्डस्य रसः मधुना सह प्रतिदिनं त्रिवारं सेवनीयम् इति वदति आयुर्वेदशास्त्रम् ।
- ७ अस्याः द्वित्राणि पत्राणि अपि एवमेव प्रतिदिनं खादितुं शक्यते ।
- ८ अस्याः अमृतलतायाः काण्डेन ताक्रम् अपि निर्मीयते ।
- ९ अमृतलता रोगनिरोधकशक्तिं वर्धयति ।