अर्जुनरावणीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अर्जुनरावणीयम्[सम्पादयतु]

भारतीयसंस्कृतशास्त्रकाव्येषु अन्यतमं भवति अर्जुनरावणीयम् नामक व्याकरणशास्त्रकाव्यम्। 'भट्टिभौमककाव्यादी काव्यशास्त्रं प्रचक्षते' इति क्षेमेन्द्रकविना स्वस्य सुवृत्ततिलकनाम्नि ग्रन्थे प्रतिपादितः। अस्य कर्ता भूमभट्टः काश्मीरवासी आसीत्। रावणार्जुनीयम् इति नामद्वयं प्रचारे वर्तते। घोषः इत्येकनाम्नापि क्वचिदस्य प्रसिद्धिरस्ति। कार्तवीरार्जुनस्य तथा लङ्काधीशरावणस्य च युद्धकथा अस्मिन् काव्ये वर्णिता। अष्टाध्यायीस्थानि सूत्राणि क्रमेण अस्मिन् काव्ये श्लोकेषु उदाहृतानि इत्येतत् अस्य काव्यस्य महत्त्वम्।

अर्जुनरावणीयम्

"https://sa.wikipedia.org/w/index.php?title=अर्जुनरावणीयम्&oldid=455881" इत्यस्माद् प्रतिप्राप्तम्