ओडिशी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(ओडिसी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ओडिश्शीनृत्यभङ्गी

ओडिशीभारतस्य काचित् शास्त्रीयनृत्यस्य पद्धतिः अस्ति । अस्य नृत्यस्य ओरिस्सी, उडिसी, ओडिसी इत्यपि भिन्नभिन्नेषु प्रान्तेषु व्यवहारः अस्ति । ओरियाभाषा - ଓଡ଼ିଶୀ}} , English:Oṛiśī) पुरातत्त्वशास्त्रानुसारम् इयं नृत्यपरम्परा भारतस्य प्राचीनतमा नृत्यपद्धतिः अस्ति । [१][२]

ओडिश्शीनृत्यम्

अस्य नृत्यस्य त्रिभङ्ग्याः कारणेण भारतस्य अन्यनाट्यप्रकारात् भिन्ना इति ओडिशीनृत्यपद्धतिः इति वदन्ति । मस्तकस्य उरसः वस्तिप्रदेशस्य पृथक् चलनं भवति इति कारणेन अस्य त्रिभङ्गी इति नाम आगतम् ।[३][४] अस्य नृत्यस्य चौकम् इति भावभङ्गिः पुरीजगन्नाथं द्योतयति । अस्मिन् नृत्ये अन्यभारतीयशिल्पकालासु यथा दृश्यते तथैव विविधैः भावाभिनयैः विविधप्रकारैः पादचालनैः च प्रात्रनिर्वणं भवति । अस्मिन् सामन्यभङ्गयः नाम अभङ्गी, अतिभङ्गी, त्रिभङ्गी व ।

मूलम् इतिहासः च[सम्पादयतु]

ओडिशाराज्यस्य पुर्यां स्थितः जगन्नाथदेवालयः

अस्य ओडिशीनृत्यस्य चित्रं सर्वप्रथमतया ओडिशाराज्स्यस्य मञ्चापुरीगुहासु दृष्टम् । एतानि चित्राणि खरवेलराजस्य काले उत्कीर्णानि आसन् । चित्रे राजा खरवेलः द्वाभ्यां राज्ञिभ्यां सह उपविश्य नृत्यं पश्यन् अस्ति । यत्र काचित् वैश्यकन्या नृत्यं करोति महिलावाद्यवृन्दः नादयति । पूर्वं नृत्यमेतत् जात्यातीतम् आसीत् । कालक्रमेण ओडिशायाः मन्दिरानुबद्धम् अभवत् । पुरिस्थितस्य जगन्नाथमन्दिरस्य धार्मिककार्यक्रमेषु अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । क्रमेण ओडिशायाः शैविते, शक्तः विशैविते मन्दिरेषु अपि अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । कस्मिंश्चित् शिलाभिलेखने उत्कीर्णं यत् बौद्धालयस्य कर्पूरश्रीः इति काचित् देवदासी मत्रा मातमह्या च सह अत्र ओडिशीनृत्यस्य प्रदर्शनं करोति स्म इति । अनेन ज्ञायते यत् ओडिशिनृत्यं पूर्वम् आस्थाननृत्यप्रकारः आसीदिति । कालान्तरेण एतत् बौद्धानां जैननां हैन्दवानां च धार्मिकदेन्द्रेषु अस्य नृत्यस्य प्रदर्शनं व्याप्तम् । देवस्य सेवायां याः महिलाः स्वजीवनं समर्पितवत्यः भवन्ति स्म ताः भक्तिसमर्पणभावेन ओडिशीनृत्यसेवां कुर्वन्ति स्म । भारतीयदेवालयेषु विद्यमनेषु शिल्पकलासु एतादृशानि चित्राणि एव दृश्यन्ते । [५] ओडिशीनृत्यस्य इतिहासः उडिशाराज्यस्य उदयगिरिप्रदेशस्य राणिगुम्फागुहातः आरब्धः भवति । तत्र उत्कीर्णानि चित्राणि ओडिशीनृत्यस्य भावभङ्गीः दर्शयन्ति ।

मन्दिरस्य इतिहासः[सम्पादयतु]

भुवनेश्वरः ओडिशाराज्यस्य राजधानी अस्ति । तस्मिन् उदयगिरिः खण्डगिरिः इति पर्वतप्रदेशे गुहाः सन्ति । अपि च केचन जैनमतस्य गुहाः सन्ति । त्रविद्यमानानि ओडिशीनृत्यस्य चित्राणि उत्कीर्णानि यानि क्रि.पू.दितीशतके रचितानि ।2nd एते गुहाः राज्ञः खरवेलस्य सेवायाम् आसन् । एताः शिल्पकालाः एतत् दृढयन्ति यत् इयं ओडिशीनृत्यकला एव देशस्य प्राचिनतमा नृत्यपद्धतिः इति । अपि च कोनार्कप्रदेशस्य सूर्यदेवालये भुवनेश्वरस्य देवालये च एतादृशाः कलाः दृश्यन्ते । ओडिशाराज्यस्य रत्नगिरिपर्वतप्रान्तेषु कृतोत्खननकाले ओडिशीनृत्यस्य शिल्पकालाः अस्य इतिहासं समर्थयन्ति । हरिपुरेत्यदिषु पुण्यस्थानेषु बह्व्यः योगिन्यः तासां नृत्यशिल्पकाभिः स्मृताः। ओडिशीनृत्यप्रकारः विशेषतः शैवमन्दिरेषु प्रदर्शितः भवति यतः देवः शिवः नर्तकानां गुरुः इति भावः अस्ति । अपि अस्मिन् ब्रह्माण्डे नृत्यस्य अधिदेवः नटराजः इति कथ्यमानः शिवः एव । अतः नृत्यम् अपि देवतार्चनस्य काश्चन विधिः भवति । भुवनेश्वरस्य शैविते मन्दिरे ओडिशीनृत्यस्य असङ्ख्यातानि चित्राणि सन्ति । पुरिजगन्नाथमन्दिरे कोणार्कसूर्यदेवालये च भित्तिषु ओडिशीनृत्यसमूहस्य चित्राणि उत्कीर्णानि सन्ति । एतानि ओडिशायः शैविते मन्दिरेषु अस्याः कलायाः शिक्षा प्रचलति स्म इति प्रमाणयन्ति ।

कोणार्कसूर्यदेवालये ओडिश्शीनृत्यभङ्गी

परम्परा नर्तकाः च[सम्पादयतु]

ओडिशीनृत्यपरम्परा माहिरिः नर्तकी गोटिपुरं च इति शालासु अस्तित्वं रक्षति ।

  • पुर्याः जगन्नाथमन्दिरस्य देवदास्यः महारी नाम्ना आहूयन्ते । अयं शब्दः महा नारी इति पदयोः सांक्षेपः । पूर्वं महार्यः(देवदास्यः)एतेषु मन्दिरेषुअ मन्त्रान् श्लोकान् च अबलम्ब्य नृत्तम् अभिनयं च कुर्वन्ति स्म । क्रमेण एताः महर्यः जयदेवस्य गीतगोविन्दम् अवलम्ब्य नृत्यानि प्रदर्शयन्ति स्म । नृत्यावसरे एतासां मन्दिरस्य अन्तः प्रवेशः कल्प्यते स्म किन्तु अन्यावसरेषु तासां मन्दिरप्रवेशः निषिद्धः आसीत् ।
  • षष्टशतकस्य अन्तिमभागे गोटिपुवा परम्परा निमज्जति स्म । कारणंतु वैष्णवमतावलम्बिनः महिलानां नर्तनं न सहन्ते स्म । अस्मिन् काले गोटिपुवबलाः महिलाः इव वेशं धृत्वा महरीभिः नृत्याभ्यासं प्राप्नुवन्ति स्म । वैष्णवकवयः राधाकृष्णयोः विषये असङ्ख्यगीतानि ओरियाभाषाया रचयन्ति स्म ।
  • राजभवनेषु नर्तकी नर्तनम् अवकाशम् अवाप्नोत् । यत् ब्रिटिश् कालात् पूर्वमेव संवर्धितम् आसीत् । तस्मिन् काले ओडिशीनृत्याङ्गनानां देवदासीनां दुरुपयोगः सर्वत्र अभवत् । अतः क्रमेण मन्दिरेभ्यः ओडिशीनृत्यप्रकारः बहिरागतः । राजभवनेषु अपि अस्य नृत्यस्य मौल्यं नष्टम् अभवत् । एषा नृत्यविद्या केवलं शिक्षाकेन्द्रेषु एव अवशिष्टम् ।

महारीपरम्परा[सम्पादयतु]

शैविते मन्दिरेषु महिलानां नर्तनसंस्कृतेः संरक्षणार्थम् इयं परम्परा रक्षिता । पुर्याः जगन्नाथमन्दिरे देवस्य जगन्नाथस्य सेवार्थं महिलानाम् ओडिशीनर्तनस्य पद्धतिः अनुवर्तिता । एताः नृत्याङ्गनाः एव महार्यः (श्रेष्ठमहिलाः) इति अथवा देवदास्यः (देवानां दासयः) जगन्नाथस्य भार्याः इति परिगण्यन्ते । तासां कलारूपेण ओडिशीनृत्यप्रकारः संवर्धितः । ओडिशाराज्ये दशमशताब्दौ उद्योतकेसरी इति राज्ञः काले प्राप्ताः शिलाभिलेखाः महारी विषये सर्वप्रथमं प्रामाण्यम् । राज्ञः माता कलवती देवी अनेकाः नृत्याङ्गनाः ब्रह्मेश्वरदेवलयस्य परमेश्वराय समर्पितवती । क्रि.श.एकादशे शतके राजा अनन्तवर्मा चोळगङ्गदेवः जगन्नाथमन्दिरे नृत्यसेवार्थं नृत्यकन्निकाः नियुक्तवान् । शतमानकालपर्यन्तं अस्य नृत्यस्य संरक्षणम् एतासां नृत्याङ्गनानां दायित्वं भवति स्म । नृत्याङ्गना एकापादेन देहस्य समतोलन इत्यादिभिः तन्त्रैः अनुपमकौशलैः च अयं नृत्यप्रकारः अन्येभ्यः पृथक् विशिष्टः च इति निरूपयति । तासु काश्चन महार्यः एवं भवन्ति । मोहिनी महारी, दमिनी महारी, दुङ्ग्री महारी, पद्मश्रीः गुरुपङ्कजदासः ।

गोतिपुरपरम्परा[सम्पादयतु]

ओरियाभाषया गोतिपुर इत्युक्ते एकाकी बालः इत्यर्थः । इतं नृत्यं तु केनचित् एकेन बालकेन महिलावेषेण प्रदर्श्यते । राज्ञः प्रतापरुद्रस्य प्रशासनकाले यः श्रीचैतन्यस्य अनुयायी आसीत् बालकानां नृत्यपरम्परा नाम गोतिपुरपद्धतिः समानीतः । यतः वैष्णवजनाः महिलानां नर्तनं नानुमन्यते स्म । [६] [[Image:Rudrakshya 019.jpg|thumb|right|ओडिश्शीसमूहनृI I dont understand this

नृत्यकोशः परिभाषा च[सम्पादयतु]

ओडिश्शीसमूहनृत्यम्
  • पारम्परिकम् ओडिशनृत्यम् विविधांशयुक्तं भवति ।
  • मङ्गलाचरणम् - अयं देवताप्रर्थनयाः भागः । देवं जगन्नाथं संस्तुत्य अन्यदेवतायाः सुतिश्लोकगानेन सह तस्यार्थानुगुणं नृत्यं कुर्वन्ति । भूमौ नृत्यवजेन पादन्यासः क्रियते अतः क्षमां प्रार्थयन् मङ्गलाचरणे भुमिप्रणमः अपि अन्तर्गच्छति । त्रिखण्डिप्रणामः अपि भवति यत्र शिरसः ऊर्ध्वं, गुरोः मुखस्य पुरतः प्रेक्षकानाम् अभिमुखं च नृत्याङ्गना नमस्कारान् करोति ।
  • बट्टु नृत्यम् - स्थायिनृत्यम् अथवा बटुकभैर अपि अस्य नाम अस्ति । नृत्यप्रपञ्चस्य आरध्यदैवस्य नटराजपरमेश्वरस्य परितोषार्थम् एतत् नृत्यं कुर्वन्ति । शिवस्य ६४उग्ररूपेषु अन्यतमम् अत्र प्ररर्शयन्ति । अस्य कृतेः मूलं तु ओरियाभाषायाः लिङ्गपुराणं महानिर्वाणतन्त्रं च ययोः बतुक भैरवरवस्य विविरणं भवति । अस्मिन् साहित्येनृत्याङ्गनाः शिवभक्त्याः पूजायाः च प्रयोजस्य विवरणं भवति । अट्टुनृत्यं तु ओडिशानृत्यस्य अतिकठिणं परिशुद्धं नृत्यम् अस्ति । अस्मिन् नृत्ये शल्पकलाना अनुकरणमिव विविधाः आङ्गिकाभिनयः भवति । इत्युक्ते वीणायाः मृतङ्गस्य पकवाद्यस्य करतालस्य वेणोः वादनानां भङ्गीः नृत्याङ्गना प्रदर्शयति । एतादृशनृत्येषु गानं वा वाद्यं न अनुगच्छति । किन्तु केषाञ्चन अक्षराणां पुनरावर्तनं भवति तेन साह अभिनयप्रदर्शनं भवति । अक्षराणां पौनपुन्येन रटनं तु एकया पङ्क्त्या भवति यस्य उकुत इति कथ्यते यत् तालेन सह विविध जत्या उच्चार्यते तदा नर्तिका पादन्यासेन सर्वं समन्वयति । तालः नृत्यस्य अनुबन्धं निश्चिनोति यस्य तेदि अथवा कटम् इति नाम । अन्तिमदृश्यं सर्वदा झुलापहपटतालेन विन्यस्तः भवति अपि च नृत्यस्य शीघ्रगतिः भवति ।
  • पल्लविः - काचित् परिशुद्धं नृत्यवैविध्यं यस्मिन् रागाः नेत्राभिनयेन आङ्गिकेन पादन्यसेन च व्रिस्तृताः भवन्ति । पल्लविः इत्यस्य पदशः अर्थः तु विकसनम् इति । एतत् न केवलं नर्तनम् अन्वेति । किन्तु नृत्यसहयोगानां सङ्गीतवाद्यानम् अपि भवति । पल्लविः प्रार्थनापूर्वकश्लोकैः नेत्रयोः ग्रीवस्य पदयोः च चालनेन मन्दम् आरभ्यते । क्रमेण वेगं प्राप्य पराकोटिं च गच्छति । गानं वाद्यसङ्गीतानि च नृत्येन युगपत् वेगेन धावन्ति । नर्तनं तु रसमयं लीलायुतं भावात्मकं च भवति ।
  • अभिनयः - गीतस्य अथवा कथायाः साभिनयं भवाभिव्यक्तियुक्तं नर्तनम् । मुद्राभिः भावभिनयैः नेत्रयोः चालनेन च साहित्यस्य कथा प्रेक्षकान् प्राप्नोति । अभिनयः संस्कृतभाषायाः अथवा ओडियाभाषायाः साहित्येन सह प्रस्तुतः भवति । अभिनये संस्कृतभाषया अथवा ओडियाभाषायाः वा सहित्येषु दशावतारस्तोत्राणि , अर्धनारीस्तोत्राणि, गीतगोविन्दश्लोकाः च प्रसिद्धानि सन्ति । अभिनयस्य गीतानि विशेषतः राधकृष्णयोः विषये एव भवन्ति । जयदेवकविना लिखतस्य अष्टपदीकाव्यस्य गीतगोविन्दस्य उपयोगः अत्र अधिकः भवति । अयं ग्रन्थः पुरिजगन्नातस्य परितोषाय एव लिखितः इत् जनानां भावः ।

[७]

  • नृत्यनाटिका - अस्मिन् अनिकाः नृत्याङ्गनाः प्रारूपिकतया दीर्घाभिनयं कुर्वन्ति । काश्चन प्रसिद्धाः नृत्यनाटिकाः नाम गुरोः केलूचरणमहापात्रस्य रचनानि सुदामदरित्रभजनम्, मातामणिप्रदानम्, बल्यलीला, ऋतुसंहारः, कृष्णसुदामः, दुष्यन्तशाकुन्तला, उत्कलमुदामणिः, यागनाशिनी, मेघदूतम्, कुमारसम्भवम्, सप्ननायकः इत्यादयः । विशेषतः अध्यात्मविचाराः एव अत्र स्वीकृताः भवन्ति । तदन्तरकाकले किन्तु नूतनं विषयवस्तु स्वीकृत्य कृतः प्रयोगः यशस्वी अभवत् । आधुनिकलाके निरूपितानि नूतनानि विषयवस्तूनि नाम पञ्चकन्या, गङ्गायमुना, श्रितकमलम्, मृत्युः तन्त्रम् च ।
  • मोक्षः - नृत्यनाटिकायाः उपसंहारभागस्य मोक्षः इति परिभाषा । मोक्षः इत्यस्य पदशः अर्थः पार्मर्थिकं सायुज्यम् । आध्यात्मस्य परकोटीं नृत्यं प्रदर्शयति । नृत्यकलावित् सहृदयेभ्यः परिशुद्ध सरसप्रकाशं दर्शयति । चलनं यतिः च लीनः भूत्वा नूतनवि समयावकाशे सदा नविन्मेषशालिनः विन्यासान् च प्रदर्शयति । अस्मिन् भागे नृत्यं स्वपराकोटिं प्राप्य प्रेक्षकस्य नेत्रयोः कर्णयोः च उत्सवं जनयति । मोक्षः इव ब्रह्माण्डस्य ओम् इति नादं श्रावयत् नृत्यं परिसमाप्तिं गच्छति ।

भारतात् बहिः[सम्पादयतु]

1991: A short (23 second) Odissi dance scene was featured in Michael Jackson's music video of Black or White. The legendary pop-singer and dancer performs some Odissi, too.[८]

1998: Madonna danced along with Odissi dancers live on stage during the 1998 MTV Award ceremony. US-based Odissi performers, Patnaik Sisters, were chosen to choreograph and perform alongside the legendary pop artist.

विशेषाध्ययनम्[सम्पादयतु]

  • Odissi : What, Why and How… Evolution, Revival and Technique, by Madhumita Raut. Published by B. R. Rhythms, Delhi, 2007. ISBN 81-88827-10-X.
  • Odissi Yaatra: The Journey of Guru Mayadhar Raut, by Aadya Kaktikar (ed. Madhumita Raut). Published by B. R. Rhythms, Delhi, 2010. ISBN 978-8-18-882721-3.
  • Odissi Dance, by Dhirendranath Patnaik. Published by Orissa Sangeet Natak Akademi, 1971.
  • Odissi - The Dance Divine, by Ranjana Gauhar and Dushyant Parasher. Published by Niyogi Books, 2007. ISBN 81-89738-17-8.
  • Odissi, Indian Classical Dance Art: Odisi Nritya, by Sunil Kothari, Avinash Pasricha. Marg Publications, 1990. ISBN 81-85026-13-0.
  • Perspectives on Odissi Theatre, by Ramesh Prasad Panigrahi, Orissa Sangeet Natak Akademi. Published by Orissa Sangeet Natak Akademi, 1998.
  • Abhinaya-chandrika and Odissi dance, by Maheshwar Mahapatra, Alekha Chandra Sarangi, Sushama Kulshreshthaa, Maya Das. Published by Eastern Book Linkers, 2001. ISBN 81-7854-010-X.
  • Rethinking Odissi, by Dinanath Pathy. Published by Harman Pub. House, 2007. ISBN 81-86622-88-8.

अवलोकनम्[सम्पादयतु]

References[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:Indian classical dance

"http://sa.wikipedia.org/w/index.php?title=ओडिशी&oldid=276544" इत्यस्माद् पुनः प्राप्तिः