कर्णाटकस्य भूविस्मयाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटकस्य कश्चन भूविस्मयः।

अस्माकं भूमि: एव विस्मयकारिणी अस्ति । सौरव्यूहस्य ग्रहेषु भूमि: अपि अन्यतमा । अत्र शताधिका: पर्वता:, अनेके समुद्रा:, अग्निपर्वता:, नद्य:, खण्डा: एवं विस्मयानाम् आगरः एव अत्र अस्ति । सामान्यत: पञ्चाशतधिक चतुश्शतकोटिवर्षाणां भूमे: इतिहासस्य अवधौ खण्डा: इतस्तत: अभवन् । ज्वालामुख्य: स्फोटिता: । भूप्रदेशा: कम्पिता: । एतानि सर्वाणि भूमे: अन्त:क्रियया सम्भूतानि भूवैचित्र्याणि । एवमेव भूमे: बहिर्भागे अपि अपाराणि परिवर्तनानि अभवन् । नदीनां सञ्चयनेन भूभागस्य वृद्धि:, क्षय: वा अभवत् । हिमनदीनां प्रवाह: प्रवहित: अस्ति । तीरप्रदेशाणां विस्तार: न्यूनता च जाता अस्ति । एवं परिवर्त्यमानायां भूमौ अनेकानां विस्मयानां सृष्टि: अभवत् । कर्णाटके त्रिशतकोटिवर्षाधिकस्य वयोमानस्य शिला: प्राप्ता: सन्ति । भूमौ प्रचलितानां अनेकासां घटनानां साक्षिरूपेन भवन्ति एता: शिला: । एताभि: घटनाभि: ये भूविचित्रा: सृष्टाः अभवन् तेषु अन्यतमाः सन्ति कर्णाटकस्य भू विस्मयाः । कर्णाटके अनेका: शैला:, दुर्गमा: गिरिकन्दरा:, जलपाता:, गुहा: च सन्ति । एकरीत्या एते सर्वेऽपि विस्मया: एव । तथापि अत्र जगति विशिष्टान् कर्णाटकस्य भूविस्मयान् पश्यामः ।

जोगजलपातः
गोकाकजलपातः
तलकाडुसिकताराशिः
मेकेदाटु
सन्तमेरीद्वीपस्य स्तम्भरचनाः
याणस्य तीक्ष्णशिलाः
लालबाग् उद्यानस्य पेनिन्सुलारनैस्
हलगूरुस्थं भीमनकिण्डी
मधुगिरेः एकशिलापर्वतः
१० बेन्द्रतीर्थस्य उष्णोत्सांसि
११ होसकोटेनगरस्य अण्डाकारिकशिलाः
१२ उळव्याः कवळागुहाः
१३ मुदनूरुग्रामस्य उत्सांसि
१४ मरडीहळ्ळीशिलोपधानानि
१५ कलादग्याः स्ट्रोमोटोलैट्शिलाः