जोगजलपातः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जोगजलपातः

जोगजलपातः कर्णाटकराज्यस्य शिवमोग्गामण्डलस्य उत्तरकन्नडमण्डलस्य च सीमायाम् अस्ति।

कर्णाटकराज्ये स्थितः विश्वप्रसिद्धः जलपातः शिवमोग्गामण्डलस्य सागरप्रदेशस्य समीपे जोग(०८१८६) इति स्थले अस्ति । नैसर्गिकः जलपातः अतीव सुन्दरः अस्ति । विशेषतः वर्षाकाले जुलैमासतः अक्टोबरमासपर्यन्तम् अतीव रमणीयम् भवति । वर्षणं सम्यक् न भवति चेत् केवलं रविवासरे जलाशयतः जलं त्यजन्ति तदा एव जलपातदर्शनं सुन्दरं भवति । शरावतीनदीजलम् अत्र निसर्गरमणीये प्रपाते ९५० पादपरिमितोन्नतात्प्रदेशात् पतति । जलस्य अधः पतनस्य दृश्यम् अतीव आकर्षकं मनोहरं च भवति ।

शिवमोग्गा उत्तरकन्नडमण्डलयोः सीमायां शरावतीनदी २५२.७ मीटर् इत्युक्ते ८२९ पादपरिमितात् औन्नत्यात् कूर्दनं करोति । एषा शरावती शिवमोग्गाया: अम्बुतीर्थे जन्म प्राप्नोति । अनन्तरम् उत्तरदिशि प्रवहति । अग्रे एतां मलावी, हरिद्रावती, एण्णेहोळे उपनद्य: मिलन्ति । अनन्तरं बहुविस्तारतया एषा पश्चिमाभिमुखं प्रवहति । प्रादेशिकभाषया जोग इति पदस्य अर्थः एव जलपातः इति । गेरुसोप्पे जलपातः इत्यपि अस्य नाम । जगति प्रसिद्धेषु जलपातेषु अस्य नाम अपि अस्ति । एषः उत्तरकन्नडशिवमोग्गमण्डलयोः सीमाप्रदेशे शरावततीनद्याः पातः । जोगजलपातः भारतस्य अत्युन्नतः जलपातः इति ख्यातः । जलपातस्य दीर्घता २९२मी. अस्ति । अत्र नदी शारावती राजा,घोषः, वनिता, बाणः इति चतसृषु शाखासु विभक्ता अधः पतति । राजधानी बेङ्गळूरुतः ४०० कि.मी.दूरे गेरुसोप्पे प्रदेशः अस्ति । शिवमोग्गमण्डलस्य सागरपत्तनतः दोड्डमने मार्गे ३०कि.मी. दूरं गच्छति चेत् जोगजलपातः लभ्यते । उत्तरकन्नडमण्डलस्य होन्नावरतः अपि गन्तुं शक्यते । ततः ६०कि.मी.दूरं भवति । बेङ्गळूरुतः सागरपर्यन्तं बस् यानेन गत्वा ततः भाटकयानेन गमनं सुकरम् । रेल् यानप्रवासः आवश्यकः चेत् शिवमोग्गा अथवा ताळगुप्प रेल् निस्थानके समीपे भवतः । वासभोजनादिव्यवस्थाः सागरपत्तने एव भवन्ति । स्वकीययानेनापि बेङ्गलूरुतः गच्छति चेत् दिनद्वयस्य प्रवासः भवति ।यतः समीपे एव लिङ्गनमक्किजलबन्धः, गेरुसोप्पे जलविद्युत्स्थावरः, होसनगर श्रीरामचन्द्रापुरम्, मुर्डेश्वरः, इडगुञ्जी, केळदी, मण्डगद्दे पक्षिधाम ,इत्यादीनि दर्शनीयस्थानानि सन्ति । जगत: नयनमनोहरेषु जलपातेषु जोगजलपात: अन्यतम: । गेरुसोप्पेजलपात: इत्यपि एतम् आह्वयन्ति । जलपातत: २९ कि.मी. दूरे शरावतीनद्या: वामतीरे 'गेरुसोप्पे’ नामकः कश्चित् ग्राम: अस्ति । अत: जलपातस्य नाम तथा अभवत् इति वदन्ति । परिसरे भल्लातकवृक्षा: अधिका: इत्यपि तथा नाम स्यात् । प्रादेशिकभाषया गेरुनाम भल्लातकम् इति अर्थः । जलपातस्य समीपे 'जोग' इति कश्चन लघुग्राम: अस्ति । अत: 'जोगजलपात:’ इत्येव सुप्रसिद्ध: जात: अस्ति । वस्तुत: पश्चिमघट्टस्य कावेरी, कपिला, तुङ्गानदी इव शरावत्या अपि पूर्वाभिमुखम् एव प्रवहणीयम् आसीत् । आरम्भे मूलनदी पूर्ववाहिनी एव आसीत् । अनन्तरं नद्या: विकासस्य कस्मिंश्चित् घट्टे एषा पश्चिमवाहिनी अभवत् । यतः पश्चिमघट्ट: पूर्वदिशि निम्नावनतः, पश्चिमदिशि निम्नोन्नतः अस्ति । पश्चिमदिशि प्रवहन्ती काचित् नदी उन्मुखासती अधिकावघर्षणेन पूर्ववाहिनीं शरावतीं स्वदिशि आकृष्टवती इति कारणेन नद्याः पात्रं विस्तारितम् अभवत् । अतः शरावती पश्चिमवाहिनी अभवत् । एतां प्रक्रियाम् एव 'नदीचौर्यम्’ इति वदन्ति ।

शरावती यदा उपरिष्टात् अध: कूर्दति तदा तस्याः चतस्र: शाखा: अभवन् । एता: 'राजा, राणी, राकेट्, रोरर्’ इति प्रसिद्धाः ।

सिरसिनगरस्य सोदेराजस्य नाम सूचयति राजा शाखा , गर्जनं कुर्वती कूर्दति इत्यतः रोरर् शाखा राकेट्वेगेन इव कूर्दति इत्यतः राकेट् इति नाम आगतम् । राज्ञ्याः ब्लान्जाया: नाम अन्तिमाय जलपाताय दत्तम् अस्ति ।

जोग् अपेक्षया अधिक: उन्नत: जलपात: आग्नेयवेनिझुल्लानगरे अस्ति । एतम् एञ्जल् जलपात: इति वदन्ति । किन्तु जोगजलपाते यावत् जलं प्रवहति तावत् जलं तत्र न प्रवहति । केनडाअमेरिकासंयुक्तसंस्थानस्य सीमाप्रदेशे नयागरा जलपात: अस्ति । केनडादेशस्य भागे एतस्य विस्तीर्ण: ७६२ मीटर् । किन्तु एष: केवलं ४७ मीटर् उपरिष्टात् कूर्दति । एवमेव आफ्रिकाखण्डस्य उत्तररोडेषियस्य सीमाप्रदेशे जाम्बसीनद्या निर्मित: विक्टोरिया जलपात: सार्धैककिलोमीटर् विस्तीर्णयुतः अस्ति । किन्तु एतस्य औन्नत्यं केवलं १०४ मीटर् मितम् । उपरिष्टात् पततः जलस्य प्रमाणदृष्ट्या सौन्दर्यस्य दृष्ट्या च जोगजलपात: इव जगति अन्य: जलपात: नास्ति इति वक्तुं शक्यते ।

नद्या: जलं, मृदुशिला: यत्र भवन्ति तत्र यदा प्रवहति, तदा मृदुशिला: शीघ्रं विनष्टानि भवन्ति । यदा उपरिष्टात् कूर्दति तदा एवं जलपातस्य सृष्टि: भवति । गेरुसोप्पे जलपातस्य विषये ज्ञातुं क्रि.श. १८५६तमे वर्षे द्वौ ब्रिटिश् अधिकरिणौ संशोधनं कृतवन्तौ । तेषां वृत्तान्तानुगुणं प्रपातस्य दैर्घ्यं ८२९पादपरिमितम् । किन्तु जलप्रप्रवाहस्य रंहनिर्मितः प्रपातः १२९पादमितः । शिवमोग्गा-उत्तरकन्नडमण्डलयोः मध्ये नद्याः वैशाल्यं २१३०पादपरिमितम् । क्रि.श. १८६९तमे वर्षे जनवरी मासे ब्रिटिश् अधिकारिणी श्रीमती लूयि ब्रौनिङ्ग् एतं प्रदेशं दृष्ट्वा "जलपातस्य शिवमोग्गासीमाप्रान्ते गहनं वनम् आसीत् येन पटगृहम् अपि निर्मातुम् अवसरः नासीत्” इति उक्तवती । शरावतीनद्याः जलबन्धं निर्मीय लिङ्गनमक्किजलाशयः इति नाम दत्तम् । अस्मिन् जलागारे सङ्गृहीतजलम् अवलम्ब्य जोगजलपाततः २४कि.मी.दूरे विद्यमानस्य गिरेभास्कर इति प्रदेशे क्रि.श.१९३०तमे वर्षे मैसूरुराज्यस्य (कर्णाटकम्) लोकोपयोगी विभागद्वारा जलविद्युदुत्पादनाघटकस्य निर्माणार्थं कार्यम् आरब्धम् । अस्य कृष्णराजेन्द्रजलविद्युत् योजना इति नाम स्थापितम् । कालक्रमेण महात्मागान्धीजलविद्युत् प्रकल्पः इति नामाङ्कितम् । क्रि.श. १९४९तमे वर्षे फेब्रवररी २१दिनाङ्के आरब्धा एषा योजना प्रतिवर्षं १२०मेगाव्याट् विद्युदुत्पादनस्य क्षमतां रक्षति ।

"http://sa.wikipedia.org/w/index.php?title=जोगजलपातः&oldid=262133" इत्यस्माद् पुनः प्राप्तिः