कविता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

कवितायाः परिभाषाऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति वाक्यं रसात्मकं काव्यम् अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता इति कथ्यते। रस,छन्द।छन्दालंकारैः युक्ता कविता आनन्दोत्पत्तिं करोति। महात्मना तुलसीदासेन उक्तं यत् ---कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।। अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् काव्यं साहित्यं कथ्यते। आनन्दो वै काव्यम् अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति। यथा--

सौन्दर्यदशर्नम्

वैभवं कामये न धनं कामये

केवलं कामिनी दर्शनं कामये

सृष्टिकार्येण तुष्टोस्म्यहं यद्यपि

चापि सौन्दर्यसंवर्धनं कामये।

रेलयाने स्थिता उच्च-शयनासने

मुक्तकेशांगना अस्तव्यस्तासने

शोभिता तत्र सर्वाङ्ग्-आन्दोलिता

अनवरत यानपरिचालनं कामये।

सैव मिलिता सड़क परिवहनवाहने

पंक्तिबद्धाः वयं यात्रि संमर्दने

मम समक्षे स्थिता श्रोणि वक्षोन्नता

अप्रयासांग स्पर्शनं कामये।

सैव दृष्टा मया अद्य नद्यास्तटे

सा जलान्निर्गता भाति क्लेदितपटे

दृश्यते यादृशा शाटिकालिंगिता

तादृशम् एव आलिंगनं कामये।

एकदा मध्यनगरे स्थिते उपवने

अर्धकेशामपश्यं लतामण्डपे

आंग्लश्वानेन सह खेलयन्ती तदा

अहमपि श्वानवत् क्रीडनं कामये।

नित्यं पश्याम्यहं हाटके परिभ्रमन्तां

लिपिष्टकाधरोष्ठी कटाक्ष चालयन्

अतिमनोहारिणीं मारुति गामिनीम्

अंग प्रत्यंग आघातनं कामये।

स्कूटी यानेन गच्छति स्वकार्यालयं

अस्ति मार्गे वृहद् गत्यवरोधकम्

दृश्यते कूर्दयन् वक्ष पक्षी द्वयं

पथिषु सर्वत्र अवरोधकम् कामये।

शास्त्री नित्यगोपाल कटारे :

[सम्पादयतु] External links

"http://sa.wikipedia.org/w/index.php?title=कविता&oldid=191221" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु