कविः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कविः दार्शनिकः भवति । काव्यस्य प्रणेता भवति । वालमिकिः आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव ।

एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्। कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।

कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।

कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते । अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति। भासः

संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादि कवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालवाग्निमित्रनाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-

‘प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘

अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।

‘बाणोच्छिष्टं जगत् सर्वमिति’ यशसा विख्यातेन बाणभट्टेन ‘हर्षचरितस्य’ प्रस्तावनायां भासविषये एवं आलिख्यते-

‘सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।

सपातकैर्यशो लेभे भासो देवकुलैरिव ॥ ‘

नानाप्रकारकथाभिः तथा बहुपात्रयुक्तानि नाटकानि कविभासैः विरचितानि इति अस्मात् श्लोकात् ज्ञायते। यद्यपि बहुभिः कविभिः भासस्य यशः प्रकटितं तथापि दौर्भाग्यवशात् एतादृशस्य महाकवेः जन्मादिविषये यु्क्तिपूर्वकविषयाः अनुपलब्धाः। भासः इति शब्दोऽपि तस्य गोत्रनाम एव न तु यथार्थनाम।

संस्कृतसाहित्ये भासकृतानि त्रयोदशनाटकानि प्रसिद्धानि वर्तन्ते। तानि च

स्वप्नवासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , अविमारकम्, चारुदत्तम् , बालचरितम्, मध्यमव्यायोगम् , पञ्चरात्रम्, दूतवाक्यम् , दूतघटोत्कचम् , कर्णभारम् , ऊरुभङ्गम् , प्रतिमानाटकम्, अभिषेकनाटकम् ।

एतेषां नाटकानां संख्याः, मूलानि, अनन्तानि तथा विविधानि पात्रकल्पनानि च भासस्य विषये कालिदासबाणभट्टादीनां प्रशंसावाक्यानि समर्थयन्ति ।


सौजन्यम् - संस्कृते लिखामः ब्लागः ।‎

"http://sa.wikipedia.org/w/index.php?title=कविः&oldid=254503" इत्यस्माद् पुनः प्राप्तिः