जुनागढ
| जुनागढ જૂનાગઢ |
|||
|---|---|---|---|
| — नगरम् — | |||
| Coordinates: 21°31′N 70°28′E / 21.52°N 70.47°ECoordinates: 21°31′N 70°28′E / 21.52°N 70.47°E | |||
| देशः | भारतम् | ||
| राज्यम् | गुजरातराज्यम् | ||
| मण्डलम् | जुनागढ | ||
| सर्वकारः | |||
| • अङ्गः | Junagadh Municipal Corporation | ||
| • Mayor | Mr. Lakhabhai Parmar | ||
| • Municipal Commissioner | Ms. Vipra Bhal | ||
| • Member of Legislative Assembly | Mr. Mahendra Mashru | ||
| विस्तीर्णम् | |||
| • Total | ५९ Square km (२२.८ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Total | ३,२०,२५० | ||
| भाषाः | |||
| • अधिकृताः | गुजराती, हिन्दी, आङ्ग्लभाषा | ||
| IST (UTC+5:30) | |||
| पिन् | 362 00X | ||
| Telephone code | 0285 | ||
| वाहनपञ्जीकरणम् | GJ-11 | ||
| Civic agency | Junagadh Municipal Corporation | ||
| जालस्थानम् | www.junagadhmunicipal.org | ||
जुनागढ –ऎतिहासिकं नगरम् प्रख्यातस्य भक्तवर्यस्य श्रीनरसिंहमहेतामहोदयस्य प्रदेशः अयम् । इतिहासे ”’गिरिनार”’ ”’देवगिरि” इत्यादिभिः नामाभिः प्रसिद्धमासीत् । गान्धिमहोदयस्य अतिप्रियं “वैष्णवजनतो” – गीतं श्रीनरसिंहमहेतामहोदयेन लिखितमस्ति । जैनानां पुण्यक्षेत्रमिदं ”’रेवतिगिरि”’ इति प्रख्यातम्। मौर्यराजस्य अशोकस्यकालतः अपि जुनागडनगरं ख्यातमस्ति । अत्र अनेकानि मुस्लिंप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागडमृगालयः सकरबाग्म्यूसियं दरबारम्यूसियं च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि किरीटानि शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरुपेण वसति इति वदन्ति । गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तेः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्दगुप्तेन निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति । गिरनारगिरौ दामोदरकुण्डम् इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलभिः निर्मितानि सन्ति । अमृततशिलानिर्मिताः ५ जैन देवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बमाता देवालयः अस्ति । अत्र नूतनविवाहिताः सुखजीवनाय अत्र आगत्य देवीं प्रार्थयन्ते ।