जोनास् एड्वर्ड् साक्
| जोनास् एड्वर्ड् साक् | |
|---|---|
Magazine photo by Yousuf Karsh, 1956 |
|
| जननम् | Jonas Edward Salk October 28, 1914 New York, New York |
| मरणम् | June 23, 1995 (aged 80) La Jolla, California, United States |
| वासस्थानम् | New York, New York Pittsburgh, Pennsylvania La Jolla, California |
| देशीयता | American |
| कार्यक्षेत्राणि | Medical research, virology and epidemiology |
| संस्थाः | University of Pittsburgh Salk Institute |
| मातृसंस्थाः | City College of New York New York University |
| संशोधनमार्गदर्शी | Thomas Francis, Jr. |
| विशयेषु प्रसिद्धः | First polio vaccine |
| प्रमुखाः प्रशस्तयः | Lasker Award (1956) |
| पतिः/पत्नी | फलकम्:Marriage, फलकम्:Marriage |
| हस्ताक्षरम् |
|
इति पत्रिकायाः मुखपुटे प्रकाशितं प्रयोगनिरतस्य जोनास् एड्वर्ड् साकस्य चित्रम्]]
(कालः – २८. १०. १९१४ तः १९९५)
अयं जोनास् एड्वर्ड् साक् (Jonas Edward Salk) “पोलियो”–रोगस्य औषधस्य संशोधकः । एषः जोनास् एड्वर्ड् साक् १९१४ वर्षे अक्टोबरमासस्य २८ तमे दिनाङ्के अमेरिकादेशस्य न्यूयार्क्-नगरे जन्म प्राप्नोत् । अस्य जोनास् एड्वर्ड् साकस्य पितरौ मूलतः पोलेण्ड्-देशस्थौ । ततः अमेरिकादेशम् आगत्य उषितवन्तौ आस्ताम् । अस्य जोनास् एड्वर्ड् साकस्य अध्ययनं न्यूयार्कविश्वविद्यालयस्य वैद्यकीयविद्यालये अभवत् । सः १९३० तमे वर्षे वैद्यपदवीं प्राप्नोत् । १९४० तमवर्षस्य अनन्तरं “सार्वजनिक–आरोग्यविद्यालयमिषिगन् (मिषिगन् स्कूल् आफ् पब्लिक् हेल्त्) तथा वैद्यकीयविद्यालय–पिट्स्बर्ग (पिट्स्बर्ग् स्कूल् आफ् मेडिसिन्) इत्यत्र च शिक्षकरूपेण कार्यम् अकरोत् ।
सः जोनास् एड्वर्ड् साक् अध्ययनकालतः अपि विषाणूनां (वैरस्) विषये आसक्तः आसीत् । ते विषाणवः अतिसूक्ष्माः । तेषां दर्शनम् एलेक्ट्रान्–मैक्रोस्कोप्–द्वारा एव करणीयम् । ते विषाणवः अन्येषां जीविनां शरीरे जीवन्ति । ते परावलम्बिनः । तादृशानां विषाणूनां विषये आसक्तः जोनास् एड्वर्ड् साक् १९४२ तमे वर्षे संशोधन–फेलो प्राप्तवान् । तथा विद्यार्थिवेतनं प्राप्य “इन्फ्लुयेञ्जा”–रोगस्य कारणीभूतानां विषाणूनां विषये संशोधनं कृतवान् । तदनन्तरं “पोलियो-मैलिटिस्”–रोगस्य निवारणस्य उपायानां विषये संशोधनम् आरब्धवान् । सः “पोलियो”–रोगः विश्वे सर्वत्र व्याप्तः रोगः । तस्य रोगस्य कारणीभूताः विषाणवः मुखद्वारा एव शरीरं प्रविश्य मस्तिष्कम् आवृण्वन्ति । तेन “पोलियो”–रोगेण पीडिताः बहवः गुणमुखाः भवन्ति । किन्तु विषाणवः यदि तीव्ररूपेण आक्रमिताः भवन्ति तर्हि नाड्यः सर्वाः क्षीणाः भवन्ति । ततः ते रुग्णाः अतिदुर्बलाः भवन्ति । अयं जोनास् एड्वर्ड् साक् तेषां “पोलियो”–रोगाणूनां विषये गभीरम् अध्ययनम् अकरोत् । एण्डर्स इत्यादयः विज्ञानिनः “पोलियो”–विषाणूनां कृतकरूपेण वर्धने सफलतां प्राप्तवन्तः आसन् । तस्य संशोधनस्य उपयोगं प्राप्य अयं जोनास् एड्वर्ड् साक् तेषां विषाणूनां निश्शक्तकरणस्य विषये अवधानम् अददात् । रोगाणून् सम्पूर्णतया अमारयित्वा रोगकारकाणां नियन्त्रणस्य प्रतिविषम् (आण्टिबाडीस्) महता श्रमेण संशोधितवान् ।१९५२ तमवर्षाभ्यन्तरे संशोधितम् औषधं तदा एव “पोलियो”–रोगेण पीडितेभ्यः बालेभ्यः अददात् । ते बालाः स्वस्थाः अभवन् । तदेव सूच्यौषधम् अरोगिभ्यः बालेभ्यः यदा अददात् तदा तेषु बालेषु “पोलियो”–रोगस्य विरुद्धं रोगनिरोधकशक्तिः अवर्धत । तदनन्तरं १९५४ वर्षादारभ्य “पोलियो”–रोगस्य औषधम् अधिकप्रमाणेन उत्पादयितुम् आरब्धवान् । सः विषयः विश्वाद्यन्तं बहुशीघ्रं प्रसृतः । “पोलियो”–रोगस्य निवारणस्य अनन्तरं सः जोनास् एड्वर्ड् साक् “क्यान्सर्”–रोगस्य परिहारस्य विषये संशोधनम् आरब्धवान् ।