तिरुक्कुरळ्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

तमिळ्साहित्यक्षेत्रे सङ्घकालसाहित्यानि एव अति पुरातनानि सन्ति । तेषु अष्टादशग्रन्थानां सङ्ग्रहः अस्ति “ पदिनेण् कीळ् कणक्कु “ । तेषु अन्यतमं “ तिरुक्कुरळ्“(Tirukkural) अस्ति । तिरुक्कुरळ् लोकप्रसिद्धः तमिळ्ग्रन्थः अस्ति । तस्य लेखक: तिरुवळ्ळुवर् अस्ति । एषः ग्रन्थः जीवनरीतिं बोधयति । मानवानां लौकिक-अलौकिक-जीवनस्य प्रवर्तनार्थं ये अंशाः मूलभूताः सन्ति तेषां विषये विवरणं करोति एषः ग्रन्थः । धर्मः , अर्थः , कामः इति त्रिभिः विभागैः विभक्तः अस्ति एषः ग्रन्थः । तिरुकुरळ् ग्रन्थस्य कालः न ज्ञायते । प्रायः २००० वर्षपुरातनम् इति अनुमीयते । मरैमलैअडिगळ् नाम कश्चन तमिळ्पण्डितस्य संशोधनकारणेन , तमिळ्नाडुराज्ये वर्षाणि सूचयितुं “ तिरुवळ्ळुवर् वर्षम् “ इति उपयुज्यते । तिरुवळ्ळुवरवर्षापेक्षया समान्यवर्षः ३१ वर्षैः अधिकः भवति । तिरुक्कुरळ् ग्रन्थः संस्कृतग्रन्थानाम् आधारेण लिखितः अस्ति इति केचन कथयन्ति , तिरुवळ्ळुवरस्य स्वचिन्तनम् इति केचन कथयन्ति । अपि च तिरुक्कुरळ् ग्रन्थस्य विचाराः लोकस्य इतरश्रेष्ठग्रन्थैः सह तोललामः चेत् सामान्यांशान् अभिज्ञातुं शक्नुमः ।

ग्रन्थविभागाः[सम्पादयतु]

तिरुक्कुरळ् धर्मः , अर्थः , कामः इति त्रिधा विभक्तः अस्ति । त्रयः विभागाः अपि पुनः “ इयल् “ नाम्ना विभज्यन्ते । प्रत्येक इयल् मध्ये कतिचन सङ्ख्याकाः अधिकाराः अन्तर्भवन्ति । प्रत्येकस्मिन् अधिकारे दश श्लोकाः भवन्ति । प्रत्येकं श्लोकः अपि “ कुरळ् वेण्बा “ नाम रचनाशैल्या भवति । कुरळ्वेण्बाशैल्यां प्रथमपादे ४ पदानि ; द्वितीय पादे ३ पदानि भवन्ति । एतादृशः अपरः ग्रन्थः अस्ति । तस्य नाम अपि तिरुक्कुरळ् एव । कुरळ्वेण्बाभिः रचितः इत्यतः तिरुक्कुरळ् इति नाम आगतम् । ग्रन्थारम्भे मङ्गलाचरणं नाम अधिकारः अस्ति । तदनन्तरम् “ आकाश विशेषः “ , “ त्यागिनां- यशः “ , “ धर्मचिन्तनं “ नामकाः अधिकाराः वर्तन्ते । पुनश्च अस्मिन् ग्रन्थे धर्मनामके विभागे गृहस्थाश्रमत्वं , संन्यासाश्रमत्वम् इति भागद्वयं विद्यते । तत्र गृहस्थाश्रमविषये २१ अधिकाराः सन्ति , संन्यासाश्रमविषये १३ अधिकाराः, धार्मिकबोधनार्थं ३४ अधिकाराः सन्ति । तथैव अर्थविभागे शासनविषये २५ अधिकाराः , मन्त्रिणां विषये ३२ अधिकाराः , गोपननामके विभागे १३ अधिकाराः एवम् आहत्य ७० अधिकाराः सन्ति । कामविभागे आहत्य २५ अधिकाराः सन्ति । आहत्य अस्मिन् ग्रन्थे १३३ अधिकाराः , प्रत्येकाधिकारे अपि १० श्लोकाः एवम् रीत्या आहत्य १३३० श्लोकाः सन्ति ।

तमिळ्वेदः[सम्पादयतु]

जीवनस्य सर्वविषयान् अपि सूचयति इति कारणेन ज्येष्ठाः एतं ग्रन्थं “ तमिळ्वेदः “ इति कथयन्ति । “ देवग्रन्थः “ , “ तिरुवळ्ळुवं “ , “ उत्तरवेदः ” , “ लोकस्य वेदः “ इति बहुधा आह्वयन्ति जनाः एतं ग्रन्थम् । अस्य ग्रन्थस्य विषयः काल-देश-लिङ्ग-समय-भाषा इत्यादिसीमाः अतिरिच्य सर्वान् बोधयति इति कारणेन लोकस्य वेदः इति कथ्यते ।

अनुवादाः[सम्पादयतु]

तमिळ्भाषां विहाय भारतीयभाषासु गुजराती , हिन्दी , कन्नड , कोङ्कणी , मलयाळम् , ओरिया , मराठी , पञ्जाबी , राजस्थानी , संस्कृतं , सौराष्ट्रभाषा , तेलुगु इत्यादिभिः १३ भाषाभिः एतस्य ग्रन्थस्य अनुवादः कृतः अस्ति । एशियाखण्डस्य इतरभाषासु तन्नाम अरब्बी , बर्मिया, चैनी , बिजियन् , इण्डोनेशियाभाषा , जपनीस् भाषा , कोरियभाषा , मलय् , सिंहळी , उर्दुभाषा इत्यादिभिः १० भाषाभिः अनुवादः कृतः अस्ति । युरोपीयभाषासु चेक् , डच् , आङ्ग्लं ,बिन्न्नियभाषा , फ्रेञ् , जर्मानिय भाषा , अङ्गेरिय भाषा , इट्टालीय भाषा , लत्तीन् भाषा , नार्वेभाषा , पालीय भाषा , रष्यभाषा , एसुप्पनियं , सुवीडिय भाषा इत्यादीषु १४ भाषाभिः अनुवादः कृतः अस्ति ।

भाष्याणि[सम्पादयतु]

पूर्वं एतस्य ग्रन्थस्य कृते बहवः पण्डिताः भाष्यं लिखितवन्तः । तेषु प्रसिद्धं , सर्वैः उपयुज्यमानम् अस्ति परिमेळ्ळगस्य भाष्यम् । आधुनिककाले अपि बहवः भाष्यं लिखितवन्तः सन्ति । तेषु मु . वरदराजवर्यस्य भाष्यं विशिष्टम् अस्ति । लोके अधिकभाषासु अनुवादकृतेषु ग्रन्थेषु तिरुक्कुरळ् ग्रन्थस्य तृतीयं स्थानम् अस्ति । एतावत्पर्यन्तं ८० भाषाभिः अनुवादः कृतः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तिरुक्कुरळ्&oldid=283659" इत्यस्माद् पुनः प्राप्तिः