दुरानीसाम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१७४८ तमे वर्षे अफघानिस्तानस्य नायकः अह्मद् शा दुरानी अस्य साम्राज्यस्य स्थापनम् अकरोत् भारते । तदवसरे सः हिन्दूनां विरुद्धं "जिहाद्"युद्धं घोषयित्वा सिन्धुनद्याः क्रमणम् अकरोत् । सः प्रथमं भारतस्य गुरिलाहोरस्य (इदानीन्तनपाकिस्तानस्य भागः) उपरि १७५० तमे वर्षे आक्रमणम् अकरोत् । अनन्तरं पञ्जाब्-प्रान्तं, काश्मीरं, देहलीं च वशीकृतवान् । भारततः तदा एव बहूनि अत्यमूल्यानि वस्तूनि स्वदेशम् अनयत् सः । तेषु "कोहिनूर् वज्रम्" अपि अन्तर्भूतम् ।

"https://sa.wikipedia.org/w/index.php?title=दुरानीसाम्राज्यम्&oldid=431036" इत्यस्माद् प्रतिप्राप्तम्