पलाण्डुः
अयं पलाण्डुः भारते अपि वर्धमानः कश्चन कन्दविशेषः । अयं पलाण्डुः अपि सस्यजन्यः आहारपदार्थः । अयं पलाण्डुः आङ्ग्लभाषायां onion इति उच्यते । एषः पलाण्डुः कदाचित् शाकत्वेन कदाचित् आहारोपस्कररूपेण वा उपयुज्यते । अनेन पलाण्डुना क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एषः पलाण्डुः शाकान्नस्य, चित्रान्नस्य, पृथुकस्य, उपमायाः इत्यादीनाम् उपहाराणां निर्माणे अपि उपयुज्यते । एषः पलाण्डुः अपि बहुवर्णीयः भवति । तत्र रक्तवर्णस्य श्वेतवर्णस्य च पलाण्डुः प्रसिद्धः अस्ति । इदं पलाण्डुसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं प्रायः जगति सर्वत्र वर्धते एव । अस्य कन्दाः, पर्णानि (सस्यम्) चापि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । अस्मिन् कश्चन तैलांशः भवति । अस्य कन्देषु “गन्धकः” अपि भवति । अस्य कन्दस्य त्वचि पीतवर्णीयः कश्चन वर्णपदार्थः भवति ।
[सम्पादयतु] इतरभाषाभिः अस्य पलाण्डुसस्यस्य नामानि
इदं पलाण्डुसस्यम् आङ्ग्लभाषयाOnion Plant इति उच्यते । अस्य सस्यशास्त्रीयं नाम Allium Cepa अथवा A. Porrum अथवा A. Ascalonicum इति अस्ति । हिन्दीभाषया प्याज्” इति, तेलुगुभाषया“नीरुळ्ळि” इति, तमिळ्भाषया “वेङ्गायि” इति, मलयाळभाषया “ईरुळ्ळि” इति, बेङ्गालीभाषया प्याज् इति, गुजरातीभाषया“दुङ्गारि” इति, मराठीभाषायां “काण्ड” इति, कन्नडभाषया “ईरुळ्ळि” अथवा “उळ्ळागड्डे” इति उच्यते ।
[सम्पादयतु] आयुर्वेदस्य अनुसारम् अस्य पलाण्डुसस्यस्य प्रयोजनानि
अस्य रसः कटुः । अस्मिन् पलाण्डुकन्दे विद्यमानं तैलम् उत्तेजकम् । पलाण्डुकन्दः मूत्रलः, कफनाशाकः च ।
- अयं पलाण्डुः वमनं निवारयति । बाह्योत्तेजकम् अपि ।
- पलाण्डुं भर्जयित्वा रसं निष्पीड्य मधुना सह सेव्यते चेत् तत् वाजीकरं भवति ।
- अस्य पलाण्डोः लवणेन सह उपयोगः ज्वरे, नेत्रदोषे, कासे, श्वासरोगे च क्रियते ।
- उदरवेदनायां स्कर्वीरोगे चापि पलाण्डुः हितकरः ।
- व्रणानां, पिटकानां वा उपरि पलाण्डुं भर्जयित्वा लेपनेन ते अपगच्छन्ति ।
- अतिसारे, उष्णसम्बद्धेषु रोगेषु च अस्य रसः उपयुज्यते ।
- कर्णवेदनायाम् अपि पलाण्डुः हितकरः ।
- मूलव्याधौ पलाण्डुघृतं (२ – ४ चमसमितम्) उपयोक्तव्यम् ।