प्रवेशद्वारम्:योगदर्शनम्/उत्तमलेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगवान् महावीरः

जैनदर्शनं

भारतीयदर्शनेषु अन्यतमं वर्तते । चार्वाकविचारधाराया अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति दृष्टिकोणस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् । वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति' । अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्वते । तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति । जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति । स भौतिकपदार्थवत् अनित्योऽस्ति ।

(अधिकवाचनाय »)