माता अमृतानन्‍दमयी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
माता अमृतानन्‍दमयी

माता अमृतानन्‍दमयी ( मलयालम्: മാതാ അമൃതാനന്ദമയി) इत्याख्या सुधामणिः२६ सितम्‍बर, १९५३ तमे वर्षे केरल प्रदेशे जाता। सा एका विख्‍याता धर्मगुरु: अस्‍ति। तस्‍या: इष्‍ट-देवता भगवान् कृष्‍णः अस्‍ति। तस्याः अनुयायिनः ताम् "अम्मा ", "अम्माची", "मा" इति वा अभिजानन्ति । तया कृतानां समाजोद्धारकार्यार्थम् अध्यात्ममार्गदर्शनाय च तया व्यापकरूपेण जनादरः प्राप्तः अस्ति । प्रेमोन्मादेन युक्तेषु साधुजनेषु अन्यतमा इत्यपि सा निर्दिश्यते । माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी वदति यत् - अम्मायाः अन्येषां दुःखनिवारणम् एतावत् सहजं यत् स्वस्य नेत्रयोः अश्रुनिवारणमिव । अन्यस्य आनन्दे सा आनन्दम् अनुभवति । अन्यस्य सुरक्षाकल्पने सा आत्मनः सुरक्षतां मन्यते । अन्यस्य विश्रामसुखे स्वस्य सुखमनुभवति । स्वस्य जीवनं मानवजागृतेः निमित्तं समर्पितवती अस्ति सा ।

अन्तर्विषयाः

[सम्पादयतु] जीवनम्

माता अमृतानन्दमय्याः जन्म भारते केरलराज्ये कोल्लम्मण्डले अलप्पढे पर्यकडवुग्रामे (अधुना इदम् अमृतपुरी इति अपि अभिज्ञायते) १९५३तमे वर्षे सेप्टेम्बर्मासस्य २७ तमे दिनाङ्के अभवत् । तस्याः नाम आसीत् सुधामणि इदमन्नेल् इति । स्वस्य नवमवयसि एव तया विद्यालयगमनं निषिद्धं जातम् । तदारभ्य सा स्वस्य सहोदराणां पालने रता जाता । एतेन सह सा धेनूनां मेषाणां च पालनं करोति स्म । तेषु दिनेषु महती निर्धनता आसीत् । अन्येषां कष्टानि दृष्ट्वा अत्यधिकं दुःखम् अनुभवति स्म माता । तेभ्यः निर्धनेभ्यः गृहस्य आहारवस्तूनि, वस्त्राणि च कदाचित् यच्छति चेत् गृहजनाः क्रुद्धाः सन्तः तां निन्दन्ति स्म । दण्डयन्ति स्म यतः गृहे अपि निर्धनता आसीत् । कदाचित् अम्मा अन्यान् समाहितान् कर्तुं तान् आलिङ्गति स्म । किन्तु तस्मिन् काले १४ वर्षीयया बालिकया अन्येषां पुरुषाणां स्पर्षः निषिद्धः आसीत् । अतः पितरौ तस्यै क्रुद्ध्यतः स्म । तथापि माता तथैव व्यवहरति स्म । आलिङ्गनविषये माता एवं वदति स्म - 'अयं पुरुषः वा महिला वा इति मया कदापि न चिन्त्यते स्म । कमपि अहम् आत्मनः भिन्नं न पश्यामि । संसारस्य समग्ररचनायां काचित् प्रेमधारा निरन्तरं प्रवहति । प्रेम्णा आलिङ्गनं मम जन्मजातस्वभावः । चिकित्सकः कश्चन रोगिणाम् उपचारे यथा उद्युक्तः भवेत् तथा अहं सम्पीडितानां सान्त्वनं करोमि' इति । उनके माता-पिता द्वारा उनके विवाह के अनेकों प्रयासों के बावजूद भी अम्मा ने सभी निवेदकों को अस्वीकार कर दिया.[7] 1981 में, जब अनेकों जिज्ञासु पर्यकडवु में आकर अम्मा के शिष्य बनने के लिए उनके माता-पिता की संपत्ति में रहने लगे तो, एक विश्वस्तरीय संगठन, माता अमृतानंदमयी मठ की स्थापना की गयी.[8] अम्मा इस मठ की अध्यक्ष थीं. आज माता अमृतानंदमयी मठ अनेकों आध्यात्मिक और धर्मार्थ गतिविधियों में संलग्न है.[9] तस्याः विवाहनिर्वर्तनाय तदीयौ पितरौ बहुविधप्रयासम् अकुरुताम् । किन्तु तया सर्वमपि निराकृतम् । तस्याः अध्यात्मासक्तिः दिने दिने वर्धमाना आसीत् । सा परमा कृष्णभक्ता आसीत् । १९८१ तमे वर्षे बहवः जिज्ञासवः मात्रा सह मेलनाय पर्यकडवुग्रामम् आगताः । तदा किञ्चन विश्वस्तरीयं सङ्घटनं संस्थापनीयमिति निर्णीतम् । अद्यत्वे माता अमृतानन्दमयी मठः प्रमुखम् अध्यात्मसङ्घटनमस्ति । मठस्य अध्यक्षा अस्ति माता अमृतानन्दमयी । १९८७ तमे वर्षे श्रद्धावताम् अनुयायिनाम् अनुरोधकारणतः विश्वे विविधेषु देशेषु कार्यक्रमाणाम् आयोजनाय अनुमतिम् अयच्छत् । आस्ट्रेलिया, आस्ट्रिया, ब्रेजिल्, केनडा, चिली, दुबै, इङ्ग्लेण्ड्, फिन्लेण्ड्, फ्रान्स्, जर्मनी, होलेण्ड्, ऐर्लेण्ड्, इटली, जपान्, केन्या, कुवैत्, मलेशीया, मारिशस्, रीयूनियन्, रशिया, सिङ्गपुर्, स्पेन्, श्रीलङ्का, स्वीडन्, स्विट्सर्लेण्ड्, अमेरिकासंयुक्तसंस्थानम् इत्यादिषु देशेषु तस्याः कार्यक्रमाः पौनःपुन्येन समायोज्यते । भारते प्रतिवर्षं भ्रमणं करोति ।

[सम्पादयतु] दर्शनम्

माता अमृतानन्दमयी

हिन्दुपरम्परायां 'दर्शनम्' इत्येतत् महत्त्वपूर्णं वर्तते । कस्यचित् पवित्रजनस्य पवित्रवस्तुनः दर्शनं मन्दिरे ईश्वरस्य दर्शनम् इव । कस्याश्चित् देवतायाः दर्शनेन स्वस्य नेत्राभ्यां देवतायाः शक्तिग्रहणं करोति । अतः दर्शनकर्तुः सौभाग्यं कल्याणम् अनुग्रहञ्च वर्धयितुं दर्शनदातुः सामर्थ्यं भवति । अम्मायाः अनुयायिनः अस्य शब्दस्य प्रयोगं विशिष्टरीत्या कुर्वन्ति । प्रेमपूर्वकम् आलिङ्गनद्वारा प्राप्यमाणम् अनुग्रहं निर्दिश्य वदन्ति ।

अम्मा स्वस्य किशोरावस्थातः अपि एवं दर्शनं यच्छति । इयं प्रथा कथम् आरब्धा इति विषये सा एवं वदति - 'जनाः मत्समीपम् आगत्य स्वस्य समस्याः कथयन्ति स्म, रुदन्ति स्म । अहं तेषाम् अश्रूणां मार्जनं करोमि स्म । ते रुदन्तः समीपं यदा आगच्छन्ति तदा अहं तान् दृढम् आलिङ्गामि स्म । अन्या व्यक्तिः अपि इदमेव आचरति स्म, एवम् इयं प्रथा आरब्धा' इति । माता अमृतानन्दमयीमठस्य इतिवृत्ते उच्यते यत् एतावता आविश्वे तया २९,००,००,००० जनाः आलिङ्गिताः इति ।

२००२ तमे वर्षे सा पृष्टा - 'भवत्याः आलिङ्गने तादृशं किमस्ति यत् जगतः पीडानिवारकं विद्यते ?' इति । तदर्थं मात्रा एवमुक्तम् - 'जगतः समस्याः १००% मया परिह्रियन्ते इति मया न उच्यते । जगतः परिवर्तनं नाम शुनकपृच्छस्य ऋजूकरणमिव एव । किन्तु जनैः एव समाजः निर्मितः भवति, अतः जनाः प्रभाविताः यदि स्युः तर्हि समाजः परिवर्तितः भवति एव । ततः जगतः परिवर्तनं शक्यम् । किन्तु समग्रं परिवर्तनम् अशक्यमेव । यतः व्यक्तेः मस्तिष्के प्रचाल्यमानं युद्धमेव वास्तविकयुद्धस्य हेतुः । अतः यदि जनानां स्पर्शः शक्यः तर्हि विश्वस्य स्पर्शः अपि शक्यः' इति ।

इदं दर्शनम् एव अम्मायाः जीवनस्य केन्द्रमस्ति । १९७० तमात् वर्षात् सा इदं निरन्तरं कुर्वती अस्ति । आगन्तॄणां सङ्ख्या अपि दिने दिने वर्धमाना अस्ति । कदाचित् अम्मा २० घण्टाः यावत् निरन्तरं दर्शनं यच्छन्ती भवति । २००४ तमे वर्षे प्रकाशिते 'अम्मास् हार्ट्' इत्येतस्मिन् पुस्तके अम्मा वदति - 'यावत्पर्यन्तं मम हस्तौ मत्समीपम् आगन्तॄणां समीपस्वीकरणे समर्थौ भवतः, रुदतः व्यक्तेः स्कन्धे सान्त्वयितुं हस्तौ समर्थौ, रुदतः जनस्य अश्रुमार्जने समर्थौ तावत् पर्यन्तम् अम्मा दर्शनं ददती एव भवति । इयमेव अम्मायाः इच्छा' इति ।

'दि टैम्लेस् पाथ्'इत्येतस्मिन् पुस्तके लेखकः अम्मायाः वरिष्ठशिष्यः स्वामी रामकृष्णानन्दपुरी लिखितवान् - 'अम्मायाः द्वारा दीयमानं बोधनं वेदेषु उपदिष्टम् अनन्तरं भगवद्गीतायां प्रदत्तं बोधनमिव' इति । अम्मा वदति - 'कर्म, ज्ञानं, भक्तिः - इदं त्रयमपि बहु आवश्यकम् । भक्तिः कर्म च एकस्य पक्षिणः पक्षद्वयं चेत् ज्ञानं तस्य नाडी इव । एतेषां त्रयाणां साहाय्येन एव पक्षी उपरि उड्डेतुं शक्नोति । सर्वेषां विभिन्नधर्माणां प्रार्थनानाम् अध्यात्मिकपरिपाटीनां च एकमात्रोद्देशः नाम मस्तिष्कस्य निर्मलीकरणम् । एतेन सहैव अम्मा ध्यानम्, कर्मयोगाधारिताः क्रियाः, परोपकारः, करुणा, धैर्यं, दया, आत्मनिग्रहः इत्यादीनां गुणानां विकासाय महत्त्वं यच्छति । एतेषां गुणानाम् अभ्यासेन मस्तिष्कं परिष्कृतं भवति । ततः अन्तिमसत्यम् आत्मसात् कर्तुं योग्यता प्राप्यते । अन्तिमसत्यमिदमस्ति यत् अस्माकम् अस्तित्वं शरीरमनसोः परिधौ सीमितं नास्ति । अपि तु आनन्दमयचेतनस्वरूपं वर्तते । अस्य ब्रह्माण्डस्य अन्तः गुप्तरूपेण कार्यं करोति । इयमेव जीवन्मुक्तिः । जीवन्मुक्तिः इत्येषा मृत्योः अनन्तरं प्राप्तव्या काचित् अवस्था न । इयं समचित्तता । अस्मिन्नेव शरीरे स्वात्मना सह एकीभूय उच्चतमस्य सत्यस्य अनुभवः प्राप्तुं शक्यः । एतस्य प्राप्तेः अनन्तरं पुनः जन्मस्वीकरणस्य आवश्यकता न भविष्यति' इति ।

[सम्पादयतु] सेवाकार्याणि

अम्मायाः विश्वव्यापीसङ्घटनद्वारा निर्धनानां कृते १,००,००० गृहाणि, अनाथाश्रमत्रयं, प्राकृतिकविपत्तौ पुनर्वसतिनिर्माणं, निश्शुल्कवैद्यकीयव्यवस्था, विधवानाम् असमर्थानां च कृते मासिकधनव्यवस्था, परिसरसंरक्षणकेन्द्रम्, मलिनवसतीनां नवीकरणम्, वृद्धाश्रमाः, निर्धनानां वस्त्रभोजनादिव्यवस्था च कृताः वर्तन्ते । एताः परियोजनाः बहुभिः सङ्घटनैः सम्मिल्य क्रियते - माता अमृतानन्दमयी मठ (भारतम्), माता अमृतानन्दमयी सेण्टर् (अमेरिकासंयुक्तसंस्थानम्), अम्मा-यूरोप्, अम्मा-जापान्, अम्मा-केन्या, अम्मा-ऑस्ट्रेलिया इत्यादयः । एतानि सङ्घटनानि सम्मिल्य जगत् आलिङ्गति इव रूपं प्राप्नुवन्ति सन्ति ।

अधिकांश कार्य स्वयंसेवकों द्वारा आध्यात्मिक अभ्यास के रूप में किया जाता है. "यह अम्मा की इच्छा है कि उनके सभी बच्चे इस विश्व में प्रेम और शांति के प्रसार के लिए अपना जीवन समर्पित कर दें. अम्मा कहती हैं "ग़रीबों तथा पीड़ितों के लिए सच्ची करुणा ही ईश्वर के प्रति सच्चा प्रेम और भक्ति है." "मेरे बच्चे उन्हें भोजन कराते हैं जो भूखे हैं, ग़रीबों की सहायता करते हैं, दुखी लोगों को सांत्वना देते हैं, पीड़ितों को राहत पहुंचाते हैं और सभी के प्रति दानशील हैं.

अधिकांशकार्याणि स्वयंसेवकानां द्वारा अध्यात्माभ्यासरूपेण कार्यते । अम्मा इच्छति यत् स्वस्य पुत्राः सर्वे प्रेम-शान्त्योः प्रसाराय जीवनसमर्पणं कुर्युः । निर्धनानां पीडितानां च विषयिणी करुणा एव ईश्वरस्य विषयिणी प्रेम भक्तिश्च इति ।

[सम्पादयतु] भजनम्

अम्मा स्वस्य भक्तिसङ्गीताय अपि अतीव प्रसिद्धा अस्ति । तया गीतानां भजनानां सान्द्रमुद्रिकाः शताधिकाः सन्ति । विंशत्यधिकाभिः भाषाभिः उपलभ्यन्ते । तया बहूनि भजनानि रचितानि । तानि पारम्परिकरागेण योजितानि च । भक्तिगीतानाम् अध्यात्मिकाभ्यासरूपेण गायनविषये अम्मा वदति - 'भजनानि एकाग्रतया यदि गीयन्ते तर्हि ततः गायकस्य श्रोतुः प्रकृत्याः कृते च लाभाः भविष्यन्ति । भजनेषु स्थितस्य साहित्यस्य अवगमनेन तथा आचरणाय प्रयासः भवेत्' । अधुनातने जीवने ध्यानद्वारा एकाग्रतायाः सम्पादनं कष्टाय, किन्तु गानद्वारा एकाग्रतां सरलतया सम्पादयितुं शक्यते' इति ।

[सम्पादयतु] पुस्तकप्रकाशनम्

अम्मायाः शिष्याः तया विभिन्नभक्तैः अध्यात्मपिपासुभिः सह कृतान् संवादान् सङ्गृह्य दशाधिकानि पुस्तकानि रचितानि सन्ति । विभिन्नेषु अन्ताराष्ट्रियसभासु तया कृतानि भाषणानि अपि पुस्तकरूपेण प्रकाशितमस्ति । अम्मायाः वरिष्ठशिष्याः स्वामी तुरियामृतनन्दपुरी, स्वामी परमात्मानन्दः, स्वामी कृष्णमित्रानन्दप्राणः इत्यादयः मात्रा सह जातान् स्वीयान् अनुभवान् प्रकाशितवन्तः सन्ति । माता अमृतानन्दमयीमठस्य उपाध्यक्षः स्वामी अमृतास्वरूपानन्दपुरी अम्मायाः जीवनचरित्रम् अलिखत् । माता अमृतानन्दमठद्वारा 'मातृवाणी', चातुर्मासिकी 'इम्मार्टल् ब्लिस्' च प्रकाश्यमाने स्तः ।

[सम्पादयतु] विविधसंस्थासु दायित्वानि

  • संस्थापिका अध्यक्षा च, माता अमृतानंदमयी मठ
  • संस्थापिका, दुनिया को गले लगाते
  • कुलाधिपतिः, अमृता विश्व विद्यापीठम विश्वविद्यालय
  • संस्थापिका, अमृता इंस्टिट्यूट ऑफ मेडिकल साइंसेज (एआईएमएस (AIMS) अस्पताल)
  • पार्लियमेंट ऑफ़ द वर्ल्ड रिलीजन्स, इंटरनैशनल एड्वाइसरी कमेंटी सदस्या
  • द एलिजाह इंटरफेथ इंस्टिट्युट, मेंबर ऑफ़ द एलिजाह बोर्ड ऑफ़ वर्ल्ड रिलीजियस लीडर्स

[सम्पादयतु] पुरस्काराः सम्माननञ्च

  • १९९३, 'प्रेसिडेंट ऑफ़ द हिन्दू फेथ' (पार्लियमेंट ऑफ़ द वर्ल्ड रिलिजन्स)
  • १९९३, हिंदू पुनर्जागरण पुरस्कार (हिंदू धर्म आज )
  • १९९८, केयर एंड शेयर इंटरनैशनल ह्यूमैनिटेरियन ऑफ़ द इयर अवॉर्ड (शिकागो)
  • २००२, कर्म योगी ऑफ़ द इयर (योग जर्नल )
  • २००२, द वर्ल्ड मूवमेंट फॉर नॉनवायलेंस द्वारा अहिंसा के लिए गांधी-किंग अवॉर्ड (यूएन (UN), जेनेवा)
  • २००५, महावीर महात्मा अवॉर्ड (लंदन)
  • २००५, सेंटेनरी लिजेंड्री अवॉर्ड ऑफ़ द इंटरनैशनल रोटैरियंस (कोचीन)
  • २००६, जेम्स पार्क मॉर्टन इंटरफेथ अवॉर्ड (न्यूयॉर्क)
  • २००६, द फिलॉसफर सेंट श्री ज्ञानेश्वर वर्ल्ड पीस प्राइज़ (पुणे)
  • २००७, ले प्रिक्स सिनेमा वेरिट (सिनेमा वेरिट, पैरिस)
  • २०१०, स्टेट यूनिवर्सिटी ऑफ़ न्यूयॉर्क स्वस्य बफैलो कैम्पस्-आवरणे २०१० तमे वर्षे मेमासस्य २५ तमे दिनाङ्के डॉक्टरेट-पदव्या सम्मानिता

[सम्पादयतु] बाह्‍यशृङ्खला

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु