स्विट्झर्ल्याण्ड्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Coat of Arms of Switzerland (Pantone).svg
Flag of Switzerland (Pantone).svg

स्विटजरलैंड यूरोपमहाद्वीपे मध्‍यक्षेत्रे विद्यमानः देश: । स्विट्झर्ल्याण्ड् (जर्मन् श्वैट्स Schweiz फ्रेञ्च् सुवीस् Suisse इटालियन् स्वीट्सेरा Svizzera) अधिकृततया स्विस् संयुक्तसंस्थानम् (ल्याटिन् भाषया कान्फे़डेराट्यो हेल्वेटिका, अतः अस्य ISO राष्ट्र सङ्केतत्वेन CH एवं CHE इति स्वीकृतम् अस्ति ।) परितः भूप्रदेशेन आवृतः पर्वत प्रदेशः, जनसंख्या तावत् ( २००९ वर्षस्य ) ७.७ दशलक्षमिता, ४१,२८५ कि.मी विस्तीर्णम् अवाप्य स्थितं पश्चिमयुरोपप्रदेशस्य राष्ट्रमेतत् । स्विट्झर्ल्याण्ड् कयाण्टन् इति नाम्ना प्रसिद्धानि २६ राज्यानि अवाप्य संयुक्तगणराज्यमभवत् । ‘बर्न’ राज्यस्य अधिकारकेन्द्रम् । अस्य देशस्य द्वे जागतिके महानगरे नाम जिनीवा, एवं ज्यूरिच् । स्विट्झर्ल्याण्ड्राष्टस्य प्रतिजनम् आयः GDP $ 67,384 अस्ति इत्यतः समग्रदेशीय-उत्पन्नस्य आधारेण विश्वस्य अत्यन्तसम्पन्नराष्ट्रेषु अन्यतमम् इति परिगणितम् अस्ति । ज्यूरिच् तथा जिनीवा नगरे अनुक्रमेण विश्वे द्वितीयं तथा तृतीयम् उन्नतजीवनश्रेण्या श्रेयाङ्किते नगरे स्तः । स्विट्झर्ल्याण्ड् देशस्य उत्तरे जर्मनी, पश्चिमे फ्रान्स् , दक्षिणे इटली एवं पूर्वे लियेकटेन्स्टीन् ,तथा आष्ट्रियादेशः सीमारुपेण सन्ति । एषः देशः दीर्घकालात् अलिप्तनीतिं स्वनीतित्वेन स्वीकृतवान् अस्ति । १८१७तमवर्षात् एतेन देशेन कस्मिन् अपि युद्धे भागह् न स्वीकृतः अस्ति । रेड्क्रास्, विश्ववाणिज्यसङ्घटना एवं यु.एन् सदृशानाम् सङ्घटनानाम् ऐरोप्यशाखासु एकां शाखाम् अवाप्य अनेकेषाम् अन्ताराष्ट्रियसङ्घटनानाम् आतिथेयत्वं प्राप्तवान् अस्ति । यद्यपि एतेन राष्ट्रेण ऎरोप्यराष्ट्रसङ्घस्य सदस्यत्वं न प्राप्तं . तथापि षेङ्गन् नियमानां बद्धता अस्ति । अनेन जर्मन्, फ्रेञ्च्, इटालियन्, तथा इति चतस्रः भाषाः राष्ट्रभाषारुपेण स्वीकृताः सन्ति । अतः एव स्विट्झर्ल्याण्ड् बहुभाषिकं राष्ट्रम् । राष्ट्रस्य औपचारिकं नाम जर्मन् भाषया Schweizerische Eidgenossensschatt फ्रेञ्च्अभाषया confederation Suisse इटालियन् भाषया confederazione Svizzera रोमन् भाषया confederaziun Svizra इति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड् स्थापना तावत् १२९१तमवर्षस्य आगस्टमासस्य प्रथमदिनाङ्के अभवत् । अतः स्विट्झर्ल्याण्ड् देशस्य राष्ट्रियदिनं तस्मिन् दिने आचरन्ति ।

अन्तर्विषयाः

स्विट्झर्ल्याण्ड् शब्दस्य व्युत्पत्तिः[सम्पादयतु]

स्विट्झर्ल्याण्ड् इति आङ्लनाम्नः स्विट्झर् इति भागः षोडशशतकात् नवदशशतकं यावत् स्विस्देशस्य कृते प्रयोगे आसीत् । इदानीं तत् पदं प्रयोगे नास्ति । तस्य एव रुपान्तरितं ’स्विट्झर’ पदं स्वीकृत्य संयुक्तपदं ‘स्विट्र्ल्याण्ड्’ पदं जातम् । आंग्लपदं स्विस्’ इति यत् तत्तु फ्रेञ्च्भाषया स्वीकृतं Suisse इत्यस्मात् । षोडषशतकात् प्रयोगे स्थितं गुणवाचकम् इदम् । जर्मन् भाषयाsuittes शब्दस्य अर्थः ‘दहनार्थंम् इति । सुडान् नगरं स्थापयितुम् अरण्यदहनं यत् कृतम् तस्य स्मरणार्थ एतत् पदं स्वीकृतं स्यात् । अनन्तर तदेव व्यापकं सत् वयाण्टन् प्रभुत्वे स्थितेषु सर्वप्रदेशेषु विस्तृतम् स्यात् ।

नेपोलियन् युगः[सम्पादयतु]

१७९८ तमे वर्षे फ्रेञ्चक्रान्तिसेना स्विट्झर्ल्याण्ड् देशं वशीकृत्य एकीकृतसंविधानं तस्योपरि उपस्थापितवती । एषा राष्ट्रस्य शासनम् एकीकृतम् अकरोत् । तस्य परिणामेन कयाण्टन् व्यवस्था निष्कासिता । एवं मुल्हासन्, वाक्टेल्लिका,खातौ स्विट्झर्ल्याण्ड्तः पॄथक् जातौ ।‘ हेल्वेटिक् गणराज्यम्’ इति नाम्ना नूतनप्रभुत्वम् अपख्यातिम् अवाप्नोत् । अनेन शतकेभ्यः या संस्कृतिः आसीत् सा नष्टा अभवत् । स्विट्झर्ल्याण्ड्देशः केवलं फ्रेञ्चपराधीनराष्ट्रमभवत् । १७९८ तमे वर्षे निड्वाल्डेन संग्रामः सेनाशासनस्य विरोधे स्थानिकनिवासिनां स्पष्टम् उदाहरणं भवितुमर्हति । फ्रान्स् तथा तस्य विरोधिनां मध्ये यदा युध्दमारब्धम् तदा रशिया आष्ट्रिया सैनिकाः स्विट्झर्ल्याण्ड्देशं स्वाधीनं कृतवन्तः । १८०३ तमे वर्षे नेपोलियन् गणद्वयस्य प्रमुखः स्विस् राजकारणिनः अहुय प्यारिस् मध्ये सन्धानं कारितवान् । अनेन मध्यवर्तिशासनस्य आचरणम् अभूत् । स्विस् स्वायत्तता युक्तं १९ संयुक्तकयांटन् शासनस्य परिचयः अभवत् ।१८१५ तमे वर्षे वियेन्ना शासनम् स्विस् स्वातन्त्र्यं पुनः अस्यापयत् । ऎरोप्यशक्तयः स्विस् अलिप्तनीतिम् अन्ते स्वीकृतवन्तः । १८६० गेटा संग्रामस्यानन्तरं सन्धाने वलायिस्, न्ययाटेल् एवं जिनीवा कयांटन स्विस् वशे आगतम् ततः प्रभृति स्विट्झर्ल्याण्ड् देशस्य सीमा(व्यत्यस्ता न अभवत्) तथैव वर्तते ।

स्विस् संयुक्तराष्ट्रम्[सम्पादयतु]

युरोप् देशस्य इतरे देशाः यदा क्रान्तिसंग्रामयोः मध्ये यदा श्रान्ताह् आसन् तदास्विस् जनाः अमेरिकाशैल्या प्रेरिताः सन्तः संयुक्तव्यवस्थायाः वास्तविकसंविधानरचने निमग्नाः आसन्। संविधानेन अनेन क्याण्टन् मध्ये स्थनीयसमस्यायाः परिहारस्य अधिकारः अपि प्रदत्तः । अन्ये सर्वे अधिकाराः केन्द्रसर्वकारस्य अधीने आसन् । राष्ट्रियसंसदं द्विधा विभज्य उन्नतगृहम् (upper house) एवं निम्नगृहम् (लोवरहौस्) इति विभज्य, संविधानस्य परिष्कारे जनाभिप्रायस्य सङ्ग्रहणम् अवश्यमिति नियमः कृतः । एकीकृतभारमापनस्य तथा मापनव्यवस्थायाः परिचायिता । १८५० तमे वर्षे स्विस् प्राङ्क् स्विस् संयुक्तदेशस्य एकैका नाण्यपध्दितिः इति स्वीकृतवन्तः । संविधानस्य ११ अनुच्छेदः विदेशीयानां कृते सेनासेवायाः निर्बन्धं करोति । १८८२ मध्ये उद्घाटितः गात्यर्ड शकटयानसुरङ्गमार्गः , टिकिनोतः दक्षिणक्याण्टन प्रति सम्पर्कं कल्पयति । संविधानस्य एकः प्रमुखः विधिः एवं वर्तते “यदि अनिवार्यं तर्हि सम्पूर्णतया संविधानं पुनः रचयितुं शक्यते इति । एषः विधिः जनसंख्यायाः आधिक्यानन्तरं तथा उद्यमक्रान्तेः परिणामतया आगतः । १८९१ तमवर्षात् आरभ्य अद्यपर्यन्तम् नैज प्रजाप्रभुत्वस्य दृढ-अंशान् स्वीकृत्य संविधानस्य परिष्कारः कृतः ।

आधुनिकः इतिहासः[सम्पादयतु]

१७ शतकस्य आरम्भे प्रारब्धेन प्रवासोद्यमेन प्रमुखाः मूलभूतव्यवस्थाः निर्मिताः । द्वयोः अपि विश्वसमरयोः द्वे विश्व स्रेमरेऽपि, स्विट्झर्ल्याण्ड्देशः न आक्रान्तः । प्रथमविश्वसमरे स्विट्झर्ल्याण्ड्देशः लेनिन् (व्लाडिमिर इल्लियिच अल्यानोऽव् ) महोदयाय आश्रयम् अयच्छत् । १९१७ पर्यन्तम् सः अत्रैव अवसत् १९२० तमे वर्षे स्विट्झर्ल्याण्ड्देशः “यस्य कस्यापि देशस्योपरि सेनाकार्याचरणे भागं न वहति” इति निबन्धनापूर्वकं जीनीवास्थिते ‘लीग् आफ नेशनस्” सङ्घटने प्रवेशं स्व्यकरोत् । द्वितीय विश्वसमरेऽपि स्विट्झर्ल्याण्ड्देशः जर्मनीदेशेन आक्रान्तः न अभवत् । स्विट्झर्ल्याण्ड् आक्सिस् तथा मित्रदेशयोः मध्ये द्विपक्षीयगुप्तचारस्य सन्धानं जातम् आसीत् । १९४०तमवर्षस्य मे-जूनमासयोः स्विस् वायुसेना मित्रपक्षस्य तथा आक्सिस्देशस्य युध्दविमानैः साकं युध्दं कृत्वा, ११ लुप्टवाटिविमानानि अनाशयत् । प्रहय्यत । १९४५ तमे मार्चमासे , ४ दिनाङ्के बसेल् एवं ज्यूरिय नगरस्योपरि मित्रपक्षाणां कुख्यातः स्फोटकप्रहारः अभवत् । बर्न क्याण्टन् १९७९तमे वर्षे स्विसदेशस्य अधीनम् अभवत् । १९५९ तमे वर्षे स्विस् क्यांटन् मध्ये महिलानां कृते मतदानस्य अवसरः प्रदत्तः । किन्तु केन्द्रस्तरे १९७१ तमे वर्षे मतदानस्य अवसरः कल्पितः । बहुविरोधानन्तरम् अन्तिमक्याण्टन् अप्पेनजल- इन्नरहोण्डनमध्ये १९९० तमे वर्षे अवसरः प्रदत्तः । १९८७ तमे वर्षे एलिजबेत् कोप् ,केन्द्रकार्याङ्गस्य समित्याः प्रथमा महिला सदस्या भूत्वा, १९८९वर्षपर्यन्तम् कार्य निरूढवती । रुत ड्रेप्स् महोदयः १९९९ तमे वर्षे प्रथम अध्यक्षः बभूव । २००७ तमे वर्षे मिषेलिन् कल्मीरे द्वितीया अध्यक्षा अभवत् । सा स्वीये सचिवसम्पुटे /उच्चसमितौ द्वे महिले सदस्यत्वेन (सहोद्योगित्वेन) स्वीकृतवती । स्विट्झर्ल्याण्ड्देशः युरोप् शासनमण्डले १९६३ तमे वर्षे संयोजितः । १९९९ एप्रील १८ तमे दिने जनसमुदायः एवं कयाण्टन् राज्यानि सम्पूर्णं परिष्कृतं संविधानं स्वीकृतवन्तः ।

राष्ट्रियताप्रदर्शनम्[सम्पादयतु]

२००२ तमे वर्षे स्विट्झर्ल्याण्ड्देशः संयुक्त-राष्ट्र- सङ्घस्य पूर्ण प्रमाणेन सदस्यराष्ट्रम् अभवत् । अनेन व्याटिकन् एकम् एव संयुक्त-राष्ट्रसङ्घस्य सदस्यत्वम् अप्राप्तवत्सु अवशिष्टम् अभवत् । स्विट्झर्ल्याण्ड्देशः (EFTA) इ एफ टि ए स्थापकसदस्यराष्ट्रमस्ति। ऐरोप्य-आर्थिकवलयस्य सदस्यता एतेन देशेन न स्वीकृता अस्ति । १९९२तमवर्षस्य डिसेम्बरमासे इ इ ए (EEA) तिरस्कृतम् अभवत् । अनन्तरम् आर्थिकवलयस्य सदस्यताप्राप्तिविषये प्रयत्नोऽपि स्थगितः। इ.इ.ए विषये जनभिप्रायं पृष्टवत्सु एकैकं राष्ट्रम् अस्ति स्विट्झर्ल्याण्ड्देशः ।

राजकारणम्[सम्पादयतु]

१८४८ तमे वर्षे अङ्गीकृतं केन्द्रसंविधानम् आधुनिककेन्द्रराष्ट्रकल्पनायाः शासनाधारस्य मूलमासीत् । एतत् संविधानं तादृशविश्वव्यवस्थायां द्वितीयम् । १९९९ तमे वर्षे नूतन संविधानम् अङ्गीकृतं तथापि तस्मिन् केन्द्रव्यवस्थासम्वन्धेषु गमनार्हाः नूतनभेदाः न दृश्यन्ते । बर्न् नगरे स्विट्झर्ल्याण्ड् संयुक्त संसत् तथावं स्विस् केन्द्र समितिः (कार्याङ्गः) यत्र कार्य निर्वहति तत् सौधं केन्द्रप्रासाद इति नाम्ना निर्दिशन्ति । स्विस् संसदि द्वे सभे स्तः । प्रतिक्याण्टन्तः निर्देशानुसारं चिताः ४६ प्रतिनिधयः भवन्ति संस्था- समित्याम् । प्रत्येकक्यांटनजनसंख्याधारेण तः २०० सदस्यान् बिभ्रति राष्ट्रियसमितिः । प्रत्येकसभायाः सदस्यानाम् अवधिः ४ वर्षाणि । जनभिप्रायसंग्रहद्वारा शासनस्य विषये आक्षेपं कर्तुं, संविधाने परिवर्तनं कर्तुं अपि जनाः समर्थाः भवन्ति । अतः स्विट्झर्ल्याण्ड् नैजार्थे प्रजाप्रभुत्वराष्ट्रम् इति वक्तुं शक्यते । केन्द्रसमितिः केन्द्रसर्वकारं रचयति एवं केन्द्रं शासनं निर्दिशति । अतः केन्द्रव्यवस्थायाः नेतारः सन्तः सदस्याः कार्यं निर्वहति । एषा समितिः केन्द्रशासनसभायां निर्बाचितसप्तसहोद्योगिसदस्यान् चत्वारिवर्षाणि बिभर्ति । समितेः कार्यशैल्याः उपरि आसनसभायाः परिवीक्षणं भवति । सप्तसदस्येषु एकं केन्द्राध्यक्षरूपेण शासनसभा निर्वाचयति । अध्यक्षः सर्वकारस्य नेतृत्वं निर्वहति तथा प्रतिनिधिकं कार्यमपि करोति । अध्यक्षस्य कोपि विशिष्टः अधिकः अधिकारः नास्ति विभागस्य मुख्यस्थः भूत्वा कार्यं निर्वहति ।२००७ तमे वर्षे केन्द्र समितेः निर्वायने केन्द्र समित्याः सप्त सथानानि एवम् आसन् ।---------

  • समाजवादिप्रजाप्रभुत्ववादिभ्यः -२
  • उदारवादी प्रजाप्रभुत्ववादिभ्यः २
  • स्विस् पीपल्स पार्टी -२
  • क्रैस्तप्रजाप्रभुत्ववादिभ्यः-१

केन्द्र सर्वोय्य न्यायालयः इतर-उच्यन्यायालयस्य न्यायदानस्योपरि स्थितानाम् आक्षेपाणां निवेदनमात्रं परिशीलयति । न्यायादीशः केन्द्रशासनसभाद्वारा ६ वर्षाणां निमित्तं निर्वाचितः भवति ।

नैजप्रजाप्रभुत्वम्[सम्पादयतु]

लेण्डस् जेमिनैड एतत् पुरातनशैल्याः प्रजाप्रभुत्वम् । इदानीं अपि क्याण्टन् द्वये प्रचलितमस्ति । स्विस् नागरिकाः इदानीं त्रयाणां स्तराणां न्यायव्याप्तेः आधीनाः भवन्ति । ते तु, गणः, कयाण्टन् एवं केन्द्रस्तरः । १७४८ तमवर्षस्य केन्द्रीयसंविधानेन नैजप्रजाप्रभुत्वव्यवस्था निरुपिता । पौर-अधिकाराः इति नाम्ना प्रख्याताः एते स्विस् प्रजाप्रभुत्वस्य प्रलेखाः सन्ति। संविधानात्मकशासनाधिकारस्य चालने तथा जनाभिप्रायसंग्रहणस्य अथवा उल्लेखस्य अधिकारं ददति । एतौ सांविधानिकनिर्णयान् परिवर्तयितुं समर्थौ । नागरिकाणां कश्चन समूहः राष्ट्रस्य जनाभिप्रायं संग्रह्य अङ्गीकृतशासनमेकम् अङ्गीकारानन्तरमपि शतदिनाभ्यन्तरे एव, ५०,००० विरोधिजनानां हस्ताक्षरं सङ्गृह्य आक्षेपान् कर्तुं शक्नोति । तदा राष्ट्रियस्तरे अभिप्रायसङ्ग्रहपूवकं बहुमतद्वारा शासनम् अङ्गीकुर्वन्ति अथवा तिरस्कुर्वन्ति । संविधानात्मकव्यत्ययः राष्ट्रिय- जनाभिप्रायद्वारा तथा प्रत्येकराज्यस्य (क्याण्टन्) आन्तरिक-अभिप्रायद्वारा अथवा उभयबहुमतद्वारा भवितुम् अर्हति । स्विझर्लेण्ड देशे २६ क्याण्टन् (राज्यानि) सन्ति । क्याण्टन् तेषां राजधान्यः च एवं सन्ति --

क्र.सं क्याण्टन् राजधानी
अर्गाव् आराव्
अप्पेन्जेल् आस्सरहोडेन् हेरिसाव्
अप्पेन् जेल् इन्नर् होडेन् अप्पेन् जेल्
ग्रामीणम्- (बसेल्) लीस्टल्
बर्न् बर्न्
फैबोर्ग् फैबोर्ग्
जिनीवा जिनीवा
ग्लेरस् ग्लेरस्
ग्रावुबुण्डेन् छुर्
१० ज्युरा डेल्माण्ट्
११ ल्यूसर्ने ल्यूसर्ने
१२ न्यूचाटेल् न्यूचाटेल्
१३ निडवाल्डेन स्टान्
१४ ओबवाल्डेन् सार्नेन्
१५ स्काफ हासेन् स्काफ हासेन्
१६ सोलोथर्न् सोलोथर्न्
१७ सेण्ट्ग्यालेन् सेण्ट्ग्यालेन्
१८ थुर्गौ फानफेल्ड्
१९ टिकिनो बेल्लिन् जोना
२० यूरि आल्टडार्फ
२१ वलायिस् सियान्
२२ वाड् उदाहरण
२३ झुग् लासन्ने
२४ ज्यूरिच् ज्यूरिच्

स्विट्झर्ल्याण्ड्देशे द्वौ पराधीनौ प्रदेशौ स्तः । तयोः बुसिङ्गेन् –जर्मनीदेशस्य वशे अस्ति । क्याम्पियोने डि इटालिया –इटलीवशे अस्ति । वोरार्ल् बर्ग् आष्ट्रियादेशस्य राज्यमासीत् । तत्र १९१९ तमे वर्षे मे २२ तमे दिनाङ्के कृतस्य जनाभिप्रायस्य सङ्ग्रहानुसारं ८०% तः अधिकजनाः स्वराज्यं स्विस् राष्ट्रे विलीनं भवतु इति प्रकटितवन्तः । तथापि एतत् विलीनम् आष्ट्रियासर्वकारेण, मित्रदेशैः, स्विस् उदारवादिभिः अन्यैश्च एषः प्रयत्नः निवारितः ।

अन्ताराष्ट्रियसंस्थाः एवं विदेशिसम्बन्धाः[सम्पादयतु]

राष्ट्रस्यास्य अलिप्तनीतेः कारणतः अनेके अन्ताराष्टियसंस्थाः अत्र स्वपीठान् अत्र स्थापितवन्तः । १८६३ तमे वर्षे ‘रेड्क्रास्’ संस्था अत्र संस्थापिता । संस्थायाः साङ्घिककेन्द्रम् अस्मिन् देशे एव अस्ति । अस्य देशस्य जिनीवा नगरे ऐरोप्य- प्रसारणाकेन्द्रस्य प्रधानकार्यालयः अस्ति । जिनीवा नगरं, संयुक्तराष्ट्रसङ्घस्य द्वितीयं बृहत् केन्द्रम् । न केवलं तावत् संयुक्तराष्ट्रसङ्घस्य उपकार्यालयाः अपि जिनीवा नगरे विद्यन्ते । उदाहरणार्थं विश्व आरोग्य संस्था (WHO) अन्ताराष्ट्रियदूरसम्पर्क केन्द्रम्, एवं अन्ये द्विशताधिक-अन्ताराष्ट्रियसंस्थानां कार्यालयाः अत्र विद्यन्ते ।यथा – अन्तराष्ट्रिय-ओलिम्पिक्-समितिः, ज्यूरिच् मध्ये विद्यमानं अन्ताराष्ट्रीय-साङ्घिकपादकन्दुकक्रीडाकेन्द्रम् ((FIFA) , ऐरोप्यपादकन्दुकक्रीडाकेन्द्रम् (UEFA) अपि अत्रैव अस्ति । विश्व-आर्थिकविपण्याः प्रतिष्ठानं जिनीवा नगरे एव अस्ति । डावोस् मध्ये प्रचाल्यमाना वार्षिकीसभाकारणातः अस्य प्रसिध्दि सर्वत्र वरीवर्तते । अस्यां सभायां अन्ताराष्ट्रियप्रमुखव्यवहारान् तथा राजकीयप्रमुखान् एकत्र संयोज्ज्य आरोग्यपरिसरयोः विषये, विश्वस्य ज्वलन्तीनां समस्यानां च निवारणविषये च (परिहारस्य विषये वा) चर्चा प्रचलति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड्देशः अलिप्त राष्ट्रम् । सेना, राजकीयम् अथवा आर्थिकव्यवहारसम्बन्धि -मैत्रिकार्यात् दूरे एव तिष्ठति । स्वीझर्लेण्ड् देशस्य विस्तरणं यदा अभवत् ततः प्रभृतिः अलिप्तप्रमेतत् । २००२ तमे वर्षे संयुक्तराष्ट्रसंघस्य पूर्ण प्रमाणस्य सदस्यत्वं स्वीकृतं अनेन तदपि जनाभिप्रायसङ्ग्रहद्वारा । स्विट्झर्ल्याण्ड्देशः जगति विद्यमानैः सर्वराष्ट्रैः साकं राजतान्त्रिकसम्बन्धम् अस्यापयत् । स्विट्झर्ल्याण्ड्देशेन ऐरोप्य –राष्ट्रसङ्घस्य सदस्यत्वं एतावता अपि न स्वीकृतम् ।

स्विस् शस्त्रसन्नध्दसैन्यम्[सम्पादयतु]

पदातिदलवायुदले एवम् उभयत्र अपि स्विस् सेनादलम्, प्रमुखतया आग्रहेण नियुक्तसैनिकैः व्याप्तम् अस्ति । वृत्तिपरसैनिकाः सेनादलस्य ५% माव्रं सन्ति । अन्ये सर्वे आग्रहेण नियुक्ताः । २० तः ३४ (विशेषसन्दर्भे ५०) वर्षवयोपरिमितेः नागरिकाः सन्ति । स्विझर्लेण्डभूप्रदेशेन आवृतम् अतः अत्र नौकासैन्यं नास्ति । तथापि सरोवर-प्रदेशानां रक्षणार्थं सेना रक्षणानौकाः उपयुज्यते । व्याटिकन् नगरस्य रक्षणं विहाय विदेशीयानां वा विदेशी सैन्यानां वा सेवा स्विस् नागरिकाणां कृते निषिद्धा अस्ति । स्विस् सैनिकाः शस्त्रास्त्राणि इतरवस्तूनि च स्वगृहे एव स्थापयेयुः इति निर्बन्धः विद्यते । एषः निर्बन्धः विवादात्मकः तथा अपायकारी च इति राजकीयपक्षाः स्वाभिप्रायं प्रकटितवन्तः सन्ति । सेनायां सेवाकरणं स्विस्सर्वपुरुषनागरिकाणां कृते अनिवार्यम् इति निर्बन्धः अस्ति । किन्तु स्त्रियः स्वयं प्रेरणया सेवां कर्तुम् अर्हन्ति ।

वाणिज्यम्[सम्पादयतु]

स्विट्झर्ल्याण्ड्देशः (आधुनिकः) विश्वे अत्यधिकप्रमाणस्य वैयक्तिकस्वायत्त-उदार-आर्थिकव्यवस्थां प्राप्तवान् अस्ति । अतः अत्र आर्थिकस्थिरता अत्र दृश्यते । ऐर्लेण्ड्देशं विहाय स्विट्झर्ल्याण्ड्देशः उन्नत- ऎरोप्यश्रेयाङ्कम् , आर्थिकस्वातन्त्र्यं च व्यक्तेः सार्वजनिकसेवा द्वारा व्यापकतां प्राप्तवान् अस्ति ।, पाश्यात्यदेशानाम् ऎरोप्यदेशानां जापानस्य च अपेक्षया आर्थिकदृष्ट्या अधिकं जिडिपि (GDP) (प्रत्येकस्य व्यक्तेः आयः ) लब्ध्वा, लस्केंबर्ग् नार्वे, कतार, ऎसलेण्ड् ,ऐर्लेण्ड्देशः इत्येतेषाम् अवन्तरस्य षष्ठं (स्थानं) श्रेयाङ्कं प्राप्नोति । ग्रेटरज्यूरिच् प्रदेशे १.५.दशलक्षमिताः उद्योगिनः सन्ति । सहस्त्राधिक- संस्थाः अत्र विद्यन्ते । उन्नतस्तरस्य जीवनशैलीम् अत्र पश्यामः । एङ्गाडिन्खातसदृशन्यून-उद्यमवति आल्फैन्पर्वतप्रदेशे प्रवासोद्यमः आयस्य मुख्यं स्रोतः अस्ति । व्यक्तेः क्रयणसागर्थ्यानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे १५ श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक-सङ्घटनायाः विश्वे १५तमं श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक- सङ्घटनायाः विश्वस्पर्धात्मकता इति वृत्तानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे द्वितीयं श्रेयाङ्कं प्राप्नोति । २० तमे शतके स्विट्झर्ल्याण्ड्देशः युरोप् खण्डस्य अत्यन्तम् आढ्यं राष्ट्रमासीत् । २००५ तमे वर्षे स्विट्झर्ल्याण्ड्देशस्य मध्यमस्तरस्य कौटुम्बिक-आदायः ९५,००० (C.H.F) सि.एच्. एफ. इति परिगणितमासीत् । क्रयणसामर्थ्यानुसारम् एषः ८२,००० यु.एस् डालर्स्. (नवेम्बर् २००८ विनिमयमूल्यानुसारं) भवति । अतिधनिकस्य अमेरिकादेशस्य संस्थानस्य क्यालिफोर्नियाराज्यस्य समानम् एतत् । स्विट्झर्ल्याण्ड्देशः विश्वस्य ५० प्रतिशतं हस्तघटीनाम् उत्पादनं करोति (ओमेगा स्पीडमास्टर् नामिकयोः संस्थयोः चयनम् अपोलो कार्याचरणार्थं कृतम् आसीत् । ) स्विट्झर्ल्याण्ड्देशः अनेकासां बृहत् अन्ताराष्ट्रियसङ्घटनानां मूलस्थानम् अस्ति । आयस्य अनुसारम् अतिबृहत् आर्थिकसङ्घटनाः तावत् ग्लेन्कोर् नेस्ले , नोवार्टिस्, हाफमन् ला-रोके, ए.बि.बि तथा अडेक्को इत्यादयः । गमनार्हाः अन्याः सङ्घटनाः तावत् - युबिएस् एजि(UBS AG), ज्युरिच् वाणिज्यसेवासंस्था, क्रेडित स्यूस्से, स्विस् रे स्वाच् समूहाः च । स्विट्झर्ल्याण्ड्देशः विश्वे अत्यन्तम् सशक्तम् आर्थिकं राष्ट्रम् इति श्रेयाङ्कितम् अस्ति । रासायनिकानि आरोग्यसम्बद्धानि औषधानि, मापन-उपकरणानि, सङ्गीत-उपकरणानि, स्थिरसम्पत्, वित्तकोशव्यवहारः, योगक्षेमव्यवहारः ,प्रवोसोद्यमः, अन्ताराष्ट्रियसंस्थाः स्विट्झर्ल्याण्ड्देशस्य प्रमुखोद्यमाः सन्ति । अत्यन्तं अधिकतया निर्यातः नाम-

  • १ रासायनिकपदार्थाः ( ३४%)
  • २ यन्त्राणि/विद्युन्मान-उपकरणानि (२०.९%)
  • ३ निष्कृष्ट-मापन-उपकरणानि / हस्तघटीयन्त्राणि (१६.९%)

निर्यातसेवाः निर्यातस्य १/३ भागमितं विनिमयं प्राप्नुवन्ति । स्विट्झर्ल्याण्ड्देशे ३.८ दशलक्षजनाः कार्यं कुर्वन्ति । अत्र निरुद्योगसमस्या अत्यन्तं न्यूना ।, निरुद्योग प्रमाणं तावत् २००० तमे वर्षे जूनमासे १.७ प्रतिशतम् आसीत् । २००४ तमे वर्षे सप्टेम्बर् मासे ३.९% अभूत् । विदेशिनागरिकाणां संख्या २००४ तमे वर्षे २२.७% आसीत् । कार्यनिरतप्रतिघण्टम् आयः २७.४४ डालर् आसीत् २००६ तमे वर्षे । स्विट्झर्ल्याण्ड्देशे स्वायत्तवलयस्य आर्थिकता विद्यते। पाश्चात्य मानदण्डस्यानुसारं न्यूनः करः विद्यते । आहत्य अभिवृद्धिशीलदेशेषु अत्यन्तं न्यूनः राजस्वसंग्रहः दृश्यते । उद्यमस्थापनं स्विट्झर्ल्याण्ड्देशे सुलभं सुकरं च । उद्यमस्थापने १७८ राष्ट्रेषु स्विट्झर्ल्याण्ड्देशस्य षोडशं स्थानम् । २००० तमे वर्षे आर्थिकसुधारणा नीतिरङ्गीकृता। ऎरोप्य् राष्ट्रसङ्घेन साकं सामरस्यं समासाधितम् । केवलं ३७ प्रतिशतं जनाः अत्र स्वकीयं गृहं प्राप्तवन्तः । युरोपराष्ट्रेषु एषा अत्यन्तं न्यूनसंख्या इति गमनीयो अंशः । उदारीकरणम् इ.यु राष्ट्रानुगुणं न्यूनम् । तथापि देशीयविक्रयणसामर्थ्यं विश्वे अत्युत्तमम् । स्विट्झर्ल्याण्ड्देशः ऎरोप्यमुक्तवाणिज्यसङ्घस्य (इ.एफ्,टि,ए) सदस्यराष्ट्रम् अस्ति।

शिक्षणं, विज्ञानं तन्त्रज्ञानञ्च[सम्पादयतु]

कतिचन प्रमुखाः स्विस् विज्ञानिनः एते सन्ति- लियोनार्ड् यूलर् (गणितम्) लूयिस् अगस्सिस् (हिमनदी शास्त्रे) अल्बर्ट ऐन्स्टायिन् (भौतशास्त्रे ), अगस्टे पिक्कार्ड् (वायुयानविज्ञाने ) च । स्विट्झर्ल्याण्ड्देशस्य संविधाने शालाशिक्षणव्यवस्था राज्यानाम् अधीनम् इति उक्तत्वात् वैविध्यमयं शिक्षणव्यवस्था अत्र दृश्यते । अत्र अनेकाः स्वायत्त- अन्ताराष्ट्रियशालाः, तथा सार्वजनिकशालाः अपि विद्यन्ते । २०,००० सहस्र जनाः १८ तः २२सप्राहान् यावत् वार्षिकसेनाप्राथमिकप्रशिक्षणे भागं वहन्त्ति । ‘सेनाXXI’ इति सेनासुधारणानियमानुसारम् आहत्य सैनिककर्मकराणां संख्या ४,००,००० तः २०,०००,०० जाता अस्ति । तेषु २,२००,०० जनाः सक्रियसेनाकार्यम् निर्वहन्ति । अन्ये सर्वे आरक्षितसेनाकर्मकराः इति परिगण्यते ।

सेनायां MOWAG ईगल् शस्त्रयुक्तवाहनानि[सम्पादयतु]

स्विट्झर्ल्याण्ड्देशस्य अखण्डताम् अलिप्रतां च रक्षयितुं एतावता समग्रतया त्रीणि शस्त्रसहितकार्याचरणानि विहितानि ।

  • १ १८७० तमवर्षतः १८७१ तमवर्षपर्यन्तं ‘फ्रङ्कोप्रष्यन्’ युध्दसन्दर्भे प्रथमं कार्याचरणम् ।
  • २ १९१४ तमवर्षस्य अगष्टमासे प्रथमविश्वसमरस्य प्रतिक्रयारुपेण द्वितीयं कार्याचरणम् ।
  • ३ १९३९तमवर्षस्य सप्टेम्बरमासे आरब्धं तृतीयकार्याचरणम् तावत् जर्मनीदेशेन पोलेण्ड् उपरि कृतस्य आक्रमणस्य प्रत्याक्रमणमासीत् । तदा हेन्री ग्यूसेन सेनामुख्यस्थः आसीत् ।

अलिप्तनीतेः कारणात् अस्य देशस्य सेना, विदेशीयसेनाकार्ये भागं न वहति । तथापि कदाचित् शान्तिपालनानियोगेषु भागं स्वीकरोति । २००० तमवर्षात् सर्वे स्विस् रक्षणाविभागाः कृतक-उपग्रहाण्णाम् ‘ओनिकस्’ गुप्तचर- विवरणव्यवस्थाम् आप्नोति । शीतलसमरस्य अन्तिमेभागे सैनिक कार्याचरणम् त्यक्तुम् अथवा समग्रसेनासमूहमेव निषेधयितुं प्रयत्नाः आरब्धाः । अस्मिन् विषये १९८९तमे वर्षे नवेम्बर मासे २६ दिनाङ्के कृते जनाभिप्रायसङ्ग्रहणे एषः प्रयत्नः विफलः जातः । तथापि जनानां अभिप्रायः अस्मिन् विषये सकारात्मकः एव आसीत् । किन्तु पुनः ९/११प्रकरणे (अमेरिकादेशे विमानसङ्घट्टनेन यत् भवनद्वयं पातितं तत्) जनाभिप्राय- सङ्ग्रहणे ७७% जनाः पुनः सेनासमूहस्य निषेधविचारम् अधिकृत्य विरुध्दाभिप्रायं प्रकटितवन्तः ।

भूगोलः[सम्पादयतु]

आल्फस् पर्वतश्रोण्याम् उत्तरदक्षिणदिग्भागे विस्तृतः स्विट्झर्ल्याण्ड्देशः केवलं ४१,२८५ च कि.मी.(१५९४० च. मैल्) सीमितव्याप्रौ वैविध्यमयं विशालदृश्यं तथा हितकरं वातावरणम् आप्नोति । सर्वसामान्यजनसान्द्रता प्रति च कि.मी कृते २४० यावत् भवति । एतेन प्रमाणेन आहत्य ७.६ मिलियन् जनाः भवन्ति । राष्ट्रस्य दक्षिणे भागे जनसम्मर्दः तथा नास्ति । उत्तरभागे तथा दक्षिणस्य अन्तिमभागे अधिकजनसम्मर्दः वर्तते । अस्य प्रमुखं कारणं तावत् अत्र भागशः अरण्ययुक्तप्रदेशेन साकम् बृहत सरोवराणि सन्ति एवं आरोग्यकारकः पर्वत- प्रदेशाः सन्ति । स्विट्झर्ल्याण्ड्देशः त्रिविधमूलभूतलक्षणैर्युक्तः अस्ति ।

  • दक्षिणे स्विस् आल्फस्.
  • मध्ये स्विस् पीठभूमिः अथवा ‘मध्यभूमिः ।
  • उत्तरे ज्यूरा पर्वताः च

आल्फस् पर्वताः राष्ट्रस्य ६०% विस्तीर्णम् अवाप्य राष्ट्रस्य दक्षिणार्धपर्यन्तं विस्तृताः सन्ति । स्विस् आल्फस् पर्वतश्रेण्यां उन्नतशिखरेषु, ४६३४ मीटर् औन्नत्यवान् (१५२०३पादमितः) डुपोर्स्विट्स् अत्यन्तम् उन्नतम्। पर्वतः एषः अनेकैः जलपातैः हिमनदीभिः असङ्ख्याकैः खातैः च युक्तः अस्ति । ऎरोप्यनदीषु प्रमुखाः टैन्, टोन्, इन्, आटे टिकिनो नद्यः इतः एव उद्भूय अन्ते जिनीवासरोवरं(लाकलेमन्) ज्य़ूरिच् सरोवरं, न्यूयटेल् सरोवरं, तथा कानस्टान्स् सरोवरं वा प्राप्नुवन्ति । अत्यन्तम् प्रसिध्दः पर्वतः तावत् वलायिस् प्रान्ते स्थितः ग्याट्टरहार्न (४४७८ मी), इटलीसीमायां स्थितः पेन्नैन् आल्फस् च ।इतोपि उन्नताः पर्वताः अस्मिन् प्रदेशे सन्ति । ते तु डुपोरस्पिरस् (४६३४मी) डाम् (४५४५ मी) वेयिसहार्न्(४५०६ मी) च । आल्फस् भागे ७२ जलपाताः सन्ति । जुङ्गफ्राव् (४१५८ मी) ऎगर्, सदृशाः चित्रोपमाः अनेके खाताः अत्र प्रसिध्दाः सन्ति । आग्नेयदिशि प्रसिध्दः एङ्गाडिन् खातः अस्ति । बर्निना आल्फस् पर्वतस्य अत्युन्नत शिखरं तावत् पिजबर्निना (४०४९ मी.) . राष्ट्रस्य सम्पूर्णे विस्तीर्णे ३० प्रतिशतं यावत् विस्तृते राष्ट्रस्य उत्तरभागे अधिकजनसम्मर्दः विद्यते । मध्यभूमिः इति तस्य नाम । एषा उन्नतैः मुक्तैः , विशालदृश्यैः च मनोहारिणी अस्ति। । प्रदेशः एषः भागशः अरण्ययुक्तः , मुक्तशाद्वलयुक्तः, शाकफलोत्पादकः सन् पर्वतमयः अस्ति । अनेकानि बृहत् सरोवराणि अत्रैव सन्ति । स्विस् देशस्य अत्यन्त बृहत् नगराणि अस्मिन् भागे एव सन्ति । स्विट्झर्ल्याण्ड्देशस्य पश्चिमे स्थितं जिनीवा (लाक् लेमन् इति फ्रेञ्चभाषया) सरोवरमं बृहत् सरोवरं विद्यते । टोन् नदी जिनीवासरोवरस्य मुख्या उपनदी वर्तते ।

वातावरणम्[सम्पादयतु]

स्विस् वातावरणम् साधारणतया समशीतोष्णवातावरणम् । पर्वतस्य अग्रभागेषु अत्यधिकं शैत्यं, दक्षिणाग्रभागे आह्लादकरवातावरणं विद्यते । तथापि मध्ये वैविध्यम् अस्ति एव । ग्रीष्मकाले वातावरणं हितकरं भवति । ग्रीष्मकालः हितोष्णायुक्तः आर्द्रतायुक्तः भवति इत्यतः तदा तदा वर्षा भवति । अतः अत्र प्रशस्तानि शाद्वलानि भवन्ति । पर्वतप्रदेशे शैत्यकाले सूर्यस्य हिमवर्षीयाणां मध्ये च स्थित्यन्तरं भवति । निम्नप्रदेशः मेघैः अथवा तुषारैः आवृतः भवति । इटलीप्रदेशस्य आल्फस् पर्वतश्रेण्याः उपरिष्टात् ‘फान्’ इति किञ्चन प्रसिद्धं हितकरम् उष्णसहितं वातावरणम् वर्षस्य सर्वकाले वर्षाकालेऽपि सम्भवति । वलायिस् दक्षिणखातप्रदेशे शुष्कवातावरणं भवति । अत्र केसरवरं मद्यनिर्माणे उपयुज्ज्यमानानि द्राक्षाफलानि च वर्धन्ते। ग्रावुबण्डेन् प्रदेशेऽपि शुष्क- वातावरणं विद्यते। शैत्यकाले अधिकः हिमपातः भवति । आल्फस् पर्वतप्रदेशे आर्द्रपरिस्थितिः भवति । टिकिनो क्याण्टन् मध्ये आतपः भवति । तथापि तदा तदा बहुवर्षा अपि भवति । स्विट्झर्ल्याण्ड्देशस्य पूर्वभागस्यापेक्षया पश्चिमभागे अधिकं शैत्यं भवति तथापि पर्वतस्य उन्नतस्थानेषु वर्षस्य सर्वकाले अपि शीतं वातावरणम् अनुभवितुं शक्यते । हिमपातः वर्षस्य सर्वकाले समानरूपेण भवति । परन्तु ऋतुमवलम्ब्य किञ्चित् भेदः भवति । शरत्काले सामान्यतया अतिशैत्यं भवति । तथापि स्विट्झर्ल्याण्ड्देशस्य वातावरणं प्रतिवर्षं व्यत्यस्तं भवति । अतः पूर्वसूचनादानं कष्टकरम् । स्विट्झर्ल्याण्ड्देशः अतिसूक्ष्मपरिसरे अस्ति । उन्नतपर्वतप्रदेशात् पृथक्भूताः अनेके सूक्ष्मखाताः अत्र सन्ति । एते एव अतिसूक्ष्मपरिसरस्य कारणीभूताः । पर्वतप्रदेशः अपि सूक्ष्मपरिसरम् आप्नोति एव । उन्नतप्रदेशाः एते विपुलैः सस्यप्रभेदैः युक्ताः सन्ति। एते प्रदेशाः सन्दर्शकैः प्राणिभिः च कष्टमनुभवन्ति च । इदानीं गृहे एव पशुनां पालनपोषणं भवति इत्यतः अरण्यनाशः न भवति । अतः स्विट्झर्ल्याण्ड्देशस्य पर्वतप्रदेशस्य विम्नभागाः २००० (पाद) मी.तः ऊर्ध्वमपि सस्यप्रमेदैः व्यापृताः सन्ति ।

शिक्षणम्[सम्पादयतु]

प्राथमिकशिक्षणाय कनिष्ठः आयुः षट् वर्षाणि इति निर्धारितम् अस्ति । प्राथमिकशिक्षणं पञ्चमकक्षापर्यन्तं भवति । साम्प्रदायिकशालासु २००० तमे वर्षे आंग्लभाषा एऐदम्प्राथम्येन विदेशिभाषारुपेण परिचायिता । माध्यमिक- शिक्षणस्य आरभ्भे छात्राणां सामर्थ्यानुसारं त्रिषु विभागेषु छात्राः विभक्ताः भवन्ति । बुध्दिमन्ताः छात्राः उन्नत- प्रशिक्षणं प्राप्य उन्नतशिक्षणाय ‘मतुरा’ र्थ सन्नध्दः भवन्ति । अन्ये स्वयोग्यतानुसारं शिक्षणं लभन्ते । ज्य़ूरिचमध्ये स्थापितं ETH ‘झेन्त्रम्’ क्यांपस् स्विट्झर्ल्याण्ड्देशे एव प्रतिष्ठितः विश्वविद्यालयः अस्ति । अत्र अल्बर्ट् ऎनस्टैन् विद्याभ्यासं कृतवान् आसीत् । स्विट्झर्ल्याण्ड्देशे १२ विश्व विद्यालयाः सन्ति । तेषु दश विद्यालयेषु सामान्यतया अतान्त्रिकविषयान् एव बोधयन्ति । ज्य़ूरिच् विश्वविद्यालये २५,००० छात्राः सन्ति । केन्द्र सर्वकारेणस्थापितौ विद्यालयौ तावत् ज्यूरिच् मध्ये स्थापितः इ.टि.एच्. झड् विश्वविद्यालयः तथा लासन्ने नगरस्य इ.पि.एफ.एल् विश्वविद्यालयः । एतौ अन्ताराष्ट्रिय ख्यातेः विश्वविद्यालयौ। एतद् विहाय अत्र अनेके अन्वयिक विज्ञानविशविद्यालयाः अपि सन्ति । पदवीपूर्वस्य, तथा अनन्तरतनशिक्षणे विदेशिछात्राणां संख्यासु आष्ट्रेलियादेशस्य अनन्तरतनं तन्नाम द्वितीयम् अत्युन्नतस्थानं स्वीकरोति स्विट्झर्ल्याण्ड्देशः । विश्वविख्यातः भौतशास्त्रस्य विज्ञानी आल्बर्ट् ऎनष्टैनस्य सापेक्षतासिध्दान्तस्य कृते प्रदत्तं नोबेल् पुरस्कारम् अतिरिच्य अनेके नोबेल् पुरस्काराः स्विस् विज्ञानिभिः स्वीकृताः सन्ति । तेषु व्लाडिमिर प्रिलाग् हेनरिक् आर्नैष्ट, रिचर्ड, आर्नेष्ट, एडमण्ड फिशर, राल्फ जिंकर न्यागेल् तथा कुर्ट वुत्रिच प्रमुखाः । आहत्य ११३ नोबेल् प्रशस्तिविजेतारः सन्ति । अत्रत्य काभिश्चित् संस्थाभिः अपि ९ वारं नोबेल-शान्तिपुरस्कारः प्राप्तः अस्ति ।

जिनीवा एल्, एच्.सि विश्वस्य बृहत् सुरङ्गमार्गः[सम्पादयतु]

अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सी.इ.आर्.एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता । तादृशम् अन्यत् प्रमुखं सांशोधनाकेन्द्रमस्ति पालषेरर संस्था । एतयोः प्रमुखः आविष्कारः नाम सागरस्य अन्तर्भागं गन्तुम् ब्याथिस्केप् तन्त्रज्ञानम् । नूतन लोकस्यैव परिचयः अनेन तन्त्रज्ञानेन अभवत् । स्विट्झर्ल्याण्ड्देशस्य बाह्याकाशप्रयोगालयः नामिका बाह्याकाशसंस्था अनेकेषु बाह्याकाशतन्त्रज्ञानकार्यक्रमेषु भागम् ऊढवती अस्ति ।

मूलभूतसौकर्यव्यवस्था पर्यावरणं च[सम्पादयतु]

गसजेन् परमाणुशक्तिस्थावरं स्विट्झर्ल्याण्ड्देशस्य चत्वारि स्थावरेषु अन्यतमम् । स्विट्झर्ल्याण्ड्देशः ५६% जलविद्युतशक्तिं, ३९% परमाणुविद्युत् शक्तिं, ५% साम्प्रदायिकशक्तिं विद्युत् उत्पादने स्विकरोति । अतः एतत् CO2 मुक्तविद्युतशक्ति-उत्पादनाजालम् अभूत । इन्धनोपयोगी सम्बन्धित सर्वविषयेषु दि स्विस् फेडरल् आफीस आफ् एनर्जी (एस्.एक्.ओ.ई) नियोगस्य दायित्वमस्ति । नियोगः एषः २०५० तमवर्षात् पूर्वम् इन्धनस्य उपयोगः इदानीन्तनस्य उपयोगस्य अर्धभागः भवेत् इति उद्देशेन २०००व्याट्समुदाययोजनां पुरस्करोति । लाट्स्बर्गरैलमार्गस्य अधः विद्यमानः नूतनः लाट्स्बर्गरैलमार्गः विश्वे एव अत्यन्तं दीर्घः तृतीयः रैलसुरङ्गमार्गः अस्ति ।एतत् क्यारस्बर्ग मूलसुरङ्गमार्गस्य तथा आल्फस् ट्रान्सिट् योजनायाः प्रवेशद्वारम् अस्ति । राष्ट्रियमार्गस्य उपयोगार्थं ४० स्विस् प्रांक् दत्वा ‘विग्नट्टे’ (राजस्व चीटिकाः ) क्रयणं करणीयं भवति । राष्ट्रिय -मार्गः १६३८ दीर्घः अस्ति । विस्तीर्णं तावत् ४१२९० कि.मी वर्तते । ज्यूरिचविमानस्थानकम् बृहत् अन्ताराष्ट्रियविमानस्थानकम्। २००७ तमे वर्षे २०. ८७ दशलक्षजनाः अत्र यात्रां कृतवन्तः । युरोविमानस्थानकं तथा बसेल् –म्यूल हौस् –पैरबर्ग क्रमशः द्वितीयं तृतीयं विमानस्थानकं भवतः । स्विट्झर्ल्याण्ड्देशस्य रैलमार्गः ५०६३ कि.मी दीर्घः अस्ति । प्रतिवर्षम् अत्र ३५० दशलक्षजनाः प्रयाणं कुर्वन्ति । स्विट्झर्ल्याण्ड्देशेन त्याज्यसंस्करणस्य तथा तस्य पुनर्विनियोगस्य च विषये नियमाः कृताः सन्ति । अस्मिन् विषये सक्रियः अयम् सर्वकारः ६६% तः ९६% यावत् वस्तूनि संस्कृत्य तेषां पुनरुपयोगे सफलह् अस्ति । केषुचित् राज्येषु गृहत्याज्यवस्तूनां निर्वहणे धनं देयं भवति । धनं दत्वा स्यूतः स्वीकरणीयः । तत्रैव त्याज्याः सङ्गृह्यन्ते । नो चेत् २०० तः ५०० सि.एच्.एफ् पर्यन्तम् दण्डः विधीयते ।

जनगणना[सम्पादयतु]

विदेशीनागरिकाणां तथा तात्कालिकविदेशीकार्मिकाणां जनसंख्या २२% अस्ति ।एते ऎराप्यदेशात् ६०% आगताः सन्ति । इटलीदेशस्य १७.३% जर्मनीदेशीयाः १३.२% , सैबीरिया एवं माण्टेनिग्रोतः ११.५% पोर्चुगालतः ११.३% जनाः अत्र आगताः सन्ति । श्रीलङ्कादेशात् तमिळुसन्त्रस्थाः अपि अत्र दृश्यन्ते ।

स्विट्झर्ल्याण्ड्देशस्य अधिकृतभाषाः[सम्पादयतु]

अनेकाः युरोपीयसंस्कृतयः स्विट्झर्ल्याण्ड्देशस्य उपरि, अत्रत्यभाषायाः उपरि प्रभावम् अकुर्वन् । स्विट्झर्ल्याण्ड्देशे चतस्रः अधिकृतभाषाः सन्ति । ताः तु जर्मन् (६३.७%) उत्तरे पूर्वे एवं मध्यभागे, पश्चिमे फ्रेञ्चभाषिणः (२० तः २१%) दक्षिणे इटालियन् भाषिणः (६.५% तः ४.३% ) सन्ति । रोमांश् तथा रोमन् भाषा अल्पसंख्याकानां स्थानीयभाषारूपेण क्रमशः ५%, ६% च अस्ति । संयुक्तराष्ट्रियशासनानुसारं जर्मन्,फ्रेञ्च , इटालियन् रोमांशभाषा च अधिकृतभाषाः भवितुमर्हति । राष्ट्रियभाषया साकम् इतरराष्ट्रिय- भाषासु एका भाषा अनिवार्यतया शालासु अध्येतव्या भवति ।

आरोग्यम्[सम्पादयतु]

२००६ तमवर्षस्य समीक्षानुसारं जीतितावधिः पुरुषाणां ७९ वर्षाणि, स्त्रीणां ८४ वर्षाणि । प्रपञ्चे एव एतत् अधिकं इति ज्ञायते । स्विस्प्रजाः अनिवार्यरूपेण सार्वत्रिक- आरोग्ययोगक्षेमाधीनाः भवन्ति । अनेन ते अनेकविध -आधुनिकवेद्यकीयसेवां प्राप्तुं शक्नुवन्ति । अत्रत्याम् आरोग्यसेवाव्यवस्थां सेवाकांक्षिणः बहुधा श्लाघन्ते ।

नगरीकरणम्[सम्पादयतु]

राष्ट्रेस्मिन् ७५% जनाः नगरे बिवसन्ति । ७० वर्षेषु एव स्विट्झर्ल्याण्ड्देशस्य ग्रामाः नगरीकृताः । २००० वर्षेषु भूप्रदेशे यानि परिवर्तनानि जातानि तदपेक्षया अधिकानि परिवर्तनानि १९३५ तमवर्षात् नगरीकरणेन जातानि सन्ति । स्विट्झर्ल्याण्ड्देशस्य नगरजनसम्मर्दः अधिकः दृश्यते । जनसम्मर्दः प्रतिकि.मी. कृते ४५० वर्तते । अत्यधिक- जनसम्मर्दयुक्तानि मेट्रोपोल्नगराणि क्रमशः ज्यूरिच् , जिनीवा लासन्ने, बसल् एवं बर्न । ज्यूरिच् एवं जिनीवा नागरिकाणाम् उन्नतजीवनस्तरः शैली च विश्वे एव प्रसिध्दः वर्तते ।

मतधर्मः[सम्पादयतु]

स्विट्झर्ल्याण्ड्देशे क्रैस्तमतं प्रधानं मतम् । क्याथोलिक् (४२.८%) तथा प्रोटेस्टेण्ट(३५.३%) इति जनाः द्विधा विभक्ताः सन्ति । निर्वासिताः इल्साम् मतानुयायिनः (४.३%) सन्ति । तेषु प्रधानतया कसोवर्स् तथा तुर्काः सन्ति । तथैव पूर्वदेशीयाः अल्पसङ्ख्याकाः सम्प्रदायवादिनः (१.८%) मतानुयायिनः दृश्यन्ते । २००५ युरोबाटोमीटर् समीक्षणानुसारं ४८% आस्तिकाः, ३९% जनाः आत्मा, प्रेरणाशक्तिः इत्यादिषु विश्वासवन्तः सन्ति । ९% नास्तिकाः, ४% जनाः अज्ञेयवादिनः सन्ति ।

साहित्यम्[सम्पादयतु]

जीन्- जाक्वेस् रवस्साव् नामकः न केवलं लेखकः अपि तु १८ तमशतकस्य प्रमुखः तत्वज्ञानी अपि आसीत् । साहित्यप्रकारस्य प्राचीनरुपाणि जर्मन् भाषायां सन्ति । स्विस् जर्मन् साहित्य क्षेत्रे अत्यन्तं प्रसिद्धौ जरेमियास् गथेल्स् (१७१७ तः १८५४ ) तथा गाटफ्रेड् केल्लर- (१८१९ तः १८९०) । २० तमशतकस्य स्विस् साहित्ये उत्कृष्टकृतयः नाम म्याक्स् फ्रिष्, (१९११-९१)तथा फ्रेड्रिक् ड्युरेनम्यार् (१९२१ तः ९०) इत्येतयोः कृती ‘दैफिसिकेर’ (दिफिसिसिस्स्) तथा दास् वर्सप्रचेन् (द प्लेडज्) । एते कृती २००१ तमे वर्षे हालिवुड् चलनचित्रे जाते । प्रसिध्दफ्रेञ्चसाहित्यकाराः नाम जीन्- जाक्वेस् रवस्साव् (१७२२-१७७८) तथा जर्मैने डि स्टील् (१७६६-१८१७) । अर्वाचीनलेखकेषु चार्ल्स् फर्डिनाण्ड रामुज् (१८७८ तः १९४७), ब्लेस् सेंड्रार्स् (पूर्वं फ्रेड्रिक् सासर् १८८७ -१९६१) प्रसिद्धौ स्तः । इटालियन् रोमांशभाषिकानाम् अपि अस्मिन् विषये योगदानं दृश्यते । तथापि एतेषां सङ्ख्या अल्पा एव । स्विस्भाषायाः सुप्रसिद्धा सहित्यकृतिः नाम ‘हैडी’ (बाल कृतिः) बालानां कृते रचितमिदम् । तस्य रचयित्री जोहान् स्वैरीव (१८२७-१९०१) महाभागा ।

माध्यमः[सम्पादयतु]

स्विट्झर्ल्याण्ड्देशेन पत्रिकास्वातन्त्र्यं , मुक्त-अभिव्यक्ति स्वातन्त्र्यं च प्रदत्तम् अस्ति । स्विस्राष्ट्रियवार्ता, तिसृषुराष्ट्रिय- भाषासु, राजकीय-आर्थिक- सामाजिक- सांस्कृतिक- विषयसम्बन्धिविवरणम् दिनस्य सर्वसमयेषु प्रसारयन्ति । बहुप्रसिद्धा पत्रिका तावत्, जर्मन्भाषापव्रिका तजस् अन्विजर तथा न्य़ूये ज्युचेर् ग्लैटुङ्ग् (एन्, झेड् झेड्) फ्रेञ्चभाषया प्रकाश्यमाना लि टेंप्स् । स्थानीयवार्तापव्रिकाः सर्व नगरेषु सन्त्येव । सांस्कृतिकवैविध्यता बहुसांख्यिकपव्रिकायाः प्रसारणे कारणम् । स्विस् प्रसरणा संस्था रे बानुली एवं दूरदर्शनस्य कार्यक्रम निर्माणम् एवं प्रसारं निर्वहति । व्यापक तन्तुवाहक(केबल्) जालस्थसवृतात् स्विस् जनाः अन्यराष्ट्रस्य (राज्यस्य) कार्यक्रममपि वीक्षितुं समर्थाः भवन्ति ।

क्रीडा[सम्पादयतु]

(स्कीयिंङ्) हिमक्रीडां पर्वतारोहणं च स्विस् जनाः तथा विदेशीयाः अपि बहु इच्छन्ति । उन्नतशिखराणि पर्वतारोहिणः विश्वस्य सर्वदेशेभ्यः आकर्षयन्ति । ‘हाट्रुट्’ अथवा पट्रौलिडेस् हिमनद्यां प्रयलिष्यमाणा हिमक्रीडास्पर्धा अन्ताराष्ट्रियप्रख्यातिं तनुते । स्विस् जनाः पादकन्दुकक्रीडामपि(फुट्बाल्) बहु इच्छन्ति । रोजर् फेडरर् टेन्निस् (उत्पीठिका कन्दुकक्रीडा) क्रिडायाम् अत्यद्भुतं साधनं कृतवान् अस्ति ।

पुरातनमल्लयुध्दम्[सम्पादयतु]

पुरातनक्रीडास्यर्धासु मल्लयुध्दम् (अथवा श्विन् जेन्) अपि अन्यतमम् । पुरातनसाम्प्रदायिका कीडा एषा राष्ट्रियक्रीडा इत्यपि परिगणिता वर्तते । भारकन्दुकक्षेपणक्रीडा अपि अत्र जनप्रिया वर्तते । ८३.५ भारभूतस्य शिलायाः ‘उन् स्पन्नेन् स्टेन्’ इति कथयन्ति ।

आहारः[सम्पादयतु]

स्विट्झर्ल्याण्ड्देशः बहुपाकपध्दतिम् अनुसरति । भक्ष्याः तावत् ‘फण्ड्यु’ राक्लेट्टे अथवा रोस्टी देशे सर्वत्र लभ्यन्ते । अनेकेषु प्रदेशेषु स्थानीय भोजनकलानुसारं वैविध्यं दृश्यते । साम्प्रदायिक-आहारपध्दत्यां क्षीरोत्पनानि, नवनीतसदृशं ‘ग्रूयरे’ अथवा एमेण्टल् अधिकतया उपयुज्ज्यते । स्विट्झर्ल्याण्ड्देशे चाकलेहाः बहुजनैः इष्टं खाद्यम् । स्विस्देशे वैन् मुख्यतया जिनीवानगरे, टिकिनोनगरे च उत्पादयन्ति ।द्राक्षाक्षेत्राणि स्विट्झर्ल्याण्ड्देशे रोमकालात् अपि सन्त्येव। सुप्रसिध्दमद्यविधाः तावत् ‘चास्सेलास्’ , पिनोट् नायिर्’ च । टिकिनोमध्ये उत्पाद्यमानम् ‘मर्लोट्’ अपि प्रमुखं मद्यम् अस्ति ।






संबद्घाः विषया:[सम्पादयतु]

External links[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=स्विट्झर्ल्याण्ड्&oldid=241511" इत्यस्माद् पुनः प्राप्तिः