राजसर्षपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजसर्षपस्य सस्यम्

अयं राजसर्षपः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं राजसर्षपः सस्यजन्यः आहारपदार्थः । राजसर्षपः आङ्ग्लभाषायां Brassiea Rigra इति उच्यते । वस्तुतः सर्षपः वर्णस्य अनुगुणं त्रिधा विभक्तः भवति । गौरः सर्षपः, कृष्णः सर्षपः, रक्तः सर्षपः च इति । तेषु कृष्णः सर्षपः यः अस्ति सः एव राजसर्षपः इति उच्यते । अत्र गौरः सर्षपः सिद्धार्थः (Brassicea Compostris) इति, कृष्णः सर्षपः राजिका (Brassiea Rigra) इति, रक्तः सर्षपः ’सर्षपः’ (Brassica) इति च उच्यते । सामान्यतया कृष्णः रक्तः च सर्षपः आहारत्वेन उपयुज्यते । अत्र गौरवर्णस्य सर्षपस्य भूतनाशनः, कटुस्नेहः, ग्रहघ्नः, कटुकः , राजकाफलं, सिद्धार्थः इत्यादीनि अन्यानि नामानि सन्ति । कृष्णस्य सर्षपस्य राजक्षवकः, राजिका, क्षुताभिजनकः, राजसर्षपः इत्यादीनि अन्यानि नामानि च सन्ति । एषः राजसर्षपः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य राजसर्षपस्य स्वभावः[सम्पादयतु]

राजसर्षपधान्यम्

अयं राजसर्षपः उष्णः, कटुः च ।

“राजसर्षप्स्तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥“ (राजकोषे शाल्यादिवर्गः)
१. अयं राजसर्षपः कफं वातं च निवारयति ।
सर्षपपुष्पम्
२. राजसर्षपः उदरस्य कीटबाधां, ग्रहबाधां च निवारयति ।
३. राजसर्षपः रक्तस्रावं, पित्तं च वर्धयति । अतः पित्तप्रधानैः रोगैः पीडिताः अधिकतया न सेवेरन् ।
४. गौरः सर्षपः रक्तसर्षपस्य अपेक्षया उत्तमः ।
५. राजसर्षपः त्वक्सम्बद्धान् दोषान् शमयति ।
६. राजसर्षपः रुचिं वर्धयति, व्रणं शुष्कीकरोति च ।
७. राजसर्षपः विषबाधां, भूतबाधां च निवारयति ।
८. राजसर्षपः कर्णसम्बद्धेषु रोगेषु, शिरसः सम्बद्धेषु रोगेषु च उत्तमम् औषधम् ।
९. राजसर्षपः उष्णवीर्यः, रक्तोघ्नः च ।
१०. अयं राजसर्षपः कण्डूरोगं, कुष्ठरोगं च निवारयति ।
११. राजसर्षपः मानसिकरोगे, अग्निमान्द्ये चापि उपयुज्यते ।
१२. अस्य राजसर्षपस्य तैलम् अभ्यङ्गावसरे अपि उपयुज्यते ।
१३. राजसर्षपः स्नेहनः अस्ति । अयं वर्णम् उत्तमं करोति ।
१४. राजसर्षपः चर्मरोगे अपि उपयोक्तं शक्यते ।
१५. राजसर्षपस्य तैलं प्लीहरोगे उत्तमम् औषधम् इति काश्यपसंहितायाम् उक्तम् अस्ति ।
१६. सुश्रुतः सर्षपस्य तैलम् “अचक्षुष्यम्” इति उक्तवान् अस्ति ।
१७. राजसर्षपं सैन्धवलवणेन सह योजयित्वा वमनं कारयितुम् उपयोगं कुर्वन्ति ।
१८. राजसर्षपं शीतलजलेन सह पेषणं कृत्वा कृशस्य वस्त्रस्य उपरि प्रसारयन्ति । तत् वस्त्रं वातरोगे, लक्वे, सन्धिवाते, वेदनायां, कण्डूयने च शरीरस्य उपरि यत्र वेदना भवति तत्र स्थापयन्ति । १० निमेषानन्तरं वस्त्रं निष्कासयन्ति । यदि ज्वलनम् आरप्स्यते तर्हि पूर्वमेव निष्कासयन्ति ।
१९. अस्य राजसर्षपस्य बीजस्य चूर्णं १-३ ग्रां पर्यन्तं दातुं शक्यते ।

वरग्ः:गृहौषधम्

"https://sa.wikipedia.org/w/index.php?title=राजसर्षपः&oldid=356819" इत्यस्माद् प्रतिप्राप्तम्