लशुनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
लशुनानि
उद्घाटितस्य लशुनस्य आन्तरिकं दृश्यम्
द्रोण्यां दृश्यमानानि लशुनसस्यानि
शुष्काणि लशुनसस्यानि

इदं लशुनं भारते अपि वर्धमानः कश्चन कन्दविशेषः । इदम् अपि सस्यजन्यः आहारपदार्थः । एतत् लशुनम् आङ्ग्लभाषायां Garlic इति उच्यते । एतत् लशुनम् उपसेचनस्य, शाकान्नस्य, चित्रान्नस्य, क्वथितस्य, सारस्य, व्यञ्जनस्य, दाधिकस्य, ताक्रस्य इत्यादीनां निर्माणे उपयुज्यते । अन्येषां दाधिकानाम् अपि लशुनस्य व्याघरणं दीयते । कुत्रचित् प्रतिदिनं लशुनस्य येन केन प्रकारेण वा सेवनं भवति एव । प्रतिदिनस्य पाके लशुनम् उपयुज्यते एव । अस्य लशुनस्य उत्पादनम् अत्यधिकप्रमाणेन भवति चीनादेशे । तदनन्तरं द्वीतीये स्थाने अस्ति भारतदेशः । लशुनस्य आयातनिर्यातादिकम् अपि महता प्रमाणेन प्रचलति । लशुनम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य लशुनस्य स्वभावः [सम्पादयतु]

१ एतत् लशुनं वस्तुतः औषधानाम् आगरः । तदा तदा वा लशुनस्य सेवनं भवितुम् अर्हति ।
२ उदरबाधाम् आम्लपित्तं च निवारयति लशुनम् ।
३ 'कोलेस्ट्राल्' इति यत् उच्यते तस्य अपि परमौषधं लशुनम् एव ।
४ एतत् लशुनं पृष्ठवेदनाम् अपि हरति । वेदना यत्र अस्ति तत्र लशुनतैलं लेपयित्वा मर्दनं क्रियते चेत् वेदना बहुशीघ्रम् अपगच्छति ।

अधिकानि चित्राणि [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=लशुनम्&oldid=234197" इत्यस्माद् उद्धृतम्