शनिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शनिः
{{{नाम}}}
{{{मुद्रा}}}
{{{चित्रम्}}}
उपनाम
अपरं नाम {{{अपरं नाम}}}
विशेषणम्
कक्षीयलक्षणानि
सूर्योच्यम् १,५१३,३२५,७८३ कि.मी
अपसौरिका १,३५३,५७२,९५६ कि.मी
अर्धमुख्य अक्ष १,४३३,४४९,३७० कि.मी
विकेन्द्रता ०.०५५ ७२३ २१९
परिक्रमणकालः {{{परिक्रमणकालः}}}
परिक्रमणगतिः {{{परिक्रमणगतिः}}}
उपग्रहः {{{उपग्रहः}}}
भौतिक लक्षणानि
मध्यत्रिज्यः {{{मध्यत्रिज्यः}}}
ध्रुवीयत्रिज्या {{{ध्रुवीयत्रिज्या}}}
सपाटता ०.०९७ ९६ ± ०.००० १८
परिधिः ४.२७ × १०१० km²
आयतनम् ८.२७१३ × १०१४ km³
द्राव्यमानम् ५.६८४६ × १०२६ केजी
मध्यमघनित्वम् {{{मध्यमघनित्वम्}}}
गुरुत्वाकर्षणम् १०.४४ m/s²
पलायनगतिः {{{पलायनगतिः}}}
प्रदक्षिणकालः {{{प्रदक्षिणकालः}}}
प्रदक्षिणगतिः {{{प्रदक्षिणगतिः}}}
तापमानम् १३४ K
वायुमण्डलम्
दबः २०-२०० KPa
वयुसंघटनम् {{{वयुसंघटनम्}}}

सुन्दरः ग्रहः[सम्पादयतु]

शनिग्रहः(Saturn) गुरुग्रहस्यापेक्षया बहिः चलति। अस्य ग्रहस्य गात्रं बृहत् भवति। अन्येषां ग्रहाणां तुलनायां गात्रे द्वितीय स्थानीयः एषः ग्रहः भवति। ग्रहाय जलस्य ७१ अंशिक सान्द्रता अस्ति। गात्रे बृहत् भवतीत्युक्तं किन्तु,अल्पभारवान् ग्रहः इति चेत् आश्चर्यं भवेत् किन्तु सत्यमेतत्। सागरे एतादृषं गात्रविशिष्टम् एनं ग्रहं यदि क्षिपामः तर्हि न निमज्जतिस्म। हिमराशेः अपेक्षया अल्पभारः अस्य। जलस्य उपरि प्रायः तरणं कुर्यात्। शनिग्रहः बहुसुन्दरं दृश्यते। अस्य प्रकाशः,वर्णः,मध्ये विद्यमानाः वलयाः, अष्टौ उत नवचन्द्राणां परिवारः एते सर्वेऽपि आश्चर्यं जनयन्ति। अतीव कान्तिविशिष्टः ग्रहः भवति। बहुदूरात् पश्यामश्चेदपि बुधग्रहस्य प्रकाशतुल्यः भवति अयं ग्रहः।

गात्रं गतिश्च[सम्पादयतु]

अयं शनिग्रहः गात्रे भूमेः अपेक्षया ७९२ भागपूर्तिः बृहत् भवति। भारे भूमेः अपेक्षया ९५ भागपूर्तिः बृहत् भवति। अस्य गोलस्य व्यासः विषुवद्रेखायां ७५,००० मैलुपरिमितं भवति। ध्रुवरेखायां ६७,००० मैलुपरिमितं भवति। ध्रुवयोर्मध्ये समतलाकारे दृश्यमानस्य गोलकस्य परितः वलयाः यदि नभवन्तिस्म तर्हि गोलाकारे दृश्यमानस्याऽपेक्षया आन्डाकारे दृश्यतेस्म। शनिग्रहः १० घन्टा, १४ निमेष,२४ क्षणाय एकवारं स्वपथे परिक्रमति। अयं ग्रहः सूर्यम् एकवारं परिक्रमणं कर्तुं २९ वर्षाणि १९७ दिनानि अपेक्षन्ते। अस्य ग्रहस्य सञ्चरण वेगः भूमेः १\३ भागांशः अस्ति। प्रतिक्षणं ६ मैलुपरिमिते वेगे क्रमति । अस्य वेगः मन्दः भवति। ग्रहस्य दीर्घवृत्तोऽपि बृहत् भवति। अयं ग्रहः सूर्यात् यादा गरिष्टदूरे भवति तदा ९३६,०००,००० मैलु दूरे भवति , ८३६,०००,००० कनिष्टदूरे भवति। भूम्या अयं ७४४ तथा १०२८ मिलिय मैलुपरिमिते अन्तरे सरति। भूमौ विद्यमानानाम् अस्मभ्यं कृते,अयंग्रहः मंगळग्रहः तथा गुरुग्रह इव आकाशे वक्रगमने दृश्यते। भूमिः शनिग्रहात् ७४४ तः १.०२८ मिलिय गरिष्ट, कनिष्टदूरे भवति।

बाहीकः[सम्पादयतु]

शनेः बहिर्भागः गुरुग्रह इव वातावरणमावृतः अस्ति । विषुवद्रेखायां अस्य ग्रहाय घन्टायै २३,००० मैलुपरिमितवेगोऽस्ति। उत्तरदक्षिणयोः अक्षांशयोः प्रति यदा सरति तदा वेगे न्यूनता भावति। अस्य बहिर्भागात् प्रतिबिम्बित प्रकाशः बहु विशिष्टः भवति। भूमौ श्वेताकाशाः यावत् प्रकाशस्य प्रतिछायां प्रकाशयन्ति ,तदपेक्षया अत्रत्य वातावरणं सूर्यकिरणानां प्रतिछायां प्रकाशयति। अस्य गोलाय स्वप्रकाश शक्तिः किञ्चिदस्ति इति ऊहा। गोलस्य मध्यभागः प्रकाशसहित श्वेतवस्त्रमिव दृश्यते। ध्रुवयोः हरितवर्णः दृश्यते।

वातावरणम्[सम्पादयतु]

शनिग्रहे अनिलानां विमोचना वेगः प्रतिक्षणं २३ मैलिपरिमितं भवति। अत्र ० डिग्रिसेन्टिग्रेड् औष्ण्यं भवति। अस्य बाहीकः १४० डिग्रि उष्णं भवति। एतादृश परिस्थितौ कस्यापि अनिलस्य अणुपरिमाणवः शनिग्रहं विहाय गन्तुमशक्ताः भवन्ति । एतदृष बृहत् कायः जलस्य ७\१० भागांशः सान्द्रता भवति। अस्यान्तः घनभागः न्यूनं भवति। बाहीकः अनिलेन पूरितमस्ति। सान्द्रतानुरोधेन अस्य गर्भः एवं भवेदिति ऊहा, मध्यभागः २८,००० मैलुव्यासपरिमितशिलाया आवृतमस्ति। अस्यापेक्षया बहिः ८,००० कि.मी. स्थूलहिमराशेः कवचोऽस्ति। एतदपेक्षया बहिः २२,००० कि.मी. स्थूलं वातावरणमस्ति इति। अस्य वातावरणस्य सान्द्रता जलस्यापेक्षया पादभागः अस्तीति,तत्र जलजनकः हीलियम् सदृषाः अनिलाः घनीकृत धूलीकणाः इव भवन्तीति स्यात्। स्थूलरूपेण गणनायां गुरुः तथा शनिग्रहयोः गोलयोः रचनयोः सादृश्यं भवति।

शनेः वलयाः[सम्पादयतु]

अस्य सौन्दर्यं दूरदर्शक यन्त्रद्वारा जनाः दृष्टवन्तः। गैलीलियो प्रप्रथमवारं दूरदर्शकसहायेन ग्रहस्य मध्यरेखायां लघु बिन्दुद्वयं दृष्टवान्। एतौ बिन्दू लघु चन्द्रौ इति तस्य ऊहा आसीत्। गच्छताकालेन अदृश्यौ सन्जातौ। तदा सः विस्मयचकितः संजातः। स्व नेत्रे एव विश्वासः नासीत् तस्य।

हैगेन्सस्य ऊहा[सम्पादयतु]

हालेण्ड देशस्य (१६२९-१६९५) हैगेन्स नामकः घटियन्त्रं, दूरदर्शकयन्त्रञ्च निर्मातिस्म। अयं खगोलज्ञः अपि आसीत्। अनेन शनेः परितः विद्यमान अलङ्कारस्य रहस्योद्घाटने यत्नः कृतः। कदाचित् तस्य परितः अङ्गुलीयकानि दृश्यन्ते, कदाचित् तस्य वामे,दक्षिणेच कन्टकौ स्थः इव भासते । क्रुशः,विशालाङ्गुलीयकानि च अस्य गोलाय परिक्रमन्ति चेदेव एतादृष दृश्यं द्रष्टुं शक्यते इति अस्याभिप्रायः। पूर्वोक्त विषये १६५५ ततः पूर्वमेव तेन चिन्तितमासीत्। जनानां पुरतः स्वाभिप्रायं वक्तुं अस्य धैर्यं नासीत्। किन्तु वर्षचतुष्टयानन्तरं (१६५९) सधैर्येण स्ववादं मण्डितवान्। ”शनेः परितः क्रुशः तथा विशालाङ्गुलीयकमस्ति। एतत् मुख्यग्रहाय न सल्लग्नं, किन्तु परितः परिक्रमति। एतत् अङ्गुलीयकं ग्रहपथाय अभिनति अस्ति । कालान्तरे खगोलज्ञाः हैगेन्सस्य वादम् अङ्गीकृतवन्तः। अनन्तरं प्यारिस् वीक्षणालयस्य प्रमुखः गयोवानि केन्सीनि, अनेन कृत उत्तमसंशोधनेन ज्ञातं यत्, अस्य ग्रहस्य परितः एकमेव वलयः नास्ति,किन्तु दौ वलयौ इति। बहिः विद्यमानस्य अन्गुलीयकस्य विशालता न्यूनम् एवं लघुश्च भवति। अन्तराङ्गुलीयकं विशालम् बृहच्च भवति। अङ्गुलीयकयोः प्रकाशे व्यत्यासोऽस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=शनिः&oldid=242712" इत्यस्माद् पुनः प्राप्तिः