गुरुग्रहः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
गुरुग्रहः

गुरुः(Jupiter) सौरमण्डले एव बृहत्तमः ग्रहः। सूर्यात् पञ्चमः ग्रहः अयम्। अनिलरूपिग्रहाः शनिः, अरुणः (युरेनस्), यमः (प्लूटो), गुरुश्च कदाचित् जोवियन्-ग्रहाः इति निर्दिश्यन्ते ।

अन्तर्विषयाः

परिचयः [सम्पादयतु]

आकाशे प्रकाशमानेषु ग्रहेषु गुरुः चतुर्थः । किन्तु वर्षे कानिचन दिनानि मङ्गलः गुरोः अपेक्षया प्रकाशमानः दृश्यते। सौरमण्डलस्य सर्वेषां ग्रहाणां द्रव्यराशेः २.५ गुणितः द्रव्यराशिः गुरोः । भूमेः अपेक्षया ३१८ गुणितं द्रव्यराशिः, ११ गुणितं व्यासः, १३०० गुणितं गात्रञ्च अस्ति गुरुग्रहस्य। अतः गुरुग्रहस्य गुरुत्वं सौरमण्डलस्य विकासे महान्तं परिणामं जनयति। अनेके अल्पावधिधूमकेतवः गुरुग्रहस्य वर्गे अन्तर्भूताः । सौरमण्डलस्य अन्तर्भागीयानां विफुलताडनानां कारणीभूतः गुरुः एव । तदीयम् अगाधगुरुत्वाकर्षणकारणात् तं सौरमण्डलस्य धूलिचोषकः (vacuum cleaner) इत्यपि निर्दिश्यते।

आकारः [सम्पादयतु]

भूमिः इव गुरुग्रहः उपरि अधः च अयतगोलाकारे वर्तते । तन्नाम समभाजकद्वारा प्राप्यमाणः व्यासः ध्रुवद्वारा प्राप्यमाणस्य व्यासस्य अपेक्षया अधिकः । एतयोः व्यासयोः ९२७५ कि मी परिमितः भेदः विद्यते ।

वायुमण्डलम् [सम्पादयतु]

गुरोः वायुमण्डलस्य बाह्यविस्तरे सामान्यतः कणानां दृष्ट्या - ९३% जलजनकम्, ७% हीलियम् द्रव्यराशिदृष्ट्या - ७५% जलजनकम्, २४% हीलियम् च विद्यन्ते । अन्तर्भागे भारयुक्ताः धातवः सन्ति । द्रव्यराशीणां दृष्ट्या अस्य वितरणम् एवमस्ति - ७१% जलजनकम्, २४% हीलियम्, ५% अन्ये धातवः । वायुमण्डले लघुप्रमाणेन मीथेन्-अमोनियादयः विद्यन्ते । अत्यल्पप्रमाणेन ईथेन्-जलजनकस्य सल्फैड्-नियान्-फास्फीन्-गन्धकांशाः च विद्यन्ते । वैज्ञानिकमापनदृष्ट्या गुरुग्रहस्य वायुमण्डलौ गेलिलियोशोधकनामिका गगननौका प्रेषिता आसीत् । अयं नौका १९९५ तमे वर्षे गुरुं प्रति वायुमण्डलशोधकं सम्प्रैषयत् । २००३ तमे वर्षे इयं नौका गुरोः वायुमण्डलं प्रविश्य दग्धा जाता ।

कारकत्वं, स्वरूपः, स्वभावश्च [सम्पादयतु]

विशालशरीरी, मधुवर्णीयः केशराशिवान्, नेत्रयुक्तः, कफप्रकृतियुतः, धीमान्, सकलशास्त्रपारङ्गतश्च अयं गुरुः। एते गुरोः कारकत्वानि - ऐश्वर्यम्, पुत्राः, देहपुष्टिः, बुद्धिः, सम्पत्तिः, मृदुभाषणम्, ज्योतिषम्, कण्ठः, सिंहासनम्, स्वर्गलोकसञ्चारः, पौत्राः, गृहसौख्यम्, आचारः औदार्यम्, अचलता, पशुसम्पत्तिः, हृदयम्, तपः, ज्येष्ठसहोदरः, बन्धुः, सुवर्णनिधिः, वैढूर्यम्, काव्यज्ञानम्, सद्विनियोगः, वातः, श्लेष्म, अग्निमान्द्यम्, दन्ताः, मन्त्रः, वेदान्तः, ब्राह्मणभक्तिश्रद्धा, कीर्तिः, गौरवम्, विद्या, विज्ञानम्, उन्नताशयः, उन्नतविद्याभ्यासः, विदेशीव्यवहारः, दूरदृष्टिः, शास्त्रबोधनम्, पुस्तकप्रकाशनम्, प्रसङ्गाः, प्रसाराः, ऊरुः, रक्तनालाः च।

बाह्यानुबन्दाः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुरुग्रहः&oldid=235593" इत्यस्माद् उद्धृतम्