शुक्रः
शुक्रः सूर्यात् द्वितीयः समीपस्थितग्रहः अस्ति । सः २२४.७ दिने सूर्यस्य एकप्ररिक्रमणम् करोति । ४.६ गोचरप्रमाणात् एषः चन्द्रानन्तरं रात्रौ गगने अत्यन्तप्रकाशमानः कायः अस्ति । तस्मात् एव शुक्रः ’प्रातःकालीननक्षत्रं’, ’सायङ्कालीननक्षत्रं’ चेति प्रख्यातः अस्ति ।
शुक्रस्य गात्रं, गुरुत्वाकर्षणम् इत्यादि अनेक लक्षणानि पृथिव्या: इव वर्तन्ते । तस्मात् एव शुक्रः पृथिव्याः भ्रातृग्रहमिति प्रसिद्धः । शुक्रः सुर्यप्रकाशं प्रतिफलद्भि: मेघै: आवृतः वर्तते । ग्रहेषु शुक्रस्य वायुमण्डलभार: सर्वोच्चः वर्तते । तस्य वायुमण्डले प्रुमुखत: अङ्गाराम्ललेन पूरितं अस्ति । अतः एव तत्र जीवजन्तवः न सन्ति । पूरातनकाले शुक्रः पृथ्वी इव सागरै: पूर्णः वर्तते स्म। परन्तु अत्यधिकतापमानस्य कारणत: एवम् आविरभूत् इति विदुषां अभिप्रायः । शुक्रस्य वायुमण्डलभार: पृथिव्याः वायुभारापेक्षया द्विनवतिधा वर्तते ।
|
|
|||||