धूमकेतुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
धूमकेतुः

एते धूमकेतवः सौरमण्डलस्य अत्यन्तं दूरे विद्यमानाः सदस्याः। गात्रे अत्यन्ताल्पकायाः भवन्ति। व्यासः सामान्यतः ४ कि.मि. परिमितं भवति। एतेषां रचना अन्येषां सदस्यानाम् अपेक्षया भिन्नमस्ति। ५ बिलियन् वर्षेभ्यः पूर्वं सौरमण्डलस्य रचनाकाले बहिर्कक्षायाम् अवशिष्टाः कणाः एते। सूर्याय एवं समीपस्थ नक्षत्राय च मध्यमार्गे कवचवत् एते आवृताः इत्येका कल्पना। एनं सिद्धान्तं यान्लू नामक विज्ञानी निरूपितवान्। वरुणयमयोः(नेप्चून्-प्लोटो)मध्ये अल्पप्रदक्षिणावधेः धूमकेतवः प्रायः अत्र भवन्ति इति जेराल्ड् कैपर् नामकेन निरूपितमस्ति। अतः अस्य कैपर् पट्टः इति व्यवहारः। जलबिन्दुः, मिथेन्,अमोनिया,कार्बन् मानाक्सैड्, कार्बन् डै आक्सैड् ईदृश अनेक वस्तूनां घनीकृतं मिश्रणमेव धूमकेतुः इति। सौरमण्डले विद्यमानः हिमराशिः इति अस्यैव अपरं नाम भवति। सूर्यसमीपगमनेन उष्णकिरणानां स्पर्शः सञ्जाते सति वक्रयुक्ताः अस्य बहिर्वलयस्य कणाः बाष्पीभवन्ति। बाष्पः एतं परितः आवृतः भवति। अस्यैव "कोमा" इति नाम। गुरुग्रहस्य उत शनिग्रहस्य पथयोः परिमाणसमीपे यदा आगच्छति तदा कोमा निपिडो भूत्वा केन्द्रम् आच्छादितोभवति। उष्णस्य प्रभावाधिक्येन अधिकतया कणाः बाष्पीभूत्वा सौरमारुते मिलित्वा केन्द्रस्य पृष्ठे सङ्गृहीताः भवन्ति। तदा धूमकेतवे लाङ्गूलमस्तीव दृश्यते। आकाशे आश्चर्यकररीत्या बिम्बितः भवति। शतमानस्यादौ वैज्ञानिकाः धूमकेतुषु सैजन् इत्यादि अनिलानां संशोधने सति, इन्प्लूयेंझा सदृश रोगाणां वैराणून् एते आनयन्तीति किंवदन्तिः सर्वत्र प्रसरितमासीत्। प्रतिवर्षं २० तः ३० धूमकेतवः आगत्य गच्छन्ति। बृहत् कायाः एव दृग्गोचराः भवन्ति। एतेषां कक्षाः दीर्घवृत्तयुक्ताः भवन्ति। परवलयः उत अपरवलयः प्रायः भवेदिति। अस्मिन् विषये न्यूटन्, गेलिलियो, क्लेपर्, रेन् इत्यादयः चर्चां कृतवन्तः किन्तु सदुत्तरान्वेषकः एड्मण्ड् ह्याली इति। धूमकेतुः कक्षायां ७६ वर्षेषु एकवारम् आगच्छति इति विषयं ज्ञात्वा, गणनां कृत्वा १७५८ तमे संवत्सरे आगमिष्यति इति सूचितवान् आसीत्। तथैव जातञ्च। धूमकेतवे अस्यैव नाम स्थापितवन्तः। इदानीन्तनकाले यः पूर्वं धूमकेतुं सूचयति तस्यैव नाम स्थापयन्ति। उदाहरणार्थं भारतीयः कश्चित् विज्ञानी बाप्प तथा तस्य गणः एकं धूमकेतुम् अन्विष्टवन्तः। अस्य धूमकेतवे बाप्प-बाग्-न्यूकर्क इति नाम स्थापितवन्तः। केचन प्रकाशमानाः धूमकेतवः सन्ति। ते क्रमशः भवन्ति, १९१० वर्षस्य डेलैट् तथा ह्याली। १९७० वर्षस्य बेनेट्। १९७३ वर्षस्य कोहोटिक्। १९७६ वर्षस्य वेस्ट्। इदानीन्तनकाले धूमकेतूनां नामकरणकरणे पूर्वोक्तरीत्या व्यवस्था नास्ति। व्यत्यासोऽस्ति, यस्मिन् वर्षे मासे च धूमकेतोः अन्वेषणं कुर्वन्ति, तस्येव वर्षस्य क्रिस्तशकं स्थापयन्ति। उदाहरणार्थं १९९६ वर्षस्य जनेवरि मासस्य उत्तरार्धे अन्विष्टस्य धूमकेतवे १९९६ बि२ इति नामकरणं कृतवन्तः। धूमकेतूनाम् अन्त्यं वैविध्यमयं भवति। सूर्यम् अनेकवारं परिक्रम्य तस्मिन्नविद्यमानः अंशः बाष्पीभूत्वा कक्षायां प्रसरितः भवति। मूलकायस्य द्रव्यराशिः न्यूनः भवति इत्यतः बाष्पीभूतं वस्तु पुनः न प्राप्यते इति। एन्के नामकः धूमकेतुः वर्षत्रयोत्तरचतुर्मासेषु एकवारम् आगत्य एवं स्व वस्तु विना प्राप्नोति। अन्तिमे एकवारं सम्पूर्णकायस्य अस्तित्वमेव न भवति। धूमकेतवः शिथिलकायाः विरूपाश्च भवन्ति। अतः यस्य क्स्यचित् ग्रहस्य समीपे गच्छति तर्हि केन्द्रस्य खण्डः भवेत्। एकवारं खण्डः भवति चेत् पुनः पुनः खण्डः भवेत्। प्रायः सूर्यः अतीव सामीप्यात् यदा परिक्रमति तदा एवं भवति। अस्य वर्गस्य कायेभ्यः “सूर्यस्पर्शाः”(सन् ग्रेसस्) इति नाम। किन्तु,१९९२ तमे संवत्सरे “षोमेकर् लेवि” गुरुग्रहस्य समीपे यदा गतवान्, तदा २१ खण्डाः भूत्वा स्फुटितः। १९९४ तमे संवत्सरे जुलैमासे एकैकखण्डः ग्रहस्योपरि संघट्टितः नष्टश्च इति। भूमेः उपरि सन्घट्टनमपि भवेदिति। अनेनैव कारणेन १९०८ तमे संवत्सरे सैबेरिया देशस्य तुङ्गाष्का प्रदेशस्य अरण्यं दग्धम् इति। केषुचित् सन्दर्भेषु धूमकेतवः ग्रहस्यैव परिक्रमणपथात् विचलिताः भवन्ति। सद्यः शिरान् कायस्य पथः वरुणस्यापेक्षया (नेप्चून् ) दूरमस्तीति ज्ञातमस्ति। अयं क्षुद्रग्रहो वा इति शङ्का आसीत्। १९९६ तमे संवत्सरे फेब्बर्वरि मासे सूर्यं परिक्रम्य प्रत्यागमन वेलायाम् अयं धूमकेतुः इति निश्चयं कृतवन्तः। अयन्तु जेराल्ड् कैपर् पट्टेन सम्बद्धं स्यात् इति।

हेल् बाप् धूमकेतुः[सम्पादयतु]

अयं अस्य शतमानस्य श्रेष्ठः धूमकेतुः इति कल्पना आसीत्। एनं प्रथमवारं यदा सूचितवन्तः तदा अयं शनिग्रहापेक्षया दूरे अस्तीति। अतः बृहत् धूमकेतुः आसीत्। कालक्रमेण इतोपि प्रकाशमानः भवेदिति आशा आसीत्। तदा एव केन्द्रात् जलाकारसदृशानां वस्तूनां बहिरागमनं दृष्टम् इति। पथस्य विवरणेषु १८११तमे संवत्सरे दृष्टस्य धूमकेतोः सादृश्यमस्य आसीत् इति। अयं प्रातः काले दृष्टिगोचरः यथा भवेत् तादृश प्रकाशवान् भूत्वा प्रायः १७ मासापर्यन्तं यन्त्रं विना दृग्गोचरः भवति स्म इति। तदा तदा प्रकाशे व्यत्यासो भवति स्म, तेन निराशापि असीदिति। अयम् “इकेयासकिवत्” दीर्घलाङ्गूलवान् असीत्। किन्तु प्रकाशवानासीत्, तथापि शतमानस्य अद्भुतं धूमकेतुः आसीत् इति कीर्तिरस्य।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=धूमकेतुः&oldid=282606" इत्यस्माद् पुनः प्राप्तिः