संन्यासं कर्मणां कृष्ण...
श्लोकः
[सम्पादयतु]अर्जुन उवाच -
- सन्न्यासं कर्मणां कृष्णः।कृष्ण पुनर्योगं च शंससि ।
- यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सन्न्यासं कर्मणां कृष्ण पुनः योगं च शंससि यत् श्रेयः एतयोः एकं तत् मे ब्रूहि सुनिश्चितम् ॥ १ ॥
अन्वयः
[सम्पादयतु]कृष्ण ! कर्मणां सन्न्यासं पुनः योगं च शंससि । एतयोः यत् श्रेयः तत् सुनिश्चितम् एकं मे ब्रूहि ।
शब्दार्थः
[सम्पादयतु]- कृष्ण = हे कृष्ण !
- कर्मणाम् = यज्ञादीनाम्
- सन्न्यासम् = परित्यागम्
- पुनः = भूयः
- योगं च = तेषामेव परिग्रहम्
- शंससि = ब्रवीषि
- एतयोः = अनयोः
- यत् श्रेयः = यत् हितम्
- सुनिश्चितम् = निर्णीतम्
- तत् = तत्
- एकम् = एकमेव
- मे ब्रूहि = मां वद ।
अर्थः
[सम्पादयतु]हे कृष्ण ! भवान् कर्मसन्न्यासं वदति, कर्मयोगमपि वदति । कर्मणां त्यागः, तेषां परिग्रहश्च विरुद्धत्वात् युगपत् सर्वथा न सम्भवति । तस्मात् श्रेत्वेन यत् भवता निश्चितं तत् मे कथयतु ।
शाङ्करभाष्यम्
[सम्पादयतु]'कर्मण्यकर्म यः पश्येत्' इत्यारभ्य 'स युक्तः कृत्स्नकर्मकृत्', 'ज्ञानाग्निदग्धकर्माणं', 'शारीरं केवलं कर्म कुर्वन्', 'यदृच्छालाभसंतुष्टो', 'ब्रह्मार्पणंहब्रह्म हविः', 'कर्मजान्विद्धि तान्सर्वान्', 'सर्वं कर्माखिलं पार्थ', 'ज्ञानाग्निः सर्वकर्माणि', 'योगसंन्यस्तकर्माणम्' इत्यन्तैर्वचनैः सर्वकर्मसंन्यासमवोचद्भगवान्'छित्तवैनं संशयं योगमातिष्ठ' इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणमनुतिष्ठेत्युक्तवान्। तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत्परस्परविरोधादेकेनसह कर्तुमशक्यत्वात्कालभेदेन चानुष्ठानविधानाभावादर्थादेतयोरन्यतरकर्तव्यताप्राप्तौ सत्यां यत्प्रशस्यतरमेतयोः कर्मानुष्ठानकर्मसंन्यासयोस्तत्कर्तव्यं नेतरदित्येवं मन्यमानः प्रशस्यतरबुभुत्सयार्जुन उवाच-संन्यासं कर्मणां कृष्णेत्यादिना। ननु चात्मविदो ज्ञानयोगेन निष्ठां प्रतिपादयिष्यन्पूर्वोदाहृतैर्वचनैर्भगवान्सर्वकर्मसंन्यासमवोचन्नत्वनात्मज्ञस्य। अतश्च कर्मानुष्ठानकर्मसंन्यासयोर्भिन्नपुरुषविषयत्वादन्यतरस्य प्रशस्यतरत्वबुभुत्सया प्रश्नोऽनुपपन्नः। सत्यमेव त्वदभिप्रायेण प्रश्नोनोपपद्यते प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः। कथं, पूर्वोदाहृतैर्वचनैर्भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात्प्राधान्यमन्तरेणच कर्तारं तस्य कर्तव्यत्वासंभवादनात्मविदपि कर्ता पक्षे प्राप्तोऽनूद्यत इति न पुनरात्मवित्कर्तृकत्वमेव संन्यासय विवक्षितमित्येवं मन्वानस्यार्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्पुरुषकर्तृकत्वमप्यस्तीतिपूर्वोक्तेन प्रकारेण तयोः परस्परविरोधादन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यं नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः। प्रतिवचनवाक्यार्थनिरूपणेनापिप्रष्टुरभिप्राय एवमेवेति गम्यते। कथं संन्यासकर्मयोगौ निःश्रेयसकरौ, 'तयोस्तु-कर्मयोगो विशिष्यते' इति प्रतिवचनमेतन्निरूप्यं, किमानेनात्मावित्कर्तृकयोः संन्यासकर्मयोगयोर्निःश्रेयसकरत्वंुप्रयोजनमुक्त्वा तयोरेव कुतश्चिद्विशेषात्कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यत आहोस्विदनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभमुयच्यत इति। किंचातोयद्यात्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोर्निःश्रेयसकरत्वं तयोस्तु कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यते यदि वानात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदिभयमुच्यतइति। अत्रोच्यते-आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वाभिधानमित्येतदुभयमनुपपन्नम्।यद्यनात्मविदः कर्मसंन्यासस्तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेतां तदा तयोर्निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासाद्विशिष्टत्वाभिधानमित्येतदुभयमुपपद्येत,आत्मविदस्तु संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगो विशिष्यत इति चानुपपन्नम्। अत्राह, किमात्मविदः संन्यासकर्मयोगयोरप्यसंभवआहोस्विदन्यतरस्यासंभवः, यदा चान्यतरस्यासंभवस्तदा किं कर्मसंन्यासस्योत कर्मयोगस्येत्यसंभवे कारणं च वक्तव्यमिति। अत्रोच्यते, आत्माविदो निवृत्तमिथ्याज्ञानत्वाद्विपर्ययज्ञानमूलस्यकर्मयोगस्यासंभवः स्याज्जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन यो वेत्ति तस्यात्मविदः सम्यग्दर्शनेनापास्तमिथ्याज्ञानस्य निष्क्रियात्मरूपावस्थानलक्षणं ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये संन्यासं कर्मणां कृष्ण... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च