सदस्यः:Prarthana1830590/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम वेदान्तः
देशः  [[|]]


वेदान्तः[सम्पादयतु]

वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम् आधारीकृत्य महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति । वेदान्तमतानुसारं निःश्रेयस् परं प्रयोजनमस्ति । निःश्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति । ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।

https://www.hinduwebsite.com/vedicsection/essayindex.asp

सञ्चिका:Vedas.jpg
— Wikipedian —
नाम वेदः
देशः  [[|]]

वेदः[सम्पादयतु]

चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतांऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति ।संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

https://www.hinduwebsite.com/vedantamain.asp


— Wikipedian —
नाम ऋग्वेदः
देशः  [[|]]

ऋग्वेदः[सम्पादयतु]

ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) । मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते । द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीती साम्प्रतिका आलोचकाः कथयन्ति । चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः द्र्श्यते । सर्ववेदानामिव अस्यापि संहिता-ब्राह्मण-आरण्यक-उपनिषभ्दागाः सन्त्येव । तदधिक्रुत्य अनन्तरं सूच्यते ।

http://www.preservearticles.com/short-essays/short-essay-on-rigveda-samhita/16673