सदस्यसम्भाषणम्:Preethi1830790

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०६:४३, २९ जून २०१८ (UTC)

सारस्वति पूजा[सम्पादयतु]

सरस्वती अस्माकं एका देवी अस्ति। इयं ज्ञानस्य देवी अस्ति। सरस्वत्याः चत्वारः हस्ताः भवन्ति। तेषु एकस्मिन् हस्ते पुस्तकं धारयति, एकस्मिन् हस्ते मालां धारयति, एकस्मिन् हस्ते वीणां धारयति तथा एकेन हस्तेन वीणां वादयति। सरस्वत्याः वाहनं हंसः अस्ति। इयं पद्मासने तिष्ठति। इयं शुक्लानि वस्त्राणि धारयति। अस्याः मूर्तिः अतीव मनोहरा गम्भीरा शान्तिमयी प्रसन्नकारा च भवति। सरस्वती ज्ञानस्य अधिष्ठात्री देवी अस्ति। इयं ज्ञानमयी अस्ति। इयं ज्ञानं ददाति, अज्ञानं च निवारयति। इयं विवेकं ददाति, अविवेकं च निवारयति। इयं विद्याम ददाति अविद्यां च नाशयति। अतएव सर्वे विद्योपासकाः सरस्वतीं सेवन्ते, सरस्वतीं प्रणमन्ती, सरस्वतीं पूज्यन्ति, सरस्वतीं स्तुवन्ति तथा सरस्वतीं एव उपासते। सरस्वती एव विदुषां विद्यार्थिनां च महामान्या देवी अस्ति। अत एव वसन्तपञ्चम्यां भारतस्य सर्वेषु अपि विद्यालयेषु महता समारोहेण सरस्वत्याः पूजा भवति।

==

भारतीयसंस्कृतिः
— Wikipedian —
नाम प्रीति निहारिका
जन्म १०-०३-२००१
अन्ध्र प्रदेष्
राष्ट्रियत्वम् हिन्दु
देशः इन्दिअ
निवासः नर्सिपत्नम्
भाषा तेलुगु
विद्या उद्योगः च
जीविका विद्याधि
विद्या डिग्री
प्राथमिक विद्यालयः सरन्य स्कूल
विद्यालयः स्रि चैतन्य
विश्वविद्यालयः क्राइस्ट यूनिवर्सिटी
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) preethiniharika.karuturi@gmail.com


भारतीयसंस्कृतिः[सम्पादयतु]

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः।भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात्स मारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृ

तिम् आचरन्ति ।

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न । सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – "वैविध्ये एकता” अथवा “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम्

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Preethi1830790&oldid=446532" इत्यस्माद् प्रतिप्राप्तम्