सम्पत्कुमार्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्पत्कुमार् कर्णाटकप्रदेशस्य मैसुरुगनगरे संस्कृतसमाचारपत्रिकायाः सुधर्मायाः संपादक आसीत्।[१] २०२० तमे वर्षे स स्वपत्न्या जयलक्ष्म्या सह साहित्यशिक्षाक्षेत्रे योगदानार्थं भारतसर्वकारेण पद्मश्रीसम्मानार्थं चयनितः अभवत्।[२]

प्रारंभिक जीवन[सम्पादयतु]

सम्पत्कुमार् दक्षिणकाशीसमीपे कळलेग्रामे अजायत। स महाराजसंस्कृतमहाविद्यालये संस्कृतम् अध्यैत। स विधौ च वाणिज्ये च स्नातकपदवीं प्राप्तवान्। तस्य पिता पण्डितः कळले नडादूरु वरदराजय्यङ्गार्यः संस्कृतस्य विद्वान् आसीत्।[३]

योगदानम्[सम्पादयतु]

सम्पत्कुमार् स्वपितुः संस्कृतपत्रिकायां सुधर्मायां सम्मिलितः भूत्वा संस्कृतपत्रकारितायां स्वस्य कार्यारम्भं कृतवान्। सुधर्मा सदा प्रचलेत् इति तस्य पितुः स्वप्नम् आसीत्। एतदर्थं स त्रिशंदधिकवर्षाणि यावत् सुधर्मायाः संपादकरूपेण संस्कृताय सेवते स्म।

यद्यपि सुधर्मायां लाभस्य अवसरो न्यून आसीत्। तदा अपि स १९९० तमे वर्षे पितुः मरणोपरान्तम् अपि कष्टं सोढ्वा ताम् स्वमृत्युपर्यन्तम् अचालयत्। सम्प्रति अस्याः पत्रिकायाः पञ्चसहस्राधिकाः प्रतयः प्रकाशिताः भवन्ति। अस्याः मूल्यं सामान्यपत्रवाहने वा अङ्कीयसंस्करणे वा ६०० रुप्यकाणि प्रतिवर्षं तथा पञ्जीकृतपत्रवाहने १२०० रुप्यकाणि प्रतिवर्षम् अस्ति।[४]

१९८८ तमे वर्षे स स्वस्य मुद्रणनिगमं प्रारभ्य मैसूरुनगरे उत्पीठप्रकाशनस्य आरम्भं कृतवान्। स २००९ तमे वर्षे देशस्य प्रथमं संस्कृतदिनदर्शिनीं प्रवर्तयत्। सा अधुना २०२२ तमे वर्षे अपि प्रचलति। अस्याः मूल्यं सामान्यपत्रवाहने ५० रुप्यकाणि प्रति संस्करणम् अस्ति।[५] स समाजसेवी अपि आसीत्।

मृत्यु[सम्पादयतु]

सम्पत्कुमार् एकविंशत्योत्तरद्विसहस्रतमे वर्षे जुन मासस्य त्रिंशति दिनाङ्के हृदयाघातेन दिवङ्गतो जातः।[६][७] देशस्य श्रेष्ठा राजनेतारः च लेखकाः च परिजनाः च मित्राणि च तस्मै श्रद्धाञ्जलीन् आर्पयन्। येषु प्रधानमन्त्री नरेन्द्रमोदी[८][९] तथा तत्कालीनः कर्णाटकस्य मुख्यमन्त्री बि एस् यड्ड्यूरप्पः[१०] अपि आस्ताम्। मृत्युसमये स चतुःषष्ठिवर्षीयः आसीत्। अधुना तस्य पत्नी जयलक्ष्मीः के एस् सुधर्मां चालयति।

  1. "सम्पादकः वर्णितः". 
  2. "२०२० तमस्य वर्षस्य पद्मपुरस्काराः". 
  3. "जीवनस्य विवरणम्". 
  4. "मूल्यसूचिः". 
  5. "दिनदर्शिकायाः वर्णनम्". 
  6. "देहत्यागस्य वार्ता". 
  7. "देहान्तवार्ता". 
  8. "प्रधानमन्त्रिणः कूजनम्". 
  9. "प्रधानमन्त्रिणः श्रद्धाञ्जलिः". 
  10. "येडियुरप्पस्य कूजनम्". 
"https://sa.wikipedia.org/w/index.php?title=सम्पत्कुमार्&oldid=470700" इत्यस्माद् प्रतिप्राप्तम्